निदानस्थानम् - षष्ठोऽध्यायः

हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड म्हणजेच संहिता.


अथातो मदात्ययादिनिदानं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
तीक्ष्णोष्णरूक्षसूक्ष्माम्लं व्यवाय्याशुकरं लघु
विकाषि विशदं मद्यमोजसोऽस्माद्विपर्ययः ॥१॥
तीक्ष्णादयो विषेऽप्युक्ताश्चित्तोपप्लाविनो गुणाः
जीवितान्ताय जायन्ते विषे तूत्कर्षवृत्तितः ॥२॥
तीक्ष्णादिभिर्गुणैर्मद्यं मन्दादीनोजसो गुणान्
दशभिर्दश सङ्क्षोभ्य चेतो नयति विक्रियाम् ॥३॥
आद्ये मदे द्वितीये तु प्रमादायतने स्थितः
दुर्विकल्पहतो मूढः सुखमित्यधिमुच्यते ॥४॥
मध्यमोत्तमयोः सन्धिं प्राप्य राजसतामसः
निरङ्कुश इव व्यालो न किञ्चिन्नाचरेज्जडः ॥५॥
इयं भूमिरवद्यानां दौःशील्यस्येदमास्पदम्
एकोऽय बहुमार्गाया दुर्गतेर्देशिकः परम् ॥६॥
निश्चेष्टः शववच्छेते तृतीये तु मदे स्थितः
मरणादपि पापात्मा गतः पापतरां दशाम् ॥७॥
धर्माधर्मं सुखं दुःखमर्थानर्थं हिताहितम्
यदासक्तो न जानाति कथं तच्छीलयेद्बुधः ॥८॥
मद्ये मोहो भयं शोकः क्रोधो मृत्युश्च संश्रिताः
सोन्मादमदमूर्च्छायाः सापस्मारापतानकाः ॥९॥
यत्रैकः स्मृतिविभ्रंशस्तत्र सर्वमसाधु यत्
अयुक्तियुक्तमन्नं हि व्याधये मरणाय वा ॥१०॥
मद्यं त्रिवर्गधीधैर्यलज्जादेरपि नाशनम्
नातिमाद्यन्ति बलिनः कृताहारा महाशनाः ॥११॥
स्निग्धाः सत्त्ववयोयुक्ता मद्यनित्यास्तदन्वयाः
मेदःकफाधिका मन्दवातपित्ता दृढाग्नयः ॥१२॥
विपर्ययेऽतिमाद्यन्ति विश्रब्धाः कुपिताश्च ये
मद्येन चाम्लरूक्षेण साजीर्णे बहुनाऽति च ॥१३॥
वातात्पित्तात्कफात्सर्वैश्चत्वारः स्युर्मदात्ययाः
सर्वेऽपि सर्वैर्जायन्ते व्यपदेशस्तु भूयसा ॥१४॥
सामान्यं लक्षणं तेषां प्रमोहो हृदयव्यथा
विड्भेदः प्रततं तृष्णा सौम्याग्नेयो ज्वरोऽरुचिः ॥१५॥
शिरःपार्श्वास्थिरुक्कम्पो मर्मभेदस्त्रिकग्रहः
उरोविबन्धस्तिमिरं कासः श्वासः प्रजागरः ॥१६॥
स्वेदोऽतिमात्रं विष्टम्भः श्वयथुश्चित्तविभ्रमः
प्रलापश्छर्दिरुत्क्लेशो भ्रमो दुःस्वप्नदर्शनम् ॥१७॥
विशेषाज्जागरश्वासकम्प मूर्धरुजोऽनिलात्
स्वप्ने भ्रमत्युत्पतति प्रेतैश्च सह भाषते ॥१८॥
पित्ताद्दाहज्वरस्वेद मोहातीसारतृड्भ्रमाः
देहो हरितहारिद्रो रक्तनेत्रकपोलता ॥१९॥
श्लेष्मणा छर्दिहृल्लासनिद्रो दर्दाङ्गगौरवम्
सर्वजे सर्वलिङ्गत्वम् मुक्त्वा मद्यं पिबेत्तु यः ॥२०॥
सहसाऽनुचितं वाऽन्यत्तस्य ध्वंसकविक्षयौ
भवेतां मारुतात्कष्टौ दुर्बलस्य विशेषतः ॥२१॥
ध्वंसके श्लेष्मनिष्ठीवः कण्ठशोषोऽतिनिद्र ता
शब्दासहत्वं तन्द्रा च विक्षयेऽङ्गशिरोतिरुक् ॥२२॥
हृत्कण्ठरोगः सम्मोहः कासस्तृष्णा वमिर्ज्वरः
निवृत्तो यस्तु मद्येभ्यो जितात्मा बुद्धिपूर्वकृत् ॥२३॥
विकारैः स्पृश्यते जातु न स शारीरमानसैः
इति मदात्ययनिदानम्
रजोमोहाहिताहारपरस्य स्युस्त्रयो गदाः ॥२४॥
रसासृक्चेतनावाहिस्रोतोरोध समुद्भवाः
मदमूर्च्छायसन्न्यासा यथोत्तरबलोत्तराः ॥२५॥
अथ मदनिदानम्
मदोऽत्र दोषैः सर्वैश्च रक्तमद्यविषैरपि
सक्तानल्पद्रुताभाषश्चलः स्खलितचेष्टितः ॥२६॥
रूक्षश्यावारुणतनुर्मदे वातोद्भवे भवेत्
पित्तेन क्रोधनो रक्तपीताभः कलहप्रियः ॥२७॥
स्वल्पसम्बद्धवाक्पाण्डुः कफाद्ध्य्नापरोऽलसः
सर्वात्मा सन्निपातेन रक्तात्स्तब्धाङ्गदृष्टिता ॥२८॥
पित्तलिङ्गं च मद्येन विकृतेहास्वराङ्गता
विषे कम्पोऽतिनिद्रा च सर्वेभ्योऽभ्यधिकस्तु सः ॥२९॥
लक्षयेल्लक्षणोत्कर्षाद्वातादीन् शोणितादिषु
इति मदनिदानम्
अथ मूर्च्छायनिदानम्
अरुणं कृष्णनीलं वा खं पश्यन्प्रविशेत्तमः ॥३०॥
शीघ्रं च प्रतिबुध्येत हृत्पीडा वेपथुर्भ्रमः
कार्श्यं श्यावारुणा छाया मूर्च्छाये मारुतात्मके ॥३१॥
पित्तेन रक्तं पीतं वा नभः पश्यन् विशेत्तमः
विबुध्येत च सस्वेदो दाहतृट्तापपीडितः ॥३२॥
भिन्नविण्नीलपीताभो रक्तपीताकुलेक्षणः
कफेन मेघसंकाशं पश्यन्नाकाशमाविशेत् ॥३३॥
तमश्चिराच्च बुध्येत सहृल्लासः प्रसेकवान्
गुरुभिः स्तिमितैरङ्गैरार्द्र चर्मावनद्धवत् ॥३४॥
सर्वाकृतिस्त्रिभिर्दोषैरपस्मार इवापरः
पातयत्याशु निश्चेष्टं विना बीभत्सचेष्टितैः ॥३५॥
इति मूर्च्छायनिदानम्
अथ सन्न्यासनिदानम्
दोषेषु मदमूर्च्छायाः कृतवेगेषु देहिनाम्
स्वयमेवोपशाम्यन्ति सन्न्यासो नौषधैर्विना ॥३६॥
वाग्देहमनसां चेष्टामाक्षिप्यातिबला मलाः
सन्न्यासं सन्निपतिताः प्राणायतनसंश्रयाः ॥३७॥
कुर्वन्ति तेन पुरुषः काष्ठीभूतो मृतोपमः
म्रियेत शीघ्रं शीघ्रं चेच्चिकित्सा न प्रयुज्यते ॥३८॥
अगाधे ग्राहबहुले सलिलौघ इवातटे
सन्न्यासे विनिमज्जन्तं नरमाशु निवर्तयेत् ॥३९॥
इति सन्न्यासनिदानम्
मदमानरोषतोषप्रभृतिभिररिभिर्निजैः परिष्वङ्गः
युक्तायुक्तं च समं युक्तिवियुक्तेन मद्येन ॥४०॥
बलकालदेशसात्म्यप्रकृतिसहायामयवयांसि
प्रविभज्य तदनुरूपं यदि पिबति ततः पिबत्यमृतम् ॥४१॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां
तृतीये निदानस्थानेमदात्ययादिनिदानं नाम षष्ठोऽध्यायः ॥६॥

N/A

References : N/A
Last Updated : March 15, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP