संस्कृत सूची|संस्कृत साहित्य|उपनिषद|सुबालोपनिषत्| तृतीयः खण्डः सुबालोपनिषत् प्रथमः खण्डः द्वितीयः खण्डः तृतीयः खण्डः चतुर्थः खण्डः पञ्चमः खण्डः षष्ठः खण्डः सप्तमः खण्डः अष्टमः खण्डः नवमः खण्डः दशमः खण्डः एकादशः खण्डः द्वादशः खण्डः त्रयोदशः खण्डः चतुर्दशः खण्डः पञ्चदशः खण्डः षोडशः खण्डः सुबालोपनिषत् - तृतीयः खण्डः उपनिषद् हिन्दू धर्माचे महत्त्वपूर्ण श्रुति धर्मग्रन्थ आहेत.Upanishad are highly philosophical and metaphysical part of Vedas. Tags : upanishadvedउपनिषद्वेद तृतीयः खण्डः Translation - भाषांतर असद्वा इदमग्र आसीदजातमभूतमप्रतिष्ठितमशब्दमस्पर्शमरूपमरसमगन्धमव्ययममहान्तमबृहन्तमजमात्मानं मत्वा धीरो न शोचति ॥१॥अप्रमाणममुखमश्रोत्रमवागमनोऽतेजस्कमचक्षुष्कमनामगोत्रमशिरस्कमपाणिपादमस्निग्धमलोहितमप्रमेयमह्रस्वमदीर्घमस्थूलमनण्वनल्पमपारमनिर्देश्यमनपावृतमप्रतर्क्यमप्रकाश्यमसंवृतमनन्तरमबाह्यं न तदश्नाति किञ्चन न तदश्नाति कश्चन ॥२॥एतद्वै सत्येन दानेन तपसाऽनाशकेन ब्रह्मचर्येण निर्वेदनेनानाशकेन षडङ्गेनैव साधयेदेतत्त्रयं वीक्षेत दमं दानं दयामिति न तस्य प्राणा उत्क्रामन्त्यत्रैव समवलीयन्ते ब्रह्मैव सन्ब्रह्माप्येति य एवं वेद ॥३॥ N/A References : N/A Last Updated : March 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP