संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|षष्ठस्थानम्| प्रथमोऽध्यायः षष्ठस्थानम् प्रथमोऽध्यायः षष्ठस्थानम् - प्रथमोऽध्यायः हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते. Tags : ayurvedharit samhitasamhitaआयुर्वेदसंहिताहारीत संहिता प्रथमोऽध्यायः Translation - भाषांतर आत्रेय उवाचपञ्चभूतात्मकं देहं पञ्चेन्द्रियसमायुतम्सप्तधातुगुणोपेतं दशवातात्मिकं विदुः ॥१॥जीवो मनस्तथाकाशस्तथैव त्रिगुणात्मिकःशुक्रशोणितसम्भूतं शरीरं दोषभाजनम्पञ्चभूतमयं चैतद्विज्ञेयं भिषजां वर ॥२॥चतुर्विधं शरीरं स्याद्बाल्यं प्रौढं प्रगल्भकम्स्थविरञ्च तथा प्रोक्तं बाल्यमल्पशरीरकम्षोडशवार्षिकं यावद्बाल्यं तावत् प्रवर्त्तते ॥३॥धातूनाञ्च बलं तत्र धातुमूलं शरीरकम्धातूनां पुष्टियोगेन शरीरञ्चातिवर्द्धते ॥४॥जीवितं धातुमूलं तु मृत्युर्धातुक्षयादपिहीनधातोश्च योगेन लभते स्वल्पजीवनम् ॥५॥नरो धातुबलेनापि जीवितश्चात्र दृश्यतेतस्माच्च मैथुनात्सम्यग्जायते गर्भसम्भवः ॥६॥आदौ धातुबलं तस्मात्सत्त्वं तस्माद्रजो विदुःरजसा जायते कामः कामात्सुरत सङ्गमः ॥७॥मासे मासे ऋतुः स्त्रीणां दृष्ट्वा ऋतुमतीस्त्रियःरजः सप्तदिनं यावदृतुश्च भिषजां वर ॥८॥सप्तरात्राद्योनिशुद्धिस्तस्मादृतुमती भवेत्दृश्यते च रजः स्त्रीणां विना योगेन पुत्रक ॥९॥दृश्यते न विना योगात्फलं स्त्रीणां तु पुत्रकसंशयाद्विस्मितश्चित्ते हारीतः पृरिपृच्छति ॥१०॥हारीत उवाचसंयोगेन विना प्राज्ञ कथं गर्भो न जायतेसंयोगेन विना पुष्पं फलं वा न कथं भवेत् ॥११॥वृक्षवन्न कथं स्त्रीणां फलोत्पत्तिः प्रदृश्यतेएतत्पृष्टो महाचार्यः प्रोवाच ऋषिपुङ्गवः ॥१२॥आत्रेय उवाचविरुद्धानाञ्च वल्लीनां स्थावराणाञ्च पुत्रकतत्र धातुसमं बीजं सह योगेन वर्त्तते ॥१३॥न भिन्नदृष्टिस्तस्येव दृश्यते शृणु पुत्रकस्थावराणाञ्च सर्वेषां शिवशक्तिमयं विदुः ॥१४॥निश्चलोऽपि शिवो ज्ञेयो व्याप्तिशक्तिर्महामतेतत्र स्त्रीपुरुषगुणा वर्त्तन्ते समयोगतः ॥१५॥आम्रपुष्पं फलं तद्वद्बीजं शुक्रमयं विदुःस्त्रीणां रजोमयं रेतो बीजाढ्यमिन्द्रियं नरेतस्मात्संयोगतः पुत्र जायते गर्भसम्भवः ॥१६॥प्रथमेऽहनि रेतश्च संयोगात्कललं च यत्जायते बुद्बुदाकारं शोणितञ्च दशाहनि ॥१७॥घनं पञ्चदशाहे स्याद्विंशाहे मांसपिण्डकम्पञ्चविंशत्तमे प्राप्ते पञ्चभूतात्मसम्भवः ॥१८॥मासैकेन च पिण्डस्य पञ्चतत्त्वं प्रजायतेपञ्चाशद्दिनसम्प्राप्ते अङ्कुराणाञ्च सम्भवः ॥१९॥मासत्रये तु सम्प्राप्ते हस्तपादौ प्रवर्धतेसार्द्धमासत्रये प्राप्ते शिरश्च सारवद्भवेत् ॥२०॥चतुर्थके च लोमानां सम्भवश्चात्र दृश्यतेपञ्चमे च सुजीवः स्यात्षष्ठे प्रस्फुरणं भवेत् ॥२१॥अष्टमे मासि जाते च अग्नियोगः प्रवर्त्ततेमासे तु नवमे प्राप्ते जायते तस्य चेष्टितम् ॥२२॥जायते तस्य वैराग्यं गर्भवासस्य कारणात्दशमे च प्रसूयेत तथैकादशमेऽपिवा ॥२३॥अथ दोषबलेनापि गर्भो वापि प्रसूयतेवातसम्प्रेरिते गर्भे अपूर्णे दिवसैर्यदि ॥२४॥प्रसूयते वाप्यथ तद्गर्भे बालः प्रदृश्यतेअथ वक्ष्यामि देहस्य वर्णज्ञानं महामते ॥२५॥नररेतोऽधिकत्वेन तथा शुक्राधिकेन तुहीनरसेन्द्रियैर्वापि जायते पुरुषाधिकः ॥२६॥स्त्रीरेतसोधिकत्वेन हीनशुक्रेन्द्रियादपिरजसोप्यधिकत्वेन स्त्रीसम्भूतिः प्रजायते ॥२७॥सप्तधातुबलेनापि प्रकृत्या विकृतेः समेऋतुव्याप्तरजःस्त्रीणां या या भवति भावना ॥२८॥सात्त्विकी राजसी वापि तामसी वापि सत्तमतादृशं जनयेद्बालं गुणैर्वा तादृशैरपि ॥२९॥या च भावयते चित्ते भ्रातरं पितरं नरम्येन वा तेन सदृशं सूयते सा भिषग्वर ॥३०॥वातेन श्यामः पुरुषो वातप्रकृतिसम्भवःपित्तेन गौरो भवति पित्तप्रकृतिवान्भवेत् ॥३१॥श्लेष्मणा जायते स्निग्धः श्यामश्च लोमशस्तथादीर्घशिरोरुहः स्थूलो दीर्घप्रकृतिसंयुतः ॥३२॥वातरक्तेन कृष्णोऽपि पित्तरक्तेन पिङ्गलःपित्तवांश्च नरो रूक्षः स्निग्धः श्यामः कफासृजा ॥३३॥भृङ्गराजाज्जनाकारं वातेन दृष्टिमण्डलम्सूक्ष्मलोमा च कृष्णश्च रूक्षमूर्द्धजयान्वितःयस्य वातेन तं विद्धि नखसूक्ष्मासितच्छविम् ॥३४॥पित्तेन पीतश्च भवेदलोमा पिङ्गेक्षणा भासपिशङ्गकेशःआलोमशः पीतनखप्रभः स्यात्क्षुधातुरो निरूष्मणा स दृप्तः ॥३५॥सलोमशो दृप्तकठोरकेशः श्यामच्छविर्दृप्ततनुर्विशालःसुस्निग्धदन्तः सितनेत्ररम्यो नखच्छविः पाण्डुसुदीर्घनासः ॥३६॥समवीर्यरजस्त्वेन नरः स्त्रीप्रकृतिर्भवेत्नपुंसकमिति ख्यातं न स्त्री न पुरुषो भवेत् ॥३७॥दोषधातुविशेषेण सङ्गे सत्यङ्गसंभवःकृतभ्रान्ते च सम्भोगे द्वाभ्याञ्च द्रवते मनः ॥३८॥दृश्यते यमलोत्पत्तिरन्यचित्तप्रियङ्करी ॥३९॥समदोषबलेनापि प्रकृत्या विकृतेरपिशुक्रासृक्च भवेच्छ्यामा नपुंसकसमुद्भवः ॥४०॥अथ बीजलेहिपञ्चभूताग्निना परिपक्वं कललं क्रियते ।सोऽपि चान्तःस्थो वायुर्बुद्बुदाकारो बाह्यवातेन सम्भृतो भवति ।स च कललं भूत्वा पञ्चभूताग्निना पिण्डं जनयति ।तच्च पिण्डं परिपाकंगतंघनसङ्घातञ्च जातं व्यानवातेन पञ्चतत्त्वानि हस्तपादादीञ्छिरो वयवान्संजनयति अन्तःस्थो वायुरेकोऽपि नानास्थानंसमाश्रित्य देहाकारंकरोति ।उदानो गलहृदयसंस्थितो देहमुखद्वारं प्रकाशयति ।अपानवायुरधःस्थोऽपानद्वारं विशोधयति ।एते चान्तःस्थाः पृथक्पृथक् मार्गेछिद्रं कृत्वा निर्गच्छन्ति ।तान्येव नवद्वाराणि मुखघ्राणकर्णनेत्रापानमेहनानि चैतानि द्वाराणि वातेन प्रभवन्ति ।तत्रान्तः स्थो वायुः प्रतानत्वेन हस्तपादाद्यानवयवान्संजनयति ॥४१॥त्वङ्मांसकेशरोमास्थिभूभागं जनयेत्तथारसं रक्तञ्च लालाञ्च मूत्रं शुक्रं जलानि च ॥४२॥अग्निं पितञ्च नेत्रञ्च तमः क्रोधादिपञ्चकम्श्रुतिः स्पर्शस्तथोच्छवासः स्वेदञ्चंक्रमणादि च ॥४३॥वाता ह्येते परिज्ञेया अन्या प्रकृतिरेव चमनो बुद्धिस्तथा निद्रा आलस्यं मद एव च ॥४४॥शून्यात्पञ्च प्रजायन्ते देहे देहे व्यवस्थिताःवातरक्तेन त्वग्देहे मांसं त्वगाश्रितं मतम् ॥४५॥शुक्रश्लेष्मोद्भवो मेदो रसोऽस्थिरक्तसम्भवःपित्ताश्रितं हृदयस्थं वातरक्तमयं यकृत् ॥४६॥रक्तश्लेष्मरसाश्रित उरुः कफरक्तश्लेष्ममयःप्लीहाकफरक्तमयः पेश्यश्च ॥४७॥पञ्चभूतमयं देहमाकाशं शून्यमेव चशून्याद्वायुः समुत्पन्नो वायोः प्राणः प्रजायतेप्राणांशश्च तथा जातः सर्वसत्त्वे प्रतिष्ठितः ॥४८॥आकाशाज्जलमुत्पन्नं जलाज्जाता वसुन्धरातस्यास्तेजस्तथा जातं तेजसो जायते तमः ॥४९॥पञ्चभूतात्मके देहे पञ्चेन्द्रियसमायुतेभूतानाञ्च प्रधानो य आकाशमिति शब्दितः ॥५०॥आकाशात्तेजस्तेजसो दर्पो दर्पात्पराक्रमस्तस्मादहङ्कारस्ततः कोपः कोपात्तमस्तमसःपापमिति ।आकाशत्सत्त्वं सत्त्वात्सत्यं सत्यात्तपस्तपसो नयो नयाद्विवेको विवेकाच्छान्तिः शान्त्या धर्म इति ।सत्त्वाद्रजो रजसः कामः कामाल्लौल्यं लौल्यादसत्यमसत्यात्पापमिति ।रसात्कामः कामादभिलाषोऽभिलाषात्प्रजा प्रजाया मैत्री मैत्र्याः स्नेहः स्नेहान्मोहो मोहान्मायाततो भ्रान्तिर्भ्रान्त्या मिथ्या ततोऽविद्या अविद्यायाः पुण्यपापानि पुण्यपापेभ्यः सम्भव इति ॥५१॥सत्त्वाच्च तम एव स्याज्जाग्रते स्वपते प्रभुःतमसा प्रवृतो देही व्योमेन शून्यतां गतः ॥५२॥देहं विश्रमते यस्मात्तस्मान्निद्रा प्रकीर्त्तितानासार्द्धं च भ्रुवोर्मध्ये लीयते चान्तरात्मना ॥५३तस्माच्चेतो भवेत्तत्र निद्रा व्यालीयते नृणाम् ॥५४सत्त्वात्तेजः समाख्यातं तेजसा पित्तमेव चजायते वायुर्मनसः स्वपते तमसा वृतः ॥५५॥वायोस्तमः समायोगात्स्वप्नावस्थेति गीयतेसत्त्वं तमस्तथा वायुर्वर्त्तते चैकयोगतः ॥५६आहरनिद्रा च क्षुधा च तृष्णाभयञ्च मात्सर्यमदश्च मोहःक्रोधाभिलाषः सुखतृतिशान्तिर्भवन्ति वैदेहभृतां शृणु त्वम् ॥५७॥आहारस्येच्छया देहे विचरते हुताशनःतृप्तिं वापि समाप्नोति रसस्वादरजस्य च ॥५८॥यदा यदा शोषयते मलानामग्निस्तदा तृप्तिमिवातनोतियदा च यस्यैव भवेदतृप्तिस्तदैव तृष्णां प्रतनोति चेतः ॥५९॥इत्यात्रेयभाषिते हारीतोत्तरे शारीरस्थाने शारीराध्यायो नाम प्रथमोऽध्यायः ॥१॥इति शारीरस्थानं समाप्तम् ॥ N/A References : N/A Last Updated : February 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP