मङ्गलश्लोकाः मङ्गलं गणनाथाय
मङ्गलं हरसूनवे ।
मङ्गलं विघ्नराजाय
विघ्नहर्त्रेऽस्तु मङ्गलं ॥१॥
यः शिवो नामरूपाभ्यां
या देवी सर्वमङ्गला
तयोः संस्मरणात्पुंसां
सर्वतो जयमङ्गलम् ॥२॥
नित्योत्सवो भवेत्तेषां
नित्यश्री नित्यमङ्गलम् ।
येषां हृदिस्थो भगवान्
मङ्गलायतनो हरिः ॥३॥
कृष्णः करोतु कल्याणं
कंसकुञ्जरकेसरी ।
कालिन्दीजलकल्लोल-कोलाहलकुतूहली ॥४॥
मङ्गलं कोसलेन्द्राय
महनीयगुणाब्धये ।
चक्रवर्तितनूजाय
सार्वभौमाय मङ्गलम् ॥५॥
श्रीरामचन्द्रः श्रितपारिजातः
समस्तकल्याणगुणाभिरामः ।
सीतामुखांभोरुहचञ्चरीकः
निरन्तरं मङ्गलमातनोतु ॥६॥
Translation - भाषांतर
N/A