मराठी मुख्य सूची|स्तोत्रे|गायत्री स्तोत्रे| आदिशक्ते जगन्मातः भक्तानु... गायत्री स्तोत्रे श्री सवितृगायत्री ऊँ भूर्... आदिशक्ते जगन्मातः भक्तानु... तत्सवितुर्वरॆण्यं भर्गो द... गायत्री स्तोत्र व माहात्म्य आदिशक्ते जगन्मातर्भक्तानु... शाप मुक्ता हि गायत्री चतु... श्री गायत्रीस्तोत्रम् - आदिशक्ते जगन्मातः भक्तानु... ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् । Tags : gayatrigodgoddessstotraगायत्रीदेवतादेवीस्तोत्र श्री गायत्रीस्तोत्रम् Translation - भाषांतर आदिशक्ते जगन्मातःभक्तानुग्रहकारिणि ।सर्वत्र व्यापिकेऽनन्तेश्रीसन्ध्ये ते नमोऽम्बिके ॥१॥त्वमेव सन्ध्ये गायत्रिसावित्री च सरस्वती ।ब्रह्माणी वैष्णवीरौद्री रक्तश्वेता सितेतरा ॥२॥प्रातर्बाला च मध्याह्नेयौवनस्था भवेत् पुनः ।वृद्धा सायं भगवतीचिन्त्यते मुनिभिः सदा ॥३॥हंसस्था गरुडारूढातथा वृषभवाहिनी ।ऋग्वेदाद्ध्यायिनीभूमौ दृश्यते या तपस्विभिः ॥४॥यजुर्वेदं पठन्तीच अन्तरिक्षे विराजते ।या सामगाऽपि सर्वेषुभ्राम्यमाणा तथा भुवि ॥५॥रुद्रलोकं गता त्वंहि विष्णुलोकनिवासिनी ।त्वमेव ब्रह्मणोलोकेऽमर्त्यानुग्रहकारिणी ॥६॥सप्तर्षिप्रीतिजननीमाया बहुवरप्रदा ।शिवयोः करनेत्रोत्थाह्यश्रुस्वेदसमुद्भवा ॥७॥आनन्दजननी दुर्गादशधा परिपठ्यते ।वरेण्या वरदा चैववरिष्ठा वरवर्णिनी ॥८॥गरिष्ठा च वराही चवरारोहा च सप्तमी ।नीलगंगा तथा सन्ध्यासर्वदा भोगमोक्षदा ॥९॥भागीरथी मर्त्यलोकेपाताले भोगवत्यपि ।त्रैलोक्यवाहिनी देवीस्थानत्रयनिवासिनी ॥१०॥भूर्लोकस्था त्वमेवासिधरित्री लोकधारिणी ।भुवर्लोके वायुशक्तिःस्वर्लोके तेजसां निधिः ॥११॥महर्लोके महासिद्धिःजनलोकेऽजनेत्यपि ।तपस्विनी तपोलोकेसत्यलोके तु सत्यवाक् ॥१२॥कमला विष्णुलोके चगायत्री ब्रह्मलोकगा ।रुद्रलोके स्थितागौरी हरार्धांगनिवासिनी ॥१३॥अहमो महतश्चैव प्रकृतिस्त्वंहि गीयसे ।साम्यावस्थात्मिकात्वं हि शबलब्रह्मरूपिणी ॥१४॥ततः परा पराशक्तिःपरमा त्वं हि गीयसे ।इच्छाशक्तिः क्रियाशक्तिःज्ञानशक्तिस्त्रिशक्तिदा ॥१५॥गंगा च यमुना चैवविपाशा च सरस्वती ।सरयू रेविका सिन्धुःनर्मदैरावती तथा ॥१६॥गोदावरी शतद्रुश्चकावेरी देवलोकगा ।कौशिकी चन्द्रमा चैववितस्ता च सरस्वती ॥१७॥गण्डकी तापिनी तोयागोमती वेत्रवत्यपि ।इडा च पिङ्गला चैवसुषुम्ना च तृतीयका ॥१८॥गान्धारी हस्तजिह्वाच पूषाऽपूषा तथैव च ।अलंबुषा कुहूश्चैवशंखिनी प्राणवाहिनी ॥१९॥नाडी च त्वं शरीरस्थागीयसे प्राक्तनैर्बुधैः ।हृद्पद्मस्था प्राणशक्तिःकण्ठस्था स्वप्ननायिका ॥२०॥तालुस्था त्वं सदाधाराबिन्दुस्था बिन्दुमालिनी ।मूले तु कुण्डलीशक्तिःव्यापिनी केशमूलगा ॥२१॥शिखामध्यासना त्वंहि शिखाग्रे तु मनोन्मनी ।किमन्यत् बहुनोक्तेन यत् किञ्चित् जगती त्रये ॥२२॥तत्सर्वं त्वं महादेविश्रिये सन्ध्ये नमोऽस्तु तेइतीदं कीर्तितं स्तोत्रंसन्ध्यायां बहुपुण्यदम् ॥२३॥महापापप्रशमनं महासिद्धिविधायकम् ।य इदं कीर्तयेत् स्तोत्रंसन्ध्याकाले समाहितः ॥२४॥अपुत्रः प्राप्नुयात्पुत्रं धनार्थी धनमाप्नुयात् ।सर्वतीर्थतपोदानयज्ञयोगफलंलभेत् ॥२५॥भोगान् भुक्त्वा चिरंकालमन्ते मोक्षमवाप्नुयात् ।तपस्विभिः कृतं स्तोत्रंस्नानकाले तु यः पठेत् ॥२६॥यत्र कुत्र जले मग्नःसन्ध्यामज्जनजं फलम् ।लभते नात्र संदेहःसत्यं सत्यं तु नारद ॥२७॥शृणुयाद्योपि तद्भक्त्यास तु पापात् प्रमुच्यते ।पीयूषसदृशं वाक्यंसन्ध्योक्तं नारदेरितम् ॥२८॥ N/A References : N/A Last Updated : January 03, 2019 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP