हिंदी सूची|पूजा एवं विधी|नित्य कर्म पूजा| संक्षिप्त पुण्याहवाचन नित्य कर्म पूजा स्नानसे पूर्वके कृत्य स्नान संध्या-प्रकरण पञ्चमहायज्ञ देव-पूजा-प्रकरण (देवयज्ञ) बलिवैश्वदेव (भूतयज्ञ) अतिथि (मनुष्य)-यज्ञ विशिष्ट पूजा-प्रकरण देव-पूजामें विहित एवं निषिध्द पत्र-पुष्प अनुक्रमणिका फल कथन संक्षिप्त पुण्याहवाचन नित्यहोम-विधि संक्षिप्त पुण्याहवाचन प्रस्तुत पूजा प्रकरणात भिन्न भिन्न देवी-देवतांचे पूजन, योग्य निषिद्ध फूल यांचे शास्त्र शुद्ध विवेचन आहे. Tags : devatadevipoojaदेवतादेवीपूजा संक्षिप्त पुण्याहवाचन Translation - भाषांतर संक्षिप्त पुण्याहवाचन यजमान --ब्रह्मं पुण्यं महर्यच्च सृष्ट्युत्पादनकारकम् ।वेदवृक्षोद्भवं नित्यं तत्पुण्याहं ब्रुवन्तु न: ॥भो ब्राह्मणा: मम सकुटुम्बस्य स्परिवारस्य गृहे अमुककर्मण: पुण्याहं भवन्तो ब्रुवन्तु ।ब्राह्मण --ॐ पुण्याहम्, ॐ पुण्याहम्, ॐ पुण्याहम् ।ॐ पुनन्तु मा देवजना: पुनन्तु मनसा धिय: ।पुनन्तु विश्र्वा भूतानि जातवेद: पुनीहि मा ॥यजमान --पृथिव्यामुद्भृतायां तु यत्कल्याणं पुरा कृतम् ।ऋषिभि: सिध्दगन्धर्वैस्तत्कल्याणं ब्रुवन्तु न: ॥भो ब्राह्मणा: मम सकुटुम्बस्य सपरिवारस्य गृगे अमुककर्मण: कल्याणं भवन्तो ब्रुवन्तु ।ब्राह्मण --ॐ कल्याणम्, ॐ कल्याणम् ॐ कल्याणम् ।ॐ यथेमां वाचं कल्याणीमावदानि जनेभ्य: । ब्रह्मराजान्याभ्याशूद्राय चार्याय च स्वाय चारणाय च । प्रियो देवानां दक्षिणायै दातुरिह भूयासमयं मे काम: समृध्यतमुप मादो नमतु ।यजमान --सागरस्य तु या ऋध्दिर्महालक्ष्म्यादिभि: कृता ।सम्पूर्णा सुप्रभावा च तां च ऋध्दिं ब्रवन्तु न: ॥भो ब्राह्मणा: मम सकुटुम्बस्य सपरिवारस्य गृहे अमुककर्मण: ऋध्दिं भवन्तो ब्रवन्तु ।ब्राह्मण --ॐ कर्म ऋध्यताम्, ॐ कर्म ऋध्यताम्, ॐ कर्म ऋध्यताम्,ॐ सत्रसु ऋध्दिरस्यगन्म ज्योतिरमृता अभूम । दिवं पृथिव्याम् अध्याऽरुहामाविदाम देवान्त्स्वर्ज्योति: ॥यजमान --स्वस्तिस्तु याऽविनाशाख्या पुण्यकल्याणवृध्दिदा ।विनायकाप्रिया नित्यं तां च स्वस्तिं ब्रुवन्तु न: ॥भो ब्राह्मणा: मम सकुटुम्बस्य सपरिवारस्य गृहे अमुककर्मण: स्वस्तिं भवन्तो ब्रुवन्तु ।ब्राह्मण --ॐ आयुष्मते स्वस्ति, ॐ आयुष्मते स्वस्ति, ॐ आयुष्मते स्वस्ति, ।ॐ स्वस्ति न इन्द्रो वृध्दश्रवा: स्वस्ति न: पूष्पा विश्र्ववेदा: । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमि: स्वस्त नो बृहस्पतिर्दधातु ॥यजमान --मृकण्डसूनोरायुर्यध्रुवलोमशयोस्तथा ।आयुषा तेन संयुक्ता जीवेम शरद: शतम् ॥ब्राह्मण --जीवन्तु भवन्त:, जीवन्तु भवन्त:, जीवन्तु भवन्तु: ।ॐ शतमित्रु शरदो अन्ति देवा यत्रा नश्र्चक्रा जरसं तनूनाम् । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तो: ॥यजमान --समुद्रमथनाज्जाता जगदानन्दकारिका ।हरिप्रिया च मान्ड्ग़ल्या तां श्रियं च ब्रुवन्तु न: ॥शिवगौरीविवाहे तु या श्रीरामे नृपात्मजे ।धनदस्य गृहे या श्रीरस्माकं सास्तु सद्मनि ॥ब्राह्मण --अस्तु श्री:, अस्तु श्री:, अस्तु श्री:,ॐ मनस: काममाकूतिं वाच: सत्यमशीय पशूनारुपमन्नस्य रसो यश: श्री: श्रयतां मयि स्वाहा ।यजमान --प्रजापतिर्लोकपालो धाता ब्रह्मा च देवराट् ।भगवाञ्छाश्वतो नित्यं स अनो रक्षतु सर्वत: ॥योऽसौ प्रजापति: पूर्वे य: करे पद्मसम्भव: ।पद्मा वै सर्वलोकानां तन्नोऽस्तु प्रजापते ॥-- पश्र्चात् हाथमें जल लेकर छोड़ दे और कहे --भगवान् प्रजापति: प्रीयताम् ।ब्राह्मण --ॐ प्रजापते न त्वदेतान्यन्यो विश्र्वा रुपाणि परि ता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्त्वयमुष्य पितासावस्य पिता बय स्याम पतयो रयीणास्वाहा ॥आयुष्मते स्वस्तिमते यजमानाय दाशुषे ।कृता: सर्वाशिषा: सन्तु ऋत्विग्भिर्वेदपारगै: ॥या स्वस्तिर्ब्रह्मणो भूता य च देवे व्यवस्थिता।धर्मराजस्य या पत्नी स्वस्ति: शान्ति: सदा तव ॥देवेन्द्रस्य यथा स्वस्तिर्यथा स्वस्तिर्गुरोर्गृहे ।एकलिंगे यथा स्वस्तिस्तथा स्वस्ति: सदा तव ॥ॐ आयुष्मते स्वस्ति, ॐ आयुष्मते स्वस्ति, ॐ आयुष्मते स्वस्ति ।ॐ प्रति पन्थामपद्महि स्वस्तिगामनेहसम् । येन विश्वा: परि द्विषो वृणक्ति विन्दते वसु ।पुण्याहवाचनकर्मण: समृध्दिरस्तु N/A References : N/A Last Updated : December 03, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP