संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी| बृहत्कथामञ्जर्याः परिशिष्टम् बृहत्कथामञ्जरी कथापीठनामा प्रथमो लम्बक कथामुखनामा द्वितीयो लम्बकः लावानकनामा तृतीयो लम्बकः नरवाहनजन्मनामा चतुर्थो लम्बकः चतुर्दारिकानामा पञ्चमो लम्बकः सूर्यप्रभनामा षष्ठो लम्बकः मदनमञ्चुकानामा सप्तमो लम्बकः वेलानाम अष्टमो लम्बकः द्वितीयो गुच्छः तृतीयो गुच्छः प्रथमो गुच्छः विषमशीलनामा दशमो लम्बकः मदिरावती एकादशो लम्बकः पद्मावती नाम द्वादशो लम्बकः पञ्चलम्बको नाम त्रयोदशो लम्बकः रत्नप्रभा नाम चतुर्दशो लम्बकः अलंकारवती नाम पञ्चदशो लम्बकः शक्तियशो नाम षोडशो लम्बकः महाभिशेको नाम सप्तदशो लम्बकः सुरतमञ्जरी नामाष्टादशो लम्बकः उपसंहारः बृहत्कथामञ्जर्या विषयानुक्रमणिका बृहत्कथामञ्जर्याः परिशिष्टम् बृहत्कथामञ्जर्याः परिशिष्टम् क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत बृहत्कथामञ्जर्याः परिशिष्टम् Translation - भाषांतर पुनः स्कन्धस्थितः प्राह निर्बन्धोऽयमहो नु ते । भुङ्क्ष्व गत्वा श्रियं राजन्नो चेदेकां कथां श्रृणु ॥१॥ श्रीमान्वेत्रवतीपूरमेखलायां महीपतिः । नगर्यां विदिशाख्यायां क्ष्मापतिः शूद्रकोऽभवत् ॥२॥तस्मै कदाचिदास्थाने चण्डालपतिपुत्रिका । उपायनीचकारैकं रत्नं सर्वविदं शुकम् ॥३॥राज्ञा कृतफलाहारः स पृष्टः स्वकथां निशि । ऊचे दीर्घास्ति वेणीव देव विन्ध्याटवी भुवः ॥४॥तस्यां पम्पासरस्तीरे मदोद्धत इवोन्नतः । शुककोटिनिवासोऽस्ति जीर्णः शाल्मलिपादपः ॥५॥तस्मिन्वृद्धशुकस्याहं जातश्छिन्नगतेः सुतः । प्रसवक्लेशनिर्जीवा जननी पञ्चतां ययौ ॥६॥तातेन द्विगुणस्नेहात्पक्षगर्भादनुज्झितः । धृतोऽहं जननीस्नेहाच्छुष्कौषधिहलाम्बुभिः ॥७॥ एकदा शबरव्रातैः संनिपातैरिवोत्कटैः । कानने मृगयासक्तैः सर्वप्राणिभये कृते ॥८॥ अप्राप्तवन्यपिशितस्तं समारुह्य शाल्मलिम् । एकश्चकार शबरः स्थविरः शुकसंक्षयम् ॥९॥तातं विधाय निर्जीवं पक्षाच्छादितमत्तनुम् । क्षितिक्षिप्तैः शुकैरन्यैस्तमादाय जगाम सः ॥१०॥ अहं तु तातपक्षान्तर्लम्बमानतनुश्च्युतः ।निचये जीर्णपर्णानां पुण्यशेषेण रक्षितः ॥११॥ ततस्तत्सरसि स्नातुं प्राप्तेन मुनिसूनुना । हारेतनाम्ना नीतोऽहं कृपया स्वतपोवनम् ॥१२॥ जाबालिर्जनकस्तस्य तत्राब्जज इवापरः । स सर्वन्विस्मितं प्राह मामालोक्य महामुनिः ॥१३॥स्वस्यैव कर्मणः पाकं स्नेहादनुभवत्यसौ । श्रुत्वैतन्मुनयः सर्वे पप्रच्छुर्मम चेष्टितम् ॥१४॥ सोऽब्रवीदुज्जयिन्याख्या पुरी रमुयास्त्यवन्तिषु । विधातुर्बिविधाश्चर्यनिधानानामिवावधिः ॥१५॥ तारापीडाभिधस्तस्यां बभूवावनिवासवः । देवी विलासवत्यस्य शुकनासश्च मन्त्रवित् ॥१६॥निरपत्यतयार्तायाः पत्न्याः शोकेन दुःखितः । स्वप्नेऽपश्यत्स तद्वक्त्रं प्रविशन्तं निशाकरम् ॥१७॥विलासवत्यथानन्दमिवासूत जनप्रियम् । चन्द्रसंदर्शनात्स्वप्ने चन्द्रापीदाभिधं सुतम् ॥१८॥पत्नी च शुकनासस्य पुत्रं प्राप मनोरमा । वैशम्पायननामानं स्वप्नेऽब्जप्राप्तिसूचितम् ॥१९॥कुमारस्याप्तविद्यस्य जनन्याः शासननादभूत् । कन्यका पत्रलेखाख्या ताम्बूलदलवाहिनी ॥२०॥ यौवराज्याभिषेकार्द्रः कुमारः सोऽथ शक्तिमान् ।वर्षत्रयं महासेनः पृथ्वीं बभ्राम दिग्जयी ॥२१॥कदाचिदुत्तराशान्ते मृगयार्थी चचार सः । अब्धिजन्मानमारुह्य हयमिन्दायुधाभिधम् ॥२२॥स दृष्ट्वा किंनरद्वन्द्वं मनोहरतराकॄति ।वेगाज्जिघृक्षन्नाज्ञासील्लङ्घितां विपुलां भुवम् ॥२३॥तस्मिन्वने तु दीर्घाध्वश्रान्तः कैलासभूभुतः ।प्रापाच्छोदं सरः पार्श्वे स्फटिकस्वच्छसुन्दरम् ॥२४॥ आश्वासिताश्च सलिलैस्तत्र शुश्राव सुस्वरम् । दूराध्गीतध्वनिं त्यक्तग्रासैराकर्णितं मृगैः ॥२५॥ गत्वा सुदूरं सोऽपश्यच्चतुर्मुखशिवालये । कन्यां मूर्तिमतीं शंभोश्चूडाचन्द्रकलामिव ॥२६॥ दृष्टोपवीणयन्तीं तां ततस्तद्विरतौ शनैः । सोऽपृच्छज्जन्मवृत्तान्तं निवेद्य स्वकथां पुरः ॥२७॥सा नाम्ना प्राह हंसोऽस्ति गन्धर्वाधिपतिर्गिरौ । हेमकूटे स मां गौर्यां महाश्वेतामजीजनत् ॥२८॥ सरः स्नातुमिदं मात्रा सह संप्राप्तया मया । दृष्टौ मुनिसुतौ कान्तौ पुण्डरीककपिञ्जलौ ॥२९॥पुण्डरीकः स मे कर्णे स्वकर्णाद्दिव्यमञ्जरीम् । चकार कौतुकार्तायाश्चित्तवृत्तिं जहार च ॥३०॥आहूता छत्रधारिण्या ततोऽहं मातुराज्ञया ।नाज्ञासिषं स्वभवनं प्राप्य काहमिदं च किम् ॥३१॥तदीयसुहृदाभ्येत्य मन्मथव्यग्रता तदा । तथा मे कथिता तस्य गताहं तत्पदं यथा ॥३२॥गत्वा व्यसुं प्रियं दृष्ट्वा तत्राहं मरणोद्यता । भविता प्रियलाभस्ते भीर्मेत्युक्त्वा सुधांशुना ॥३३॥पुण्डरीकं गॄहीत्वेन्दौ प्रयाते सकपिञ्जले । स्थितास्मि न सहे दाहं तध्द्यानव्रतसंयुता ॥३४॥सुहॄच्चित्ररथाख्योऽस्ति गन्धर्वेन्द्रः पितुर्मम । मदिरायां प्रिया तस्य जाता कादम्बरी सुता ॥३५॥तया मुद्दुःखतुल्यत्वाद्विवाहे नियमः कृतः । तां प्रेषिता बोधयितुं सखी तरलिका मया ॥३६॥ इति स्मृतिनवीभूतशोकया कथिते तया । श्रुत्वा संक्रान्त््पीडश्चन्द्रापीडोऽनयन्निशाम् ॥३७॥ प्रातर्ज्ञात्वा महाश्वेता ततस्तरलिकागिरा । अत्यन्तदुर्ग्रहामेव सखीं चित्ररथात्मजाम् ॥३८॥गन्धर्वनगराश्चर्यदर्शनप्रणयार्थिनम् ।चन्द्रापीडं समादाय कादम्बर्यास्पदं ययौ ॥३९॥चन्द्रापीडोऽपि गन्धर्वपुरे रत्नगृहे स्थिताम् । कादम्बरीं नयनयोर्ददर्श प्रमदप्रदाम् ॥४०॥तयोः सकौतुकाकृष्टविलोकनरतोत्सवे । मनः परस्परप्रेमसोत्रस्यूतमिवाभवत् ॥४१॥प्रेमोद्यानात्कुमारोऽथाकृष्टः स्वनगरीं ययौ । पितुः शासनलेखेन पवनेनेव षट्पदः ॥४२॥त्वरया न्यस्तसैन्याब्धिं दृष्ट्वा प्राप्तं सुतं नृपः ।किं वैशम्पायनं त्यक्त्वा संप्राप्तोऽसीत्यभर्त्सयत् ॥४३॥ पश्चात्सैन्ये समायाते तत्रैवावस्थितं वने । वैशम्पायनमाकर्ण्य शुकनासः शशाप तम् ॥४४॥चन्द्रापीदं प्रभुं त्यक्त्वा जनकं मां च दुर्जनः । स्थितस्तत्रैव पक्षीव शुकपाठी शुकस्तु सः ॥४५॥कादम्बरीवियोगार्तः सुहृदं दूरवर्तिनम् ।चन्द्रापीडस्तमन्वेष्टुं प्रययौ शासनात्पितुः ॥४६॥महाश्वेताश्रमं प्राप्य साश्रुधारामधोमुखीम् ।वैशम्पायनवॄत्तान्तमपृच्छत्साब्रवीच्च तम् ॥४७॥आविष्ट इव संश्लेषं ययाचे चपलः स माम् । शुकवच्चाटुकृन्नीतः शापेन शुकतां मया ॥४८॥त्वन्मित्रमिति विज्ञाय पश्चान्मोहान्ध्यमाश्रिता । श्रुत्वैतद्दुःसहतरं चन्द्रापीडोऽभवव्द्यसुः ॥४९॥कादम्बरी प्रियं श्रुत्वा महाश्वेताश्रमे स्थितम् । सहिताभ्याययौ पूर्वस्थितया पत्रलेखया ॥५०॥विजीवितं प्रियं दृष्ट्वा मोहं कादम्बरी ययौ । इन्द्रायुधं समादाय पत्रलेखाविशत्सरः ॥५१॥तदैव सरसस्तस्मादुदतिष्ठत्कपिञ्जलः । अभ्येत्य स महाश्वेतां प्रीत्या पृष्ठस्तयाब्रवीत् ॥५२॥उत्क्षिप्तः पुण्डरीकोऽसौ पृष्टः पश्चान्मया दिवि । मामुवाच शशाङ्कोऽहं शप्तस्त्वत्सुहृदामुना ॥५३॥मत्तुल्यव्यथयैवार्ति यास्यस्यपरजन्मनि ।मया च प्रतिशप्तोऽयं त्वमप्येवं भविष्यसि ॥५४॥शापान्तावधि तस्यापि देहमस्य स्वमण्डले ।मद्वंशजा महाश्वेता जामाता तत्पतिर्मम ॥५५॥ श्रुत्वाहमेतच्चन्द्रोक्तं पुण्डरीकपितुर्मुनेः । श्वेतकेतोः पदं गन्तुं प्रवृत्तस्तत्कथार्पकः ॥५६॥वैमानिकः खे व्रजता मया वेगेन लङ्घितः ।अशपन्मां जवोदग्रं तुरगस्त्वं भविष्यसि ॥५७॥ ततोऽहमब्धौ पतितः क्षणादश्वः समुत्थितः । इन्द्रायुधाभिधः प्राप्तश्चन्द्रापीडस्य वाहताम् ॥५८॥अधुना मुक्तशापोऽहं गच्छामि श्वेतकेतवे ।वक्तुं वृत्तान्तमित्युक्त्वा ययौ व्योम्ना कपिञ्जलः ॥५९॥कादम्बरीं लब्धसंज्ञां प्रवेष्टुं वह्निमुद्यताम् ।वर्षन्निवामृतं चन्द्रः प्रोवाच गगनस्थितः ॥६०॥त्वं चन्द्राकान्तपर्यङ्के देहं रक्षास्य निर्व्यथा । अचिरात्प्राप्तजीवोऽयं भविष्यति पतिस्तव ॥६१॥ श्रुत्वैतद्गदितं खे च संसयाश्वासिताशया ।चन्द्रापीदशरीरस्य परिचर्यारताभवत् ॥६२॥ देशं ततस्तं सहितः शुकनासेन शोकवान् । पत्न्या विलासवत्या च तारापीडः समाययौ ॥६३॥ वैशम्पायनतां यातः पुण्डरीकः क्षितावयम् । इति जाबालिकथितं श्रुत्वा जातिः स्मृता मया ॥६४॥कपिञ्जलोऽथ मामेत्य समाश्वास्याविशन्नमः । महाश्वेताश्रमं गन्तुमुद्यतोऽहं च्युतः श्रमात् ॥६५॥बद्धश्चाण्डालजालेन प्रपतः कुत्सितपक्कणम् । चण्डालकन्यया तत्र क्षिप्तोऽहं हेमपञ्जरे ॥६६॥न वेद्मि हेतुना केन देवस्योपायनीकृतः ।शुकेनेत्थं कथितया कथया सह सा क्षपा ॥६७॥क्षयं ययौ स्मयेनेव स्मेरविस्मेरतारका । कादम्बरीं स्मरन्क्षीब इव राजा समीक्ष्य ताममाम ॥६८॥पप्रच्छ प्रातराहूय चन्डालीं तामुवाच सा । देवः कुमुद्वतीकान्तस्त्वं शंकरशिरोमणिः ॥६९॥ वैशम्पायनतां यातः शापादेव गुरोः शुकः । अद्यापि चपलः शापभीत्याय परिरक्षितः ॥७१॥ प्राप्ता चण्डालता राजञ्जनस्पर्शभयान्मया । इत्युक्त्वा साविशद्व्योम तेजपिञ्जरिताम्बरा ॥७२॥जीवं दयिते स्मृत्वा जहतुः शुकशूद्रकौ ।चन्द्रापीडः क्षणे तस्मिन्सहसावत्पजीवितः ॥७३॥कण्ठे कादम्बरीं चक्रे रत्नशय्यासनोत्थितः ।पुण्डरीकश्च तत्काले निर्गतश्चन्द्रमण्डलात् ॥७४॥महाश्वेतां समाभ्येत्य चक्रे हर्षसुधाप्लुताम् । ह्म्सचित्ररथावेत्य गन्धर्वाधिपती ततः ॥७५॥दुहित्रोश्चक्रतुः प्रीत्या विवाहोत्सवमङ्गलम् । कथयित्वेति वेतालः पप्रच्छ धरणीपतिम् ॥७६॥अनुरागोऽधिकः कस्य राजन्नेतेषु कथ्यताम् । राजा तमब्रवीन्मन्ये चन्द्रापीडोऽनुरागवान् ॥७७॥सुहृद्वृत्तान्तमाकर्ण्य यस्य चेतस्तदास्फुटत् । इति श्रुत्वैव वेतालो गत्वा पुनरलम्बत ॥७८॥इति चतुर्विशो वेतालः । N/A References : N/A Last Updated : November 02, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP