जीमूतवाहनाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


कदाचिदथ दृष्ट्वैव देवी वातायनस्थिता ।
कुम्भकार्याः सुतान्पञ्च प्रदध्यौ दुःखिता क्षणम् ॥३६॥
अपि पामरनारिभ्यो विधिः पुत्रान्प्रयच्छति ।
ननु मे मन्दभाग्यायास्तनयावाप्तिसंकथा ॥३७॥
इत्युदश्रुमुखीं देवीं विलोक्य प्राह पिङ्गला ।
समरश्रीरिव जयं देवि पुत्रमवाप्स्यसि ॥३८॥
रथ्याशूकरतुल्यानां पापिनां बहुलोऽन्वयः ।
दैवात्तु सत्त्वमहतां जन्म पुण्यवतां क्कचित् ॥३९॥
ब्राह्मणीवचसा किंचिदवाप्ता शोकतानवम् ।
स्वयं वत्सेश्वरोऽभ्येत्य देवीं चक्रे धॄतेः पदम् ॥४०॥
साथ पुत्रार्थिनी देवमाराध्य तपसा शिवम् ।
स्मरावतारं तनयं प्राप्स्यसीत्याप तद्वरम् ॥४१॥
स्वप्ने च शुभ्रमहसा जटामण्डलधारिणा ।
दत्तं दिव्यफलं प्राप्य राज्ञे सर्वं न्यवेदयत् ॥४२॥
अथादत्तशुचिच्छाया गर्भं भूपालवल्लभम् ।
चन्द्रं क्षीरोदवेलेन जाह्नवीव षडाननम् ॥४३॥
सा व्यक्तदौहृदा चेन्दुमुखी जॄम्भालसंस्थितिः ।
बभार भग्नत्रिवलीलेखारम्यतरं वपुः ॥४४॥
तस्या दौहृदसंकल्पो बभूवोन्नतिसूचकः ।
आकाशगमनोत्साहे तस्यामन्यत भूपतिः ॥४५॥
विधाय यन्त्ररचितं विमानं जवनैर्हयैः ।
व्यधाद्वासवदताया नभःक्रीडारतिं नृपः ॥४६॥
विद्याधरकथाश्चर्यश्रवणे जातकौतुकाम् ।
यौगन्धरायणोऽभ्येत्य तामाह नृपसंनिधौ ॥४७॥
अवश्यमुन्नताचारसत्त्वं पुत्रमवाप्स्यसि ।
कुतोऽन्यथा व्योमगतौ शुभाख्याने च ते मतिः ॥४८॥
श्रृणु विद्याधरकथां हर्षपीयूषवर्षिणीम् ।
भावी कल्याणवसुधे फलितं त्वन्मनोरथैः ॥४९॥
अस्ति साधुमनःस्वच्छास्फटिको हिमभूभृतः ।
विद्याधराणां वसतिः कैलासो नाम शेखरः ॥५०॥
जीमूतकेतुरभवत्तत्र विद्याधरेश्वरः ।
वंशे कल्पतरुर्यस्य संपूरितमनोरथः ॥५१॥
जीमूतवाहनस्तस्य पुत्रोऽभूत्सत्त्वसागरः ।
यद्यशश्चन्द्रिकाधौतमद्यापि भुवनत्रयम् ॥५२॥
पित्रा दताभिषेकोऽसौ विततार सुरद्रुम म् ।
हेमवर्षणमर्थिभ्यः करुणापूर्णमानसः ॥५३॥
दत्तकल्पतरोस्तस्य पापा राज्यजिहीर्षवः ।
विद्याधराधिपास्तस्थुः संहताश्छद्मनिश्चयाः ॥५४॥
जीमूतवाहनो ज्ञात्वा तेषां कुटिलचेष्टितम् ।
स्वयं शक्तोऽपि तत्याज राज्यं वैरपराङ्मुखः ॥५५॥
स पित्रा सहितं प्रायाद्विरक्तो मलयाचलम् ।
मरुताण्डवितोद्दण्डश्रीखण्डतरुमण्डलम् ॥५६॥
तत्र निर्झरहुङ्कारिरमणीयशिलातले ।
आसीनः संददर्शाग्रे दिव्यं सिद्धकुमारकम् ॥५७॥
विलोक्य कौतुकाविष्टस्तं पप्रच्छ महाद्युतिम् ।
कस्त्वं कस्य सुतो वेति स च पृष्टोऽभ्यभाषत ॥५८॥
विश्वावसोः सिद्धपतेरहं मित्रावसुः सुतः ।
स्वसा मलयवत्यस्ति मम लावण्यकौमुदी ॥५९॥
जाने विद्याधरेन्द्रं त्वां देव जीमूतवाहनम् ।
योग्यां तवैव तां मन्ये रतिं रतिपतेरिव ॥६०॥
इति प्रियं वचः श्रुत्वा प्राह जीमूतवाहनः ।
स्मरामि पूर्वभार्यासौ दयिता तव चेत्स्वसा ॥६१॥
श्रूणु जन्मान्तरकथां ममेमां तत्समागमे ।
निर्माल्योल्लङ्घनाच्छंभोः पुरा मानुषतां गतः ॥६२॥
महाधनस्य वणिजः संप्राप्तः पुत्रतामहम् ।
वसुदत्ताभिधानोऽहं विसृष्टो द्रविणार्जने ॥६३॥
पित्रा विन्ध्याटवीं घोरामविशं शबराकुलाम् ।
तत्र दस्युबलैर्बध्वा नीतोऽहं चण्डिकागृहे ।
दृष्टः शबराराजेन तद्वन्धाच्च विमोक्षितः ॥६४॥
ततः प्रतिनिवृत्तोऽहं पित्रे सर्वं निवेद्य त्त ।
स्थितस्तत्प्रत्युपकृतिध्यानस्तिमितमानसः ॥६५॥
ततः कदाचिद्वलिनो राज्ञस्तं वशमागतम् ।
कृतोपकारं शबरं धनेनाहममोचयम् ॥६६॥
स वधान्मोचितो यत्नात्कृतज्ञः शबरो मया ।
कन्या पृष्टा मया भद्र प्रतिकर्तुं ममाह च ॥६७॥
ततोऽहं स्वयमुत्तालतमालसरलाकुलम् ।
नीतः प्रालेयशैलेयच्छायाशबलिताम्बरः ॥६८॥
तत्र यामाह शबरः पुरा दृष्टेह कन्यका ।
मया मदनमाङ्गल्यमालिकालोचनामृतम् ॥६९॥
सिंहाधिरूढा गौरीव हराराधनसंगता ।
सोत्सुका धनमभ्येत्य मया त्वत्कथया कृता ॥७०॥
इत्युक्त्वा नलिनीखण्डमण्डितोपान्तमादरात् ।
सोऽदर्शयत्तदा चारु मम शंभुनिकेतनम् ॥७१॥
ध्रवं शिवार्चनरता न चिरादेष्यतीत्यहम् ।
ध्यात्वा चिरं स्थितस्तत्र कृतस्नानहरार्चनः ॥७२॥
अथ पञ्चाननारूढामागतां तत्र कन्यकाम् ।
दर्शितां शबरेणारादपश्यं मन्मथोत्सवम् ॥७३॥
शीतांशुशुभ्रवसनां तारहारकरोज्ज्वलाम् ।
तुषारशिखरीन्द्रस्य प्रत्यक्षामिव देवताम् ॥७४॥
अयाचं तामहं कान्तां पूर्वं रचितसंविदम् ।
शबरेण कुरङ्गाक्षीमचिरेण मनोवतीम् ॥७५॥
तामादाय ततः कान्तां गत्वा निजपुरीं शनैः ।
अभजं शबरोपेतः कायं विभ्रमवान्स्त्रियम् ॥७६॥
ततः स सिंहः सहसा भूत्वा विद्याधराकृतिः ।
उवाच नष्टशापो मे दिष्ट्या युष्मत्समागताम् ॥७७॥
अहं चित्राङ्गदो नाम जवादुल्लङ्घ्य नारदम् ।
तच्छापात्सिंहतां यातः पुरा विद्याधराधिपः ॥७८॥
इयं मनोवती नाम तनया मम सुन्दरी ।
तव भार्या चिरं स्पृष्टा धृता केसरिणा मया ॥७९॥
यदा तव सुतां कश्चित्परिणेष्यति मानुषः ।
तदा विमोक्ष्यसे शापान्मामुवाचेति नारदः ॥८०॥
तदेतन्मुक्तशापोऽहं गच्छामीत्यभिधाय सः ।
प्रययौ भूषणमणिच्छायाशबलिताम्बरः ॥८१॥
[ ततोऽहमपि कालेन भुक्त्वा मर्त्यसुखश्रियम् ।
हिरण्यदत्तमासाद्य पुत्रं वंशविवर्धनम् ॥८२॥ ]
मनोवतीसखो गत्वा पुण्यं कालंजरं गिरिम् ।
शबरानुगतो ध्यात्वा शंकरं तनुमत्यजम् ॥८३॥
जीमूतवाहनः सोऽहं कन्या मलयवत्यपि ।
प्रिया मनोवती सैव शबरस्त्वं स मे सुहृत् ॥८४॥
इति मित्रावसुः श्रुत्वा विद्याधरपतेर्वचः ।
पित्रे निवेद्य वृत्तान्तं विवाहं विदधे स्वसुः ॥८५॥
अवाप्य सिद्धतनयां मानसोल्लासचन्द्रिकाम् ।
लावण्यविभ्रममहीं मनोरथशतोचिताम् ॥८६॥
स्मरसंभोगसुभगस्तद्विलासरसाकुलः ।
अमन्दानन्दसंदोहं भेजे जीमूतवाहनः ॥८७॥
ततः कदाचिद्विहरन्स मित्रावसुना सह ।
ददर्श दुःखनिभृतध्यानं फणिकुमारकम् ॥८८॥
स तेन शङ्खचूडाख्यः पृष्टः प्राह भयाकुलः ।
कद्रूश्च विनता चेति कश्यपस्य प्रिये पुरा ॥८९॥
बालधौ भास्कराश्वानां सितासितविवादतः ।
पणं दास्याय चक्राते प्रतिज्ञाकृतनिश्चये ॥९०॥
कृष्णबालान्विधायाश्वान्कद्रूपुत्रैर्भुजंगमैः ।
दास्यं निनाय विनतां व्याजाद्गरुडमातरम् ॥९१॥
तस्या निशम्य दास्यं तत्पीयूषाहरणावधिः ।
वैनतेयो वहन्नागान्मातुर्दास्यमवारयत् ॥९२॥
जवात्पीयूषमाहृत्य जित्वा शक्रं खगेश्वरः ।
प्रदाय काद्रवेयेभ्यो दासभावादमुच्यत ॥९३॥
धृतं पीयूषकलशं कुशेष्वभ्येत्य वासवः ।
जहार तत्क्षणार्द्रांश्च लिलिहुः पन्नगाः कुशान् ॥९४॥
ततो द्विजिह्वतां प्राप्ताः खरदर्भावलेहनैः ।
विष्णोर्वरात्सुपर्णस्य भक्ष्यतां पन्नगा ययुः ॥९५॥
ततः कुलक्षयभवात्त्वसौ वारेण कल्पितः ।
नागो वासुकिना नित्यं स वारोऽद्य मम क्रमात् ॥९६॥
इत्याकर्ण्यैव करुणापूर्णो जीमूतवाहनः ।
अहं तार्क्ष्यं भवद्वेषो गच्छामीत्यभ्यभाषत ॥९७॥
निर्वैरिता विनयता प्रियवादिता च
प्राणैरपि प्रणयिनां प्रियपूरणं च ।
इत्युग्रमोहमदमानविषोल्बणस्य
संसारघोरजलधेरमृतच्छटेव ॥९८॥
मित्रावसुं विसृज्याथ व्यपदेशेन सत्वरः ।
शङ्खचूडं च सत्त्वस्थे वैनतेयशिलां ययौ ॥९९॥
तत्र नागास्थिसंघाते निर्यद्भूरिवसाकुले ।
गरुडागमनाकाङ्क्षी तस्थौ विगतसंभ्रमः ॥१००॥
ततं प्रलयसंभ्रान्तकल्पान्तपवनाकुलम् ।
[ अकम्पत जगत्तुङ्गतरङ्गोत्तुङ्गसागरम् ॥१०१॥ ]
अथादृश्यत मार्तण्डमण्डलोद्दण्डतेजसा ।
गरुत्मान्काञ्चनमयीः कुर्वन्निव दिशो दश ॥१०२॥
स चण्डचञ्चुचरणाघातविश्लिष्टविग्रहम् ।
जीमूतवाहनं चक्रे सहसा पतगेश्वरः ॥१०३॥
अभ्रष्टवदनच्छायं तमालोक्य निराकुलम् ।
धुर्यः सत्त्ववतां कोऽयमिति तार्क्ष्यो व्यचिन्तयत् ॥१०४॥
पृष्टः कोऽसीति वृत्तान्तं स्वयं तस्मै न्यवेदयत् ।
तुष्टश्च वरदोऽस्मीति तमाह भुजगान्तकः ॥१०५॥
हतानामस्थिभूतानां जीवितं फणिनां ततः ।
नागाशननिवृत्तिं च सोऽ‍याचत वरं वरम् ॥१०६॥
पतगेन्द्रे तथेत्युक्त्वा गते सिक्त्वा सुधारसैः ।
पित्रा मलयवत्या च संगतो बान्धवैरपि ॥१०७॥
विद्याधरैः समभ्येत्य प्रार्थितस्तुहिनाचले ।
चक्रवर्तिपदं भेजे निजं जीमूतवाहनः ॥१०८॥
श्रुत्वेति राजमहिषि विद्याधरकथाद्भुता ।
बभूव हर्षसंपूर्णा ध्यायन्ती तस्य चेष्टितम् ॥१०९॥
इति जीमूतवाहनाख्यायिका ॥३॥

N/A

References : N/A
Last Updated : October 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP