शिवभारत - अध्याय तिसरा

श्रीछत्रपती शिवाजी महाराज यांच्या आज्ञेवरून लिहिलेलें कवीन्द्र परमानन्दकृत ' श्रीशिवभारत '


N/Aकवीन्द्र उवाच ॥
अथ विठ्ठलराजे स्वे पितृव्येपि दिवं गते ।
नृपनीतिविधिज्ञेन मातुर्वचनवर्तिना ॥१॥
महावीरेण धीरेण शाहराजेन धीमता ।
राज्यभारस्स हि महान् दध्रे बत निजे भुजे ॥२॥
संभः खेलश्च मल्लश्च मंबो नागश्च पर्शुकः ।
त्र्यंबकश्चापि वक्कश्च भ्रातरस्सोदरा अमी ॥३॥
पुत्रा विठ्ठलराजस्य सुत्रामसमविक्रमाह ।
मालभूपात्मजौ शाहशरीफौ च प्रभाविणौ ॥४॥
एते क्षोणिजये सक्ताः शक्तास्समरकर्मणि ।
निजामस्य प्रियकराः कराकृष्टशरासनाः ॥५॥
पर्वतप्राशुवपुषः सहस्त्रांशुसमत्विषः ।
भूयसा भुजसारेण भूरिणाभिजनेन च ॥६॥
सैन्येन च गुणैश्चान्यैरनन्यसमतेजसः ।
परं न गणयामासुरंबरस्य मते स्थिताः ॥७॥
एकदान्तःपुरादाप्तभृत्यामात्यनिषेवितम् ।
निजामशाहमास्थानीमेत्य सिंहासने स्थितम् ॥८॥
दृष्ट्वा यादवराजाद्याः प्रणिपत्य यथाक्रमम् ।
प्रचलन्ति स्म तरसा सर्वे स्वं स्वं निवेशनम् ॥९॥
ततः प्रचलतां तेषामन्योन्यस्पर्धिचेतसाम् ।
संमर्दः सुमहानासीदास्यानीतोरणाद्वहिः ॥१०॥
तत्र वेत्रधरैर्दारादुत्सारितजनाः पुरः ।
परिपीनोन्नतस्कन्धाः सन्नद्धाःपृथुवक्षसः ॥११॥
किरीटिनः कुण्डलिनः कवचच्छनविग्रहाः ।
मुक्तामणिमयोदारहाराः केयूरधारिणः ॥१२॥
सुलक्षणाः क्षोणिभुजः पद्मपत्रायतेक्षणाः ।
स्वैः स्वैः सैन्यैः परिवृताः पुरः प्रोच्छ्रायितध्वजैः ॥१३॥
हयानन्ये गजानन्ये याप्ययानानि चापरे ।
समारुह्याप्रतिहतप्रभावाः संप्रतस्थिरे ॥१४॥
ततः खण्डार्गलाख्यस्य नृपस्याग्रेसरः करी ।
मर्दयन्नन्यसैन्यानि प्रचचाल बलाद्बली ॥१५॥
पदे पदेंकुशाघातैर्निषिद्धोपि निषादिना ।
स सिन्धुरः सैनिकानां चकार कदनं महत् ॥१६॥
तं मृन्दन्तमनीकानि गर्जन्तमकुतोभयम् ।
प्रलयांभोधरनिभं रोध्दुं शेकुर्न केचन ॥१७॥
अथ यादवराजस्य दत्तवर्मादिभिस्सुतैः ।
न सेहे गर्जतस्तस्य गर्जः प्रतिगजैरिव ॥१८॥
ततो दत्तसमादिष्टाः सुभटास्तं मदोत्कटम् ।
निजघ्नुश्शरनिस्रिंशकुन्ततोमरशक्तिभिः ॥१९॥
स भिन्नवर्मा बहुभिर्घोरकर्मा मदद्विपः ।
विकर्षन् पुष्करेणोच्चैः सहसा हयसादिनः ॥२०॥
करेण कांश्चिदादाय क्षिपन् कांश्चिदपातयत् ।
कांश्चिन्निपात्य चरणैस्तत्तलैर्न्निष्पिपेष च ॥२१॥
दत्तवर्माऽथ तं दृष्ट्वा स्वसैन्यस्य पराभवम् ।
तं दन्तिनमभीयाय हर्य्क्ष इव लक्षयन् ॥२२॥
तदा तेनातिरभसात्स बतायुधसादितः ।
विधुन्वानः स्वमूर्धानं रराण रणमूर्धनि ॥२३॥
ततो विठ्ठलराजस्य संभखेलावुभौ सुतौ ।
खण्डार्गळस्य साहाय्यं विधातुं समुपस्थितौ ॥२४॥
तौ तं लोहितलिप्तागं धातुमन्तमिवाचलम् ।
पर्यपालयतां तत्र दत्तराजवशं गतम् ॥२५॥
दत्तराजस्तु तं हित्वा विहस्तं मदहस्तिनम् ।
अनुजं प्रतिजग्राह संभराजं महाभुजम् ॥२६॥
तयोः गुपितयोस्तत्र द्वन्द्वयुद्धे समुद्यते ।
आवर्तस्सुमहानासीत् योधानामभिधावताम् ॥२७॥
हस्ताहस्ति ततो युद्धमुभयोः सेनयोरभूत् ।
दत्तवर्माणमभ्येते संभे जंभारितेजसि ॥२८॥
यादवानां तदद्धापि सांबंधिकमलक्षयन् ।
ररक्ष पक्षं संभस्य भ्राता शाहमहीपतिः ॥२९॥
ततश्चर्मधरस्तत्र दत्तराजः प्रतापवान् ।
व्यधत्त मण्डलाग्रेण परिवेषमिवात्मनः ॥३०॥
तस्मिन्नाकस्मिके युद्धे शूराणां सन्निपेतुषाम् ।
क्ष्वेडितास्फोटितभरैर्बभूर्वुर्बधिरा दिशः ॥३१॥
तदा स्वमन्डलाग्रेण मन्डलानि वितन्वता ।
ननृते तेन वीरेण रणरंगे महीयसि ॥३२॥
लुठत्सु वरवीराणां सकिरीटेषु मूर्धसु ।
असिभिः खण्ड्यमानेषु सकोदण्डेषु बाहुषु ॥३३॥
कृपाणबाणपरशुप्रासभिन्नेषु वर्मसु ।
शितचक्रनिकृत्तेषु सशरेषु करेषु च ॥३४॥
तुरंगमत्तमातंगपत्रिसंघातजन्मभिः ।
स्फुटं रुधिरधाराभिः शान्तेषु रणरेणुषु ॥३५॥
ध्वजांशुकपरीतासु समराजिरभूमिषु ।
शराचितशरीरेषु नरेषु निपतत्सु च ॥३६॥
तेन यादववीरेण धीरेणामित्रघातिना ।
संभराजं समासाद्य बिभिदे मित्रमण्डलम् ॥३७॥
तमप्रतिमकर्माणं दत्तवर्माणमाहवे ।
शृण्वानस्संभनिहतं यादवेन्द्रस्स्वमात्मजम् ॥३८॥
पुरोगच्छन्नर्धपथादतिरोषारुषेक्षणः ।
परावृत्तो महाराजः संभराजजिघांसया ॥३९॥
तस्मिन् रोषसमाविष्टे यादवानामधीश्वरे ।
सपर्वतवनद्वीपा वसुधा समकंपत ॥४०॥
असुतोप्याधिको येन हतो जाल्मेन मे सुतः ।
तमहं निहनिश्यामि करिष्यामि समीहितम् ॥४१॥
इत्यमर्षवशीभूतं श्वशुरं सुरविक्रमम् ।
स्वपक्षरक्षणाकांक्षी शाहराजोऽभ्ययुध्यत ॥४२॥
युध्यमानममुं वीक्ष्य जामातरमरिन्दमः ।
जघान साहसी शाहं भुजगेन्द्रसमे भुजे ॥४३॥
शाहस्तेनासिपातेन श्रयन् मूर्च्छां महीयसीम् ।
कथंचिदपि धैर्येण धारयामास जीवितम् ॥४४॥
ततः खेलं पराभूय न्यक्कृत्यान्यांश्च पार्थिवान् ।
निर्जिंत्य च निजामस्य श्यामाननमयीं चमूम् ॥४५॥
गाढमुष्टीर्गाढमुष्टिं समुद्यम्य स यादवः ।
संरब्धोभ्यपतत्तूर्णं संभं समरदुर्जयम् ॥४६॥
ततस्संभः प्रसन्नात्मा परं परिहसन्निव ।
अरं व्यापारयामास करं कौक्षेयके निजे ॥४७॥
तयोस्तदाभवद्युद्धं मिथो विस्पर्धमानयोः ।
साध्वसावहमन्येषां मत्तयोर्द्विपयोरिव ॥४८॥
ततोऽसिपातान् बहुशः सोढ्वा संभस्य यादवः ।
तं जगत्यां जितारातिरसिनैव न्यपातयत् ॥४९॥
तं सुतस्य निहंतारं निपात्य वसुधातले ।
तेन यादववीरेण वैरनिर्यातनं कृतम् ॥५०॥
तदा यादवराजेन महाराजेन संयति ।
सुते विठ्ठलराजस्य बत ज्येष्ठे निपातिते ॥५१॥
तत्र प्रतिक्रियां कांचिदपि कर्तुमशक्नुवत् ।
निजामस्याखिलं सैन्यमवसन्नमजायत ॥५२॥
स्वामिनाथ निजामेन सांत्वयित्वा निवारिते ।
ते सेने प्रसभोद्वृत्ते निवृत्ते कलहान्मिथः ॥५३॥
रणांगणादुपादाय वर्ष्मणी संभदत्तयोः ।
शोचमाने हतोत्साहं स्वं स्वं शिबिरमीयतुः ॥५४॥
विषष्णमनसस्सर्वे खेलकर्णादयोऽनुजाः ।
ततस्तमन्वशोचंत ज्येष्ठं भ्रातरमात्मनः ॥५५॥
सुतस्य कारयामास यादवः कार्यमुत्तरम् ।
भ्रातुर्ज्येंष्ठस्य विधिवत् खेलकर्णस्तदुत्तरम् ॥५६॥
सांबंधिकस्य महतः सुतरां विरुद्धं ।
स्पर्धिष्णुभिर्भृशबलै यदभूद्धि युद्धम् ।
तदादवेन सुधिया हृदि सावलेपे ।
जानीमहे किमपि चिन्तयतानुतेपे ॥५७॥
इत्युनुपुराणे सूर्यवंशे निधिवासकरपरमानन्दकवीन्द्रप्रकाशितायामाकस्मिकास्कन्दनो नाम तृतीयोध्यायः ॥३॥

N/A

References : N/A
Last Updated : September 11, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP