संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीमच्छंकरदिग्विजयः ।|अथ तृतीयः सर्गः| श्लोक १ ते २० अथ तृतीयः सर्गः श्लोक १ ते २० श्लोक २१ ते ४० श्लोक ४१ ते ६० श्लोक ६१ ते ८३ तृतीय सर्ग - श्लोक १ ते २० श्रीविद्यारण्यस्वामिविरचितः Tags : booksanskritपुस्तकविद्यारण्यसंस्कृत श्लोक १ ते २० Translation - भाषांतर इति बालमृगाङ्कशेखरे सति बालत्वमुपागते ततः ।दिविशत्प्रवराः प्रजज्ञिरे भुवि षङ्शास्त्रविदां सतां कुले ॥१॥कमलानिलयः कलानिधे - र्विमलाख्यादजनिष्ट भूसुरात् ॥भुवि पद्मपदं वदन्ति यं सविपद्येन विवादिनां यशः ॥२॥पवमानोऽप्यजनि प्रभाकरा - त्सवनोन्मीलितकीर्तिमण्डलात् ॥गलहस्तितभेदवाद्यसौ किल हप्तामलकाभिधामधात् ॥३॥पवमानदशांशतोऽजनि प्लवमानाऽञ्चति यद्यशोम्बुधौ ॥धरणी मथिता विवादिवा - क्तरणी येन स तोटकाह्वयः ॥४॥उदभावि शिलादसूनुना मदवद्वादिकदम्बनिग्रहैः ॥समुद्रञ्चितकीर्तिशालिनं यमुदङ्कं ब्रवते महीतले ॥५॥विधिरास सुरेश्वरो गिरां निधिरानन्दगिरिर्व्यजायत ॥अरुणः समभूत्सनन्दनो वरुणोऽजायत चित्सुखःह्वयः ॥६॥अपरेऽप्यभवन्दिवौकसः स्वपरेर्ष्यापरविद्विषः प्रभोः ॥चरणं परिसेवितुं जग - च्छरणं भूसुरपुंगवात्मजाः ॥७॥चार्वाकदर्शनविधानसरोषधातृ - शापेन गीष्पतिरभूद्भुवि मण्डनाख्यः ॥नन्दीश्वरः करुणयेश्वरचोदितः स - न्नानन्दगिर्यभिधया व्यजनीति केचित् ॥८॥अथावतीर्णस्य विधेः पुरंध्री साऽभूद्यदाख्योभयभारतीति ॥सरस्वती सा खलु वस्तुवृत्त्या लोकोऽपि तां वक्ति सरस्वतीति ॥९॥पुरा किलाध्यैषत धातुरन्तिके सर्वज्ञकल्पा मुनयो निजं निजम् ॥वेदं तदा दुर्वसनोऽतिकोपनो वेदानधीयन्क्कचिदस्खलत्स्वरे ॥१०॥तदा जहासेन्दुमुखी सरस्वती यदङ्गमर्णोद्भवशब्दसंततिः ॥चुकोप तस्यै दहनानुकारिणा निरैक्षताक्ष्णा मुनिरुग्रशासनः ॥११॥शशाप तां दुर्वेनयेऽवनीतले जायस्व मर्त्येष्वबिभेत्सरस्वती ॥प्रसादयामास निसर्गकोपनं तत्पादमूले पतिता विषादिनी ॥१२॥दृष्ट्वा विषण्णां मनुयः सरस्वतीं प्रसादयांचक्रुरिमं तमादरात् ॥कृतापराधा हगवन्क्षमस्व तांपितेव पुत्रं विहितागसं मुने ॥१३॥प्रसादितोऽभूदथ संप्रसन्नो बाण्या मुनीन्द्रैरपि शापमोक्षम् ॥ददौ यदा मानुषशंकरस्य संदर्शनं स्याद्भवितास्यमर्त्या ॥१४॥सा शोणतीरेऽजनि विप्रकन्या सर्वार्थवित्सर्वगुनोपपन्ना ॥यस्या बभूवुः सहजाश्च विद्याः शिरोगतं के परिहर्तुमीशाः ॥१५॥सर्वाणि शास्त्राणि षडङ्गवेदा - न्काव्यादिकान्वेत्ति परं च सर्वम् ॥तन्नास्ति नो वेत्ति यदत्र बाला तस्मादभूच्चित्रपदं जनानाम् ॥१६॥सा विश्वरूपं गुणीनं गुणज्ञामनोभिरामं द्विजपुंगवेभ्यः ॥शुश्राव तां चापि स विश्वरूप - स्तस्मात्तयोर्दर्शनलालसाऽभूत् ॥१७॥अन्योन्यसंदर्शनलालसौ तौ चिन्ताप्रकर्षादधिगम्य निद्राम् ॥अवाप्य संदर्शनभाषणानि पुनः प्रबुद्धौ विरहाग्नितप्तौ ॥१८॥दिदृक्षमाणावपि नेक्षमाणा - वन्योन्यवार्ताहृतमानसौ तौ ॥यथोचिताहारविहारहीनौतनौ तनुत्वं स्मरणादुपेतौ ॥१९॥दृष्ट्वा तदीयौ पितरौ कदाचि - दपृच्छतां तौ परिकर्शिताङ्गौ ॥वपुः कृशं ते मनसोऽप्यगर्वोन व्याधिमीक्षे न च हेतुमन्यम् ॥२०॥ N/A References : N/A Last Updated : May 18, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP