संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्लोकवार्तिकभिधः| औत्पत्तिकसूत्रं श्लोकवार्तिकभिधः चोदनालक्षणोsर्थो धर्मः निरालम्बनवादः प्रत्यक्षसूत्रं शून्यवादः तन्त्रवार्तिके औत्पत्तिकसूत्रं वृत्तिकारग्रन्थः तस्य निमित्तपरीष्टिः औत्पत्तिकसूत्रं कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी. Tags : sanskritshlokvartikmidhaश्लोकवार्तिकभिधःसंस्कृत औत्पत्तिकसूत्रं Translation - भाषांतर औत्पत्तिकस्तु शब्दस्याsर्थेन संबन्धस्तस्य ज्ञानमुपदेशोsव्यतिरेकश्चाsर्थेsनुपलब्धे तत्प्रमाणं बादरायणस्याsनपेक्षत्वात् ॥५॥प्रत्यक्षादौ निषिद्धेsपि ननु लोकप्रसिद्धितः ।धर्माsधर्मौ प्रमास्येते ब्राह्मणादिविवेकवत् ॥१॥‘ धार्मिकाsधार्मिकत्वाभ्यां पीडानुग्रहकारिणौ ।प्रसिद्धौ हि ’ तथा चाह पाराशर्योsत्र वस्तुनि ॥२॥इदं पुण्यमिदं पापमित्येतस्मिन् पदद्वये ।आचण्डालं मनुष्याणामल्पं शास्त्रप्रयोजनम् ॥३॥‘ निर्मूलाsसंभवादत्र प्रमाणैः सैव मृग्यते ।कुतः पुनः प्रवृत्तेति ’ प्रत्यक्षादि तु वारितम् ॥४॥न चैतानि परित्यज्य पृथग् लोके प्रमाणता ।‘ संसारमोचकादेश्च हिंसा पुण्यत्वसंमता ॥५॥न पश्चा( १ )त्पुण्यमिच्छन्ति के चिदेवं विगानतः ।म्लेच्छाsर्याणां प्रसिद्धत्वं न धर्मस्योपपद्यते ’ ॥६॥न चाssर्याणां विशेषोsस्ति यावच्छास्त्रमनाश्रितम् ।तन्मूलाsर्थप्रसिद्धिस्तु तत्प्रामाण्ये स्थिते भवेत् ॥७॥तस्मादभाववक्त्रस्थौ धर्माsधर्मौ न शक्नुयात् ।चोदना चेत्समुद्धर्तुं ग्रास्तौ तेनैव पश्यताम् ॥८॥उपदेशो हि भवति ज्ञानं तस्येति योज्यते ।ज्ञायते येन तज्ज्ञानमेकाधिकरणत्वतः ॥९॥औत्पत्तिकगिरा दोषः कारणस्य निवार्यते ।अबाधोsव्यतिरेकेण, स्वतस्तेन प्रमाणता ॥१०॥सर्वस्याsनुपलब्धेsर्थे प्रामाण्यं, स्मृतिरन्यथा ।चोदना चोपदेशश्च विधिश्चैकार्थवाचिनः ॥११॥वाक्यान्तरे समर्थेsपि किमर्थं विधिराश्रितः ।साध्यसाधनसम्बन्धः सर्वाख्यातेषु विद्यते ( १ ) ॥१२॥ सर्ववाक्येषु चाख्यातं तेनाकाङ्क्षानिवर्तनात् ।प्रवृत्तिसिद्धिरिच्छातः प्रतिषेधात्तु वर्जनम् ॥१३॥विधावनाश्रिते साध्यः पुरुषार्थो न लभ्यते ।श्रुतः स्वर्गा( १ )दिबाधेन धात्वर्थः साध्यतां व्रजेत् ॥१४॥विधौ तु तमतिक्रम्य स्वर्गादेः साध्यतेष्यते ।तत्साधनस्य धर्मत्वमेवं सति च लभ्यते ॥१५॥स्वप्रत्ययान्तरापेक्षा स्यादनाप्तनरोक्तिषु ।आप्तोक्तिषु परापेक्षा ( २ ) नोभयं चोदनासु नः ॥१६॥इति औत्पत्तिकसूत्रं पञ्चमं पूर्णम् ॥ N/A References : N/A Last Updated : November 12, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP