निरालम्बनवादः - श्लोक १२६ ते १५०

कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.
ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी.


न च शक्यो विधिर्वक्तुं वस्तुन्यसति केन चित् ’ ।
एवं स्थिते च सर्वज्ञनिषेधादावियं गतिः ॥१२६॥
प्रत्यक्षादेरसामर्थ्यं तदीयस्याsस्मदादिवत् ।
वैधर्म्याsसंभवेsप्येतदन्ये त्वाहुरदूषणम् ॥१२७॥
विनैव तत्प्रयोगेण हेतुरैकान्तिको यतः ।
सर्वथा सदुपायानां वादमार्गः( २ )प्रवर्तते ॥१२८॥
अधिकारो sनुपायत्वान्न वादे शून्यवादिनः ।
ननु सर्वं भवत्सिद्धं मयेदं साधनं कृतम् ॥१२९॥
किमर्थं( १ )मदसिह्या त्वं विकल्प्याsत्राssत्थ( २ )दूषणम्
विप्रलिप्सुरिवाssहैवं किमर्थं न्यायविद्भवान् ॥१३०॥
नाsश्रौषीः साधनत्वं किं प्रसिद्धस्य द्वयोरपि ।
यो sपि तावत्पराsसिद्धः स्वयं सिद्धोsभिधीयते ॥१३१॥
भवेत्तत्र प्रतीकारः स्वतो sसिद्धे तु का क्रिया ।
तं साधयन् विर्रुन्ध्याद्धि पूर्वाsभ्युपगतं नरः ॥१३२॥
असाधिते तु साध्याsर्थो न तेन प्रतिपद्यते ।
पराsसिद्धो न पर्याप्तः परेषां प्रतिपत्तेये ॥१३३॥
तेनाsसाधनता युक्ता, स्वतो sसिद्धे तु किङ्कृता ।
द्वयोः सिद्धस्य हेतुत्वं नाsदृष्टायोपदिश्यते ॥१३४॥
प्रत्येष्यन्ति स्वसिद्धेन साधनेन स्वयं यतः ।
वदेत् कथमसिद्धं चेत्, इत्यनेनापि किं तव ॥१३५॥
गृहीतमगृहीतं वा साध्यं वा साधनो sपि वा ।
मयोच्यते चेत्त्वत्सिद्धं ( ३ ) किं त्वं न प्रतिपद्यसे ॥१३६॥
यत्र स्यात् पुरुषाsधीना बुद्धिस्तत्रेदमुच्यते ।
कुतो sस्य पूर्वविज्ञानमित्यत्रैतन युज्यते ॥१३७॥
यदि चैवं भवेदत्र प्रतिज्ञामात्रएव हि ।
मद्दोषाsज्ञानमात्रेण प्रतिपत्तिर्भवेत्तव ॥१३८॥
यतस्तु साधनाsपेत्ता तेनाsस्यैव प्रमाणता ।
तत्स्मृत्युत्पत्तिमात्रे तु वाक्यव्यापार इष्यते ॥१३९॥
तस्माद्यथैव साध्यांशव्याप्तहेतुनिदर्शनात् ।
साध्यं गृह्णन्न वक्तारमपेत्तेत तथा भवान् ॥१४०॥
यच्चापि भवतो ज्ञानं प्रत्यक्षादि ( १ ) किमत्र ते ।
मत्प्रसिद्धा sस्ति युक्तिर्वा साध्यं वाsत्र यथेच्छसि ॥१४१॥
तस्मान्न विदुषामेतदुत्तरं युज्यते यतः ।
तव हेतुरसिद्धो sयं मम तेन न साधनम् ॥१४२॥
‘ सत्यं यदि ममैवाsत्र प्रतिपत्तिः फलं भवेत् ।
तदा त्वदप्रसिद्धे sपि हेतौ मां प्रति हेतुता ॥१४३॥
यदा तु ज्ञानमात्रत्वप्रतिपत्तौ ( १ ) भवान् मया ।
पृष्टः को हेतुरत्रेति तदैवं ( २ ) नोपपद्यते ’ ॥१४४॥
स्वयं न ह्यगृहीतेन ( ३ ) मत्प्रसिद्धेन वा भवान् ।
हेतुना साध्यमेतत्तु प्रतिपन्नः कथञ्चन ॥१४५॥
न च व्याप्रियते sन्यत्र वचनं प्राश्निकान् प्रति ।
स्वनिश्चयाय यो हेतुस्तस्यैव प्रतिपादनात् ॥१४६॥
मत्प्रसिद्धत्वमेतस्य कुतश्चाsवगतं त्वया ।
कथं चेत्थं विवक्षा ते स्वयमर्थमजानतः ॥१४७॥
मयि जिज्ञासमाने sपि बुद्धिपूर्वाsभिधायिनः ।
इति ज्ञात्वा च वो वृद्धैर्भाषितोभवसिद्धता ॥१४८॥
तेन यद्वन्ममैतेन त्वमाधित्ससि हेतुना ।
साध्यज्ञानं, तथैवाहमज्ञानं तव दूषणैः ॥१४९॥
यथैव च भवानीदृक् साध्यमुत्त्का sस्य साधनम् ।
साध्याsनुरूपमज्ञात्वा विहतः प्रतिपादनात् ॥१५०॥

N/A

References : N/A
Last Updated : November 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP