संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|योगवासिष्ठम्|मुमुक्षुव्यवहारप्रकरणम् ।| सर्ग चौथा मुमुक्षुव्यवहारप्रकरणम् । सर्ग पहिला सर्ग दुसरा सर्ग तिसरा सर्ग चौथा सर्ग पाचवा सर्ग सहावा सर्ग सातवा सर्ग आठवा सर्ग चौथा ‘ योगवासिष्ठ ’ एक प्राचीन ग्रंथ.Yoga Vasistha is famous as one of the historically popular and influential texts of Hinduism. Tags : bookyogपुस्तकयोगवासिष्ठसंस्कृत सर्ग चौथा Translation - भाषांतर वसिष्ठ उवाच ॥सौम्याम्बुत्वे तरङ्गत्वे सलिलस्याम्बुता यथा । समैवाब्धौ तथादेहसदेहमुनिमुक्तता ॥१॥ सदेहावास्त्वदेह वा मुक्तता विषये नच । अनास्वादितभोगस्य कुतो भोज्यानुभूतयः ॥२॥जीवन्मुक्तं मुनिश्रेष्ठं केवलं हि पदार्थवत् । पश्यामः पुरतो नास्य पुनर्विद्मोन्तराशयम् ॥३॥ सदेहादेहमुक्तानां भेदः को बोधरूपिणाम् । यदेवाग्बुतरङ्गत्वे सौम्यत्वेपि तदेव तत् ॥४॥न मनागपि भेदोस्ति सदेहादेहमुक्तयोः । सस्पन्दो प्यथवास्पन्दो वायुरेव यथानिलः ॥५॥सदेहा वा विदेहा वा मुक्तता न प्रमास्पदम् । अस्माकमपि तस्यास्ति स्वैकतास्त्यविभागिनी ॥६॥तस्मात्प्रकृतमेवेदं शृणु श्रवणभूषणम् । मयोपदिश्यमानं त्वं ज्ञानमज्ञानयनाशनम् ॥७॥सर्वमेवेह हि सदा संसारे रघुनन्दन । सम्यक्प्रयुक्तात्सर्वेण पौरुषात्समवाप्यते ॥८॥इह हीन्दोरिवोदेति शीतलाह्लादनं हृदि । परिष्पन्दफलप्राप्तौ पौरुषादेव नान्यतः ॥९॥पौरुषं स्पन्दफलवद्दृष्टं प्रत्यक्षतो न यत् । कल्पितं मोहितैर्मन्दैर्दैवं किंचिन्न विद्यते ॥१०॥साधूपदिष्टमार्गेण यन्मनोङ्गविचेष्टितम् । तत्पौरुषं तत्सफलमन्यदुन्मत्तचेष्टितम् ॥११॥योयमर्थं प्रार्थयते तदर्थं चेहते क्रमात् । अवश्यं स तमाप्नोति नचेदर्थान्निवर्तते ॥१२॥पौरुषेण प्रयत्नेन त्रैलोक्यैश्वर्यसुंदराम् । कश्चित्प्राणिविशेषो हि शक्रतां समुपागतः ॥१३॥पौरुषेणैव यत्नेन सहसाम्भोरुहास्पदम् । कश्चिदेव चिदुल्लासो ब्रहम्तामधितिष्ठति ॥१४॥सारेण पुरुषार्थेन स्वेनैव गरुडध्वजः । कश्चिदेव पुमानेव पुरुषोत्तमतां गतः ॥१५॥पौरुषेणैव यत्नेन ललनावलिताकृतिः । शरीरी कश्चिदेवेह गतश्चन्द्रार्धचूडताम् ॥१६॥प्राक्तनं चैहिकं चेति द्विविधं विद्धि पौरुषम् । प्राक्तनेद्यतनेनाशु पुरुषार्थे जीयते ॥१७॥यत्नवद्भिर्दृढाभ्यासैः प्रजोत्साहसमन्वितैः । मेरवोपि निगीर्यन्ते कैव प्राक्पौरुषे कथा ॥१८॥शास्त्रनियन्त्रितपौरुषपरमा पुरुषस्य पुरुषता या स्यात् । अभिमतफलभरसिद्ध्यै भवति हि सैवान्यथा त्वनर्थाय ॥१९॥कस्यांचित्स्वयमात्मदुःस्थितिवशात्पुंसो दशायां शनैरङ्गुल्यग्रनिपीडितैकचुलुकादावापबिन्दुर्बहुः । कस्यां चिज्जलराशिपर्वत पुरद्वीपान्तरालीकृता भर्तव्योचितसंविभागकरणे पृथ्वी न पृथ्वी भवेत् ॥२०॥[ १२७ ] इति श्रीवासिष्ठमहरा०द्वात्रिंशत्साहस्र्यां संहितायां मुमुक्षुव्यवहारप्रकरणे पौरुषप्रकरणं नाम चतुर्थः सर्गः ॥४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP