पंचमाष्टक - अष्टमोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


हरि: ॐ ॥ दूरात्त्यक्ता मयाsहन्ता ममता च चिरागता ॥
भवत्प्रसादात्स्वस्थोsद्य मुक्तसङगश्चरे महीम् ॥१॥
इत्युक्त्वेशं प्रणम्याशु गत्वाsलर्क: प्रसन्नधी: ॥
स काशीशं सुबाहुं स प्रोवाच प्रहसन्निव ॥२॥
राज्यकामुक काशीश भुंक्ष्व राज्यमकण्टकम् ॥
त्वं वा सुबाहवे चाद्य प्रयच्छेदं यथारुचि ॥३॥
काशीश: प्राह किं राज्यं परित्यक्तं रणं विना ॥
भवान्क्षत्रियदायादो नेदं त्वय्युपपद्यते ॥४॥
प्रनष्टामात्यसेनोsपि त्यक्त्वा मरणजं भयम् ॥
लक्ष्यं शत्रुं समुद्दिश्य संदधीत नृप: शरान् ॥५॥
हतो वा याति स स्वर्गं जित्वा वा स भुनक्ति गाम् ॥
नोभयत्रास्यं हानिर्हि यज्ञवच्चोदितो रण: ॥६॥
जित्वारीन्नृपतिर्भोगान्यथाभिलपितान्हितान् ॥
दिव्यान्भुञ्जीत संसिध्द्यै यजेतेशं महामखै: ॥७॥
आततायिनमायान्तं दृष्ट्वा भीतो यदा नृप: ॥
पलायते स हित्वेह कीर्तिं प्रेत्यैति दुर्गतिम् ॥८॥
प्राहालर्क: पुरैतादृङ् मतं मेsभूत्तु सांप्रतम् ॥
न तथाsहं हि नो देह: क्षत्रियत्वं पुन: कुत: ॥९॥
यथा भौमो जड: कुम्भस्तथेयं देहिनस्तन् ॥
गुणा: प्राणा मनश्चापि चित्सांनिध्यात्सचेतना ॥१०॥
चिच्छिक्तिरेक एवायं यदा नान्योsस्ति कश्चन ॥
कुतस्तदारिमित्रादिधीरज्ञानाद्यतो हि सा ॥११॥
त्वन्निमित्तेन यद्दु:खं मायिकं मेsभवत्तत: ॥
दत्तात्रेयप्रसादोsभून्मयि येनेदृशोsभवम् ॥१२॥
निर्जितारीन्द्रियगणस्त्यक्त्वा सङ्गमशेषत: ॥
मनो ब्रह्मणि संधास्ये जय: सर्वत्र तज्जये ॥१३॥
नारिर्मे त्वं न चाहं ते सुबाहुस्तूपकारकृत् ॥
भेददृष्टि: क्क मे सर्व मयि सर्वत्र चाप्यहम् ॥१४॥
इति तद्वचनं श्रुत्वा तमालिङ्ग्य मुदा दृढम् ॥
दिष्ट्योक्तं भ्रतरित्युक्त्वा सुबाहु: प्राह काशिपम् ॥१५॥
यदर्थं काशिराजेह त्वामहं शरणं गत: ॥
नि:शेषं तन्मया लब्धं यास्यामि स्वस्ति तेsस्तु भो: ॥१६॥
काशिप: प्राह मां ब्रूहि निष्पन्नोsर्थ: कथं तव ॥
किमर्थमागतोsसि त्वं कौतुकं प्रतिभाति मे ॥१७॥
पित्र्यं राज्यं ममाक्रान्तं भ्रात्रा निर्जित्य तं हि मे ॥
देहीति शरणं प्राप्य मामद्यात्थान्यथा कथम् ॥१८॥
सुबाहु: प्राह काशीश यदर्थमयमुद्यम: ॥
विहितस्त्वत्सहायेन श्रृणु तत्कारणं त्विदम् ॥१९॥
विद्वांसौ वातरशनौ विमुक्तौ भ्रातरौ मम ॥
तयोर्मम च यन्मात्रा बाल्ये स्तन्यं यथा मुखे ॥२०॥
सिक्तं तथैव बोधोsपि विन्यस्त: कर्णयोस्तथा ॥
नास्य कर्णेsपतद्दैवात्पशुप्रायोsनुजोsभवत् ॥२१॥
स्त्रीषु स्त्रैणेषु सततं संसक्तोsयं यथा पशु: ॥
जैह्वयौपस्थ्यसुखासक्त्यानाsयमल्पोsभवत्कुधी: ॥२२॥
यथैकसार्थयातानामेकस्मिन्नेव सीदति ॥
दु:खं भवति सार्थानां तथाsस्माकमभून्नृप ॥२३॥
लब्ध्वा गार्हस्थ्यमात्मानं सुखिनं मन्यते स्म स: ॥
भ्रान्तिरस्येति संप्रेक्ष्य खेदोsस्माकमभून्नृप ॥२४॥
ततो मया विनिश्चित्य दु:खं वैराग्यकारणम् ॥
कृतं भवत्सहायेन तथैवार्थोsभवन्मम ॥२५॥
दु:खमस्मै मया दत्तं विरक्तोsभूत्ततस्त्वयम् ॥
मम कार्यं हि संसिद्धं भद्रं तेsस्तु व्रजाम्यहम् ॥२६॥
माता मदालसाsस्माकं योगिमान्यापि तत्पय: ॥
पीत्वा यन्न पतत्वेवं मनस्यानीय यत्नत: ॥२७॥
भवत्संश्रयत: सर्वं निष्पन्नं किं ममामुना ॥
मर्त्यराज्येन साम्राज्यं स्वरूपानन्दतो मम ॥२८॥
नोपेक्ष्यो विदुषा राजन्सीदमान: स्वबान्धव: ॥
उद्धर्तव्य: प्रयत्नेन विद्वत्ता सैव तस्य हि ॥२९॥
सुहृदि स्वजने बन्धौ समर्थे योsवसीदति ॥
धर्मार्थकाममोक्षेभ्यो निन्द्यास्ते नात्र संशय: ॥३०॥
इत्युक्त: काशिराजोsपि क्षणसत्सङ्गनिर्वृत: ॥
भूत्वा दीनमना: प्राह सुबाहुं कृपयान्वितम् ॥३१॥
उपकारो ह्यलर्कस्य कृत: साधो त्वया महान् ॥
कथं ममोपकाराय न करोषि मन: सखे ॥३२॥
फलदो हि सतां सङ्ग इत्युक्ति: कथमन्यथा ॥
तस्मान्मामपि संसारात्समुद्धर विचक्षण ॥३३॥
इत्युक्त: स सुबाहुस्तं प्रहस्य प्राह काशिप ॥
सत्यमेव त्वया प्रोक्तं किंतु कालोsत्र युज्यते ॥३४॥
धर्मार्थकाममोक्षाख्या: पुरुषार्था इहोदिता: ॥
त्रिवर्ग: सफलस्तेsत्र शिष्टो मोक्ष: स साधनै: ॥३५॥
विना न सिध्द्यति ततो यतितव्यं प्रयत्नत: ॥
तत्ते संक्षेपतो वक्ष्ये यथेथा: श्रेयसे तत: ॥३६॥
प्रत्ययोsहंममेत्येवं कर्तव्यो न पुनस्त्वया ॥
अहंममेति संज्ञेयं कस्येत्यालोचयानिशम् ॥३७॥
अव्यक्तादिविशेषान्तं सविकारमचेतनम् ॥
व्यक्ताव्यक्तं त्वया ज्ञेयं ततोsसङ्गत्वमेष्यसि ॥३८॥
आत्मानात्मविचारेण ज्ञातव्यमखिलं तत: ॥
स्वात्मानमेकमालोच्य कृतकृत्यो भविष्यसि ॥३९॥
यद्यप्यलर्को दैवेन भोगासक्तोsपि कामुक: ॥
विशुद्धो मातृकृपया क्षणाल्लेभे गुरो: कृपाम् ॥४०॥
त्वमिदानीं विरक्तोsपि प्रतिबद्धोsस्यतोsनिशम् ॥
यत: स्वप्रतिबन्धान्ते मुक्तिमेष्यस्यसंशयम् ॥४१॥
इत्युक्त्वालर्कमालिङ्ग्य तमुवाच प्रसन्नधी: ॥
राज्यं कुरु वनं वैहि नात: कुत्रापि लिप्यसे ॥४२॥
विद्वंस्तव न दोषोsस्ति यथेच्छसि तथा कुरु ॥
अलर्क: प्राह भो बन्धो मूढोsहं केवल: पुरा ॥४३॥
जडीभूत: स्थितो राज्ये प्रसादात्तेsद्य मोचित: ॥
एकोदरसमुत्पन्न मान्यनारीसुता वयम् ॥४४॥
अद्यैव समतां प्राप्तास्तत्पुण्यं मातुरेव न: ॥
इत्युक्तोsथ सुबाहु: स प्रययो वनमुत्तमम् ॥४५॥
स्वपुरं काशिराजोsपि गत्वा यत्नपरोsभवत् ॥
अलर्क: पुरमासाद्य पुत्रं राज्येsभिषिच्य च ॥४६॥
वनं जगाम संत्यज्य सर्वसङ्गविमुक्तये ॥
तत्र कालेन महता निर्द्वन्द्वो निष्परिग्रह: ॥४७॥
प्राप योगर्द्धिमतुलां पूर्णां निर्वाणलक्षणाम् ॥
पश्यन्विश्वमिदं सर्वं सदेवासुरमानुषम् ॥४८॥
पाशैर्गुणमयैर्बद्धं बध्यमानं च नित्यश: ॥
स्त्रीपुत्रभ्रातृमित्रारिस्वपारक्यादिभावितै: ॥४९॥
आकृष्यमाणं करणै: संभ्रान्तं भीमदर्शनम् ॥
अज्ञानपङ्कमग्नं च स्वात्मानमपि तादृशम् ॥५०॥
समुत्तीर्णं समाज्ञाय गाथामेतामगायत ॥
अहो कथं तदस्माभि: पूर्वं राज्यमनुष्ठितम् ॥५१॥
अपि पश्चन्मया ज्ञातं योगान्नास्त्यपरं सुखम् ॥
यद्भूम्यां धनधान्यस्त्रीपुत्रादिसुखभावितम् ॥५२॥
तृष्णाक्षयसुखस्येदं कलां नार्हति षोडशीम् ॥
तृष्णासत्त्वे तु तत्सर्वं नैकस्यार्तिदमप्यलम् ॥५३॥
सुखं भूमात्मरूपं तदविद्वान्मूढधीर्बहि: ॥
मृगयत्यवशस्तेन सर्वदा दु:खभाजन: ॥५४॥
सत्यं ज्ञानमनन्तं यद्ब्रह्मज्योति: सनातनम् ॥
तदेवात्मैक एवाहं भूमा सुखमय: सदा ॥५५॥
भ्रातुर्मातु: प्रसादेन श्रीदत्तानुग्रहेण च ॥
कृतं कृत्यं प्रापणीयं मया प्राप्तं न संशय: ॥५६॥
एवमुक्त्वा महात्मा स समभ्यस्य प्रयत्नत: ॥
संप्राप्तश्चरमां भूमिं यत्र द्वैतस्मृतिर्न च ॥५७॥
तत: प्रारब्धभोगान्ते निर्गतोपाधिक: स च ॥
दत्तलोके विलीनोsभून्नामरूपादिवर्जित: ॥५८॥
इति पुत्रेण पित्रेsसौ योगचर्योपदेशिता ॥
सेयं समासतस्तत्र ग्रथिता बुद्धिशुद्धये ॥५९॥
पुत्र: प्राह ततैवं त्वं योगाभ्यासं समाचर ॥
प्राप्स्यसे तत्परं ब्रह्म यत्र गत्वा न शोचति ॥६०॥
तद्ब्रह्माsहं न संसारी किं मेsध्ययनकर्मभि: ॥
कृतकृत्यस्य करणमस्ति चेन्न स तत्त्ववित् ॥६१॥
एतत्ते सर्वमाख्यातं तव प्रश्नानुसारत: ॥
ममोदन्तश्च कथितो यतमानो भवाधुना ॥६२॥
इत्युक्त्वा पितरं नत्वा ततोsनुज्ञामवप्य च ॥
संत्यक्ताखिलसङ्गोsसौ गां चचार समाहित: ॥६३॥
तत्पितापि सुनिर्विण्णो वानप्रस्थविधानत: ॥
शुद्धिं प्राप्याथ संन्यस्य जातो नैष्कर्म्यसिद्धिभाक् ॥६४॥
इत्यलर्ककथा धन्या गेया ध्येया मनीषिभि: ॥
प्रमाणं यत्र भगवानवधूतो दिगम्बर: ॥६५॥
किं वर्ण्यते भगवतो भक्तवात्सल्यमद्भुतम् ॥
योsलर्काय ददौ मुक्तिं तुष्टो वन्दनमात्रत: ॥६६॥
मध्यमं चरितं त्वेतद्यदलर्ककथान्वितम् ॥
भुक्तिमुक्तिप्रदं रम्यं त्रीशसंतोषकारकम् ॥६७॥
शश्वत्ते वन्दनं कुर्वे माधवातीन्द्रिय प्रभो ॥
संतुष्ट: सौभगं त्वं न आयजस्व त्र्यधीश्वर ॥६८॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां वासुदेव्यामुपासनाकाण्डे पञ्चमाष्टकेsष्टमोsध्याय: ॥८॥
॥ इति सुबाहुना कृतकृत्य० वीक्ष्य काशिपायोपदेशो नाम पञ्च० अष्ट० ॥५।८॥
॥ इति श्रीमद्दत्तपुराणे पञ्चमाष्टक: संपूर्ण: ॥

N/A

References : N/A
Last Updated : May 07, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP