संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीदत्तपुराणम्|पंचमाष्टक| तृतीयोsध्याय: पंचमाष्टक प्रथमोsध्याय: द्वितीयोsध्याय: तृतीयोsध्याय: चतुर्थोsध्याय: पञ्चमोsध्याय: षष्ठोsध्याय: सप्तमोsध्याय: अष्टमोsध्याय: पंचमाष्टक - तृतीयोsध्याय: श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् " Tags : dattagurudattavasudevanand saraswatiगुरूदत्तदत्तवासुदेवानंदसरस्वती अथ मदालसया पुत्रत्रयज्ञोपदेशश्चतुर्थाय प्रवृत्तिमार्गकथनं नाम पञ्चमे तृतीयोsध्याय: Translation - भाषांतर हरि: ॐ ॥ उग्रो जज्ञे सहैवायं प्रमादो मृत्युरात्महा ॥इअति मत्वोत्तानशायिन् रोदिष्यपि स न त्वयि ॥१॥शुद्धोsस्यकं न ते नायं कल्पित: पाञ्चभौतिक: ॥देहोsपि ते ह्यसङ्गस्य कुतो रोदिषि सन्भवान् ॥२॥विश्वोद्भवाsसतीयं शुक् शब्दोsयं कल्पितो गुणै: ॥भूताश्रया गुणा भौता मृषा विषयिगा अपि ॥३॥भूतान्यन्योन्यसंबन्धं प्राप्यर्द्धि यानित न स्वत: ॥वृद्धिहानी न तेम्ब्वन्नदानाद्देहोsस्य वर्धते ॥४॥शीजमानोsत्र देहेषु व्रजेथा नैव मूढताम् ॥अहंताममताद्युत्थै: कर्मभिर्बाध्यसेsन्यथा ॥५॥पितेति क्वापि मातेति प्रियेति च तवेति च ॥ममेति भौतिकेष्वेषु मा कृथा दुर्मतिं सुधी: ॥६॥दु:खै: संतप्यते मूढो विदस्तान्येव कानि हि ॥पराधीनतयोत्थं कं तत्तुच्छं विरसं क्षणात् ॥७॥त्वक्च्छन्ना मांसघटिताsस्थिस्तम्बविधृता सती ॥दुर्गति: किं न योषेयं देहोsप्यभिमतस्तथा ॥८॥वर्धमानं सुतं त्वेवं प्रत्यहं सा मदालसा ॥उल्लापनच्छलेनैव बोधमायास निर्मलम् ॥९॥यथा यथा स ववृधे प्रबोधोsपि तथा तथा ॥राज्ञा विक्रान्त इत्येवं तन्नामकरणं कृतम् ॥१०॥ननन्दु: सकला भृत्या जहास च मदालसा ॥लब्धप्रबोधो बालोsभूद्दक्षोsपि जडमूढवत् ॥११॥किमत्र चित्रमाजन्म मात्रा पुत्र: प्रबोधित: ॥विदुष्या मुमुचे बन्धात्सङ्गात्सन् तारयत्यपि ॥१२॥पुन: सा गर्भिणी भूत्वा दैवात्पुत्रमजीजनत् ॥सुबाहुरिति तं नाम्ना चकार विधिना नृप: ॥१३॥तदापि सा जहासोच्चै: पूर्ववच्च मदालसा ॥उल्लापेनैव तं निन्ये प्रबोधं सुमहामतिम् ॥१४॥भूयोsपि गर्भिणी भूत्वा सासूत तनयं न यम् ॥द्वैतवातोsपि संस्पृष्टो मात्रुल्लापाप्तसद्धियम् ॥१५॥शत्रुमर्दन इत्याख्यां ददौ तस्मै नृपो मुदा ॥जहासापि तदा तन्वी सर्वेषामेव पश्यताम् ॥१६॥मुक्तसङ्गोsनहंवादी मूढवच्छत्रुमर्दन: ॥चचार त्रीनपि सुतान्दृष्ट्वा खिन्नोsभवन्नृप: ॥१७॥न हृदाप्युपदेशं ते प्रवृत्त्यर्हं पितु: सुता: ॥जगृहुर्मृगतृष्णाभं मन्यमाना: सुबोधिता: ॥१८॥तुर्यं सा सुषुवे पुत्रं सत्पञ्चोच्चग्रहक्षणे ॥तदा सर्वमनांस्यासन्प्रसन्नानि दिशोsपि च ॥१९॥राजाsवदत्प्रिये पुत्रनामसु त्रिष्वपि त्वया ॥कुतो हास्यं कृतं ब्रूहि किं नामास्याधुना वद ॥२०॥सा प्राह वल्लभेयं तु कल्पना व्यावहारिकी ॥तथापि त्वत्कृताख्यानां श्रृणुष्वेमां निरर्थताम् ॥२१॥देशाद्देशान्तरं क्रान्तिर्गति: सैव विभौ कुत: ॥तस्माद्विक्रान्तसंज्ञेयमात्मनोsस्य निरर्थका ॥२२॥निराकारोsयमात्माsत: सुबाहुरिति चापरा ॥संविन्नैवात्मनोsन्वर्था क्कामूर्तस्य भुजो वद ॥२३॥शत्रुमर्दन इत्याख्या साप्यनर्थाय ते विभु: ॥भूते भूते स्थितोsप्यर्क इवाप्स्वात्मैक एव हि ॥२४॥क्क मित्रं क्क च वाsस्यारिर्नायं हन्ति न हन्यते ॥भूतैर्म्रियन्ते भूतानि भङ्गैर्भङ्गा इवार्णवे ॥२५॥कामादिरान्तरोsप्यस्य नारिर्धीवृत्तिजो विभो: ॥बुद्धे: परतरस्यास्य साक्षिण: केवलस्य च ॥२६॥देहे चेद्व्यवहारार्थमसन्नाम प्रकल्प्यते ॥तर्ह्यस्यालर्क इत्याख्यां कुरु नैरथ्यमत्र किम् ॥२७॥एवं प्रियावच: श्रुत्वा चकितो ज्ञोsपि राट् स्वयम् ॥अलर्क इति नाम्ना तं चकारात्मभुवं मुदा ॥२८॥चिक्रान्तमेकदाssहूय रहस्याह नृप: सुतम् ॥चर स्वार्थं किमर्थं त्वं जडवत्कुरु सत्क्रियाम् ॥२९॥स प्राह प्रतिभात्येष कर्मोघो विगुणोsधुना ॥किं तेनोत्पन्नबोधस्य तात मेsद्य प्रयोजनम् ॥३०॥शास्त्रादिधर्मकर्मादि राज्यं स्वर्गोsपि वा ध्रुव: ॥सुखं नेदं परं दु:खं तन्निर्गुणं परम् ॥३१॥आद्यन्तवन्त: स्पर्शोत्था भोगा ज्ञस्य सुखाय नो ॥सुखमात्यन्तिकं तत्तु लभ्यं नैष्कर्म्यसिद्धित: ॥३२॥मया ज्ञातमिदं मातुरनुभूतं च तत्पित: ॥अतोsक्रियश्चरे मुक्तो भ्रातरावपि मे तथा ॥३३॥तच्छ्रुत्वा कुपितो राजा भार्यासामीप्यमेत्य ताम् ॥प्रवृत्तिमार्गनिरत इदं वचनमब्रवीत् ॥३४॥मूढे त्वं किं करोषीदं वंशनाशकरं वच: ॥पुत्रेभ्य: शंससि कथं का गतिर्नावित: परम् ॥३५॥एतेनैवोपदेशेन साधुनैव भविष्यति ॥पुण्य: प्रवृत्तिमार्गोsयं प्रमाणमिह केशव: ॥३६॥पितरो देवलोकस्था: केचित्तिर्यक्त्वमागता: ॥प्रेतत्वं चान्यभावं च क्षुत्तृट्शान्ता भवन्ति ते ॥३७॥सुपुण्या वाsप्यपुण्या ये ते निवापोपजीविन: ॥तद्वार्ता ब्रह्मणोक्तेयं मूढे ज्ञाता न किं त्वया ॥३८॥नृदेवपितृभूताद्या: कृमिकीटादयोsपि च ॥गृहिभ्य एव जीवन्ति धर्म एष सनातन: ॥३९॥तस्मात्प्रिये त्रयो नष्टा: पुत्रास्ते कर्ममार्गत: ॥अद्याप्यस्मा अलर्काय कर्ममार्गमुपादिश ॥४०॥मदालसाssह भो: स्वामिन्मया साधु कृतं खलु ॥जय्य आत्मैक लोकोsयं प्रजया किमिति श्रुतम् ॥४१॥तथापीदं नरश्रेष्ठ सद्वृतं चेन्न रोचते ॥अलर्कायोपदेक्ष्येsद्य क्रियामार्गं यथोदितम् ॥४२॥इत्युक्त्वाsस्मै त्रिवर्ग्यं सा धर्मं वर्णाश्रमोचितम् ॥षड्विधां राजनीतिं च प्रजारञ्जनकर्म च ॥४३॥मात्रैवमुपदिष्ट: स राजाsलर्को बुध: सुधी: ॥परिणीय वधू: काले पुत्रांश्चाजनयच्छुभान् ॥४४॥पित्राsभिषिक्त: साम्राज्ये पित्राज्ञापालकोsभवत् ॥भुक्तभोगोsथ राजाsगाद्भार्यया तपसे वनम् ॥४५॥प्रयाणकाल आहेदं मातालर्कं मदालसा ॥धर्मत: कुर्वतो राज्यं यदा ते दु:खमुद्भवेत् ॥४६॥तदेयं पत्रिका प्रेक्ष्या तावद्गोप्या प्रयत्नत: ॥हितं विलिखितं त्वत्र दृष्ट्वा चर तदैव भो: ॥४७॥इत्युक्त्वा मुद्रिकां तस्मै ददौ योग्याशिषोsपि च ॥ऋतध्वजो वनं गत्वा सभार्य: सद्गतिं ययौ ॥४८॥अलर्कस्त्वकरोद्राज्यं पितृवत्पालयन्र्पजा: ॥शिक्षां दुष्टेषु शिष्टेषु रक्षां दीनेषु वै कृपाम् ॥४९॥चकार सोsर्थं धर्मेण धर्मं चार्थेन नीतिमान् ॥तयोरेवाविरोधेन दिव्यार्थानभजत्सदा ॥५०॥इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां संहितायां वासुदेव्यां उपासनाकाण्डे पञ्चमाष्टके तृतीयोsध्यय: ॥३॥॥ इति मदालसया पुत्रत्रयज्ञनोपदेशश्चतुर्थाय प्रवृत्तिमर्गकथनं नाम पञ्च० तृती० ॥५।३॥ N/A References : N/A Last Updated : May 07, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP