संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीदत्तपुराणम्| तृतीयाष्टक उपासनाकाण्डं| सप्तमोsध्याय: तृतीयाष्टक उपासनाकाण्डं प्रथमोsध्याय: द्वितीयोsध्याय: तृतीयोsध्याय: चतुर्थोsध्याय: पञ्चमोsध्याय: षष्ठोsध्याय: सप्तमोsध्याय: अष्टमोsध्यय: तृतीयाष्टक - सप्तमोsध्याय: श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् " Tags : dattagurudattavasudevanand saraswatiगुरूदत्तदत्तवासुदेवानंदसरस्वती अथ रोग्युद्धारादिकथनं नाम तृतीयाष्टके सप्तमोsध्याय: Translation - भाषांतर हरि: ॐ ॥ प्रभुप्तसादाद्विप्रोsयं कमप्यन्वग्रहीत्स च ॥कृतार्थो भवतीत्येवं प्रसिद्धोsभूत्स भूतले ॥१॥गोदावासी द्विज: कश्चिद्धरिशर्मा तदात्मज: ॥द्विदशाब्दो यस्य जन्या गुल्मोsष्टाब्द: क्षयोsभवत् ॥२॥त्र्यब्दो जलोदरो जीर्णज्वर एकाब्द आयन: ॥अतिसार: सकासश्च चातुर्मास्यो भगन्दर: ॥३॥त्रिदोषेणापि संक्रान्तं प्रेक्ष्य मृत्यून्मुखं पतिम् ॥तद्भार्या षोडशाब्दागाच्छरणं विष्णुदत्तमित् ॥४॥सौभाग्यं देहि मे ब्रह्मन्भर्ता मे रोगपीडित: ॥अत्युत्कटा: प्रतीकारा दैवाज्जाता निरर्थका: ॥५॥इत्यर्थितो दयालु: स साध्व्या तद्गृहमेत्य तम् ॥दृष्ट्वा कर्मविपाकोक्तं पत्न्या व्रतमकारयत् ॥६॥क्रमेणाशु लयं प्रप तत्तद्रोग: प्रतिव्रतम् ॥क्षये ब्रह्मवधोत्थेsदाद्द्वादशाब्दं स निर्गत: ॥७॥गुल्म: षडब्देन देवद्रोहोत्थोsपि जलोदर: ॥द्वादशाब्देन चाब्देन पापोत्थोsपि भगन्दर: ॥८॥ज्वरोsब्देनातिसारश्च त्रिदोषश्चौषधाद्गत: ॥द्विजोsथ तं हृदि स्पृष्ट्वा जजापोपनिषन्मनुम् ॥९॥नीरुग्लेभे द्विजस्तेन भूतिमायु: प्रजां यश: ॥दिव्यां गतिं दत्तभक्तिमिहामुत्र च सद्गतिम् ॥१०॥पितृत्वेन वृत: सत्या द्विज: प्रस्थापितोsस्पृह: ॥ययौ धामेति रुग्णोsपि द्विजोsगात्सद्गतिं तत: ॥११॥क्रमाद्रोगेषु नष्टेषु यथान्ते पुष्टिदो रस: ॥नष्टेष्वविद्यादोषेषु शास्त्रैर्बोधस्ततो रस: ॥१२॥मिष्टाशनोत्थरोगार्तं ब्राह्मणी काचिदात्मजम् ॥अम्बा निम्बं पिबेत्याह तिक्तं नादूरदृक् पपौ ॥१३॥दास्ये लड्डुकमित्युक्त: पपौ दत्वापि तत्करे ॥अपथ्यशङ्किनी युक्त्या ततो जग्राह लड्डुकम् ॥१४॥फलं लड्डुकवद्गौणं मुख्यमारोग्यवत्परम् ॥रोग्यर्भवद्भवाध्यार्तो हिमकृन्मातृवच्छ्रुतम् ॥१५॥स्वर्गार्थं कामभोगार्थं शत्रुघातार्थमप्ययम् ॥न वशीकरणार्थं च शास्त्रौघो बुद्धिशुद्धिद: ॥१६॥विप्रस्य कस्यचिद्भार्यां दृष्ट्वा तन्वीं गते प्रिये ॥ग्रामान्तरे तत्स्वरूपधृग् झुटिंगो ह्यवाप ताम् ॥१७॥कामार्तो वर्ण्यवस्थायां दुराचारो हि यो मृत: ॥स झुटिंगत्वमेत्येव दुर्धर: कामलम्पट: ॥१८॥कथं ह्याश्वागम इति सत्योकित: सत्कृतोsवदत् ॥गतो यदर्थं मार्गे स मिलित: प्राह नाधुना ॥१९॥साध्यं कार्यं मासमात्रादेहीत्युक्तोsञ्जसागमम् ॥इति तां वञ्चायित्वा स साध्वीं स्ववशमानयत् ॥२०॥वशं गतां तस्य मायामजानन्ती मनस्विनी ॥धाष्टर्यं बलं भोगशक्तिं विकारांश्च विलक्षणान् ॥२१॥ज्ञात्वापि दु:खिता वक्तुं न शशाकाप्रियं क्वचित् ॥तस्मिन्संदिग्धचित्तापि प्रत्याख्यातुमनीश्वरा ॥२२॥मासेनैत्य गृहेशस्तं दृष्ट्वोचे मत्स्वरूपधृक् ॥कोsसि भार्यां गृहं चार्थं कथं गृह्णास्यरेsधम् ॥२३॥स प्राहाहं गृहस्वामी कस्त्वं मद्रूपधृक्खल ॥त्वं खलस्त्वं खल इति विवदन्तौ विलोक्य तौ ॥२४॥दृष्ट्वैकरूपौ चकिता मित्रश्वशुरबान्धवा: ॥सर्वं रहसि पत्न्योक्तं ज्ञात्वा खिन्नोsभवद्द्विज: ॥२५॥झुटिंगेन स्त्रिया स्वैश्च विष्णुदत्तालयं द्विज: ॥गत्वा शशंस तत्सर्वं ज्ञात्वाप्येवावदत्स तौ ॥२६॥रूपं शीलं वयोsवस्था स्वरवर्णाकृतिर्गति: ॥नामगोत्रकुलाद्येकं वदथ: सत्यमत्र किम् ॥२७॥क्षन्तव्यं निश्चिनोमीदमित्युक्त्वा सप्त मुद्रिका: ॥दत्वा समन्त्रा भालेsसौ पृथक् पप्रच्छ संसदि ॥२८॥कुप्यभाण्डांशुकान्नादि गेहे लक्ष्म च ते स्त्रियि ॥प्रकाशं चाप्रकाशं च सर्वमाख्यातुमर्हसि ॥२९॥लेखयित्वा पृथक् ताभ्यामुक्तं संसदि दूरत: ॥तौ कृत्वा ब्राह्मणीं प्राह सत्यं कस्योभयोर्वद ॥३०॥सा प्राह योsद्य मां भुङ्क्ते तद्वाक्ये व्यत्ययो महान् ॥अपरोक्तौ सत्यतेति तथेत्युक्त्वा द्विजोsब्रवीत् ॥३१॥पञ्चक्रोशात्मकमिदं क्षेत्रं कृत्वा प्रदक्षिणम् ॥विप्रावेष्यति य: शीघ्रं पूर्वं स विजयी भवेत् ॥३२॥तथेत्युक्त्वा गतौ तत्र क्षणार्धेन पिशाचक: ॥परिक्रम्यैत्य तत्राह कृता मेsद्य प्रदक्षिणा ॥३३॥लिङ्गानि पथि सर्वाणि देवतायतनानि च ॥तानि सर्वाण्यसंदिग्धं कथायामास संसदि ॥३४॥तच्छ्रुत्वा चकिता; सर्वे सभ्या ऊचु: परस्परम् ॥नेयं मनुष्यचेष्टातो भूतोsयं नात्र संशय: ॥३५॥प्राप विप्रस्त्वकृत्स्नज्ञो दिनार्धेनाब्रवीत्समम् ॥विष्णुशर्मा पुन: प्राह सिद्धा: कति गिराविह ॥३६॥पृष्ट्वा तन्नाम गोत्रादि गिरिं कृत्वा प्रदक्षिणम् ॥ब्रूयाद्य: शीघ्रमागत्य प्रथमं स जयी भवेत् ॥३७॥इत्युक्तौ जग्मतुरुभौ मुहूर्तार्धात्पिशाचक: ॥आगत्य स यथापृष्टं कथयामास सर्वश: ॥३८॥विप्रस्तु पञ्चयामोर्ध्वमेत्य क्लेशदुवाच सत् ॥सिद्धा न दृष्टास्तन्नाम गोत्रवार्ता कुत: पुन: ॥३९॥तच्छ्रुत्वातीव विश्वासो विप्रस्याभूत्सभासदाम् ॥विष्णुशर्मा पुन: ग्राह परीक्षैकावशिप्यते ॥४०॥इत्युक्त्वा लोहकरकं संस्थाप्योवाच तौ द्विज: ॥वक्त्रेणाविश्य नालेन निर्गम्य स्त्री प्रगृह्यताम् ॥४१॥इत्युक्त: सत्वरं भूत: सूक्ष्मरूपी समाविशत् ॥कृतरक्षो द्विजो ध्यात्वा श्रीशं मन्त्रं जजाप ह ॥४२॥दुर्धरं दुर्मुखं दुष्टं पिशाचमिन्द्रसंमृण ॥बध्वा मन्त्रानुभावेन सर्वं रक्षो निबर्हय ॥४३॥इत्यनेन मुखं नालं कीलयामास मध्यग: ॥भूतोsभूद्दु:खितो बद्धं तं तत्याज महागिरौ ॥४४॥साध्वी विप्र: सदस्याश्च जहर्षु: प्राह तां द्विज: ॥दृष्टमात्रो मया ज्ञातो झुटिंगोsयं महाखल: ॥४५॥सहसा निगृहीतेsस्मिन्नपवादो मयीत्यत: ॥कृतो यत्न: क्रमादेष लोकसंशयभेदक: ॥४६॥शास्त्रक्रमाद्यथाज्ञस्याज्ञानान्त: क्रियते तथा ॥कृता प्रतिक्रियैषात्र नैव कस्यापि संशय: ॥४७॥विश्वास: प्रथमे किंचिद्द्वितीये सविशेषक: ॥तृतीये संशयश्छिन्नस्तुर्ये नाशमितोsधम: ॥४८॥सर्वे ततस्तदादिष्टा नत्वा जग्मुर्यथागतम् ॥साध्वी साsनिन्दिता हृष्टा स्वेशं लब्ध्वा तथैव स: ॥४९॥एवं शास्त्रक्रमात्त्यक्त: संशयो यै: प्रयत्नत: ॥प्राक्सिद्धं प्राप्नुवन्त्येते शर्मासंशयमात्मन: ॥५०॥गत्वोर्ध्वमपि भोगान्ते प्राप्येहौषधितो नरम् ॥स्त्रीपुंयोगाच्छुक्ररत्कमयो गर्भत्वमेत्यृतौ ॥५१॥कललं प्राक्पञ्चरात्राद्बुद्बुद: सप्तरात्रत: ॥पेशी पक्षादर्बुदोsथ भवति स्वस्तितो घन: ॥५२॥मासत्कूर: कं द्वितीये तृतीयेsस्याङ्कुरोद्भव: ॥त्वक् चतुर्थे रोमनखा: पञ्चमे मासि षष्टके ॥५३॥छिद्राणि सप्तमे चित्त्वमष्टमे धीस्तत: स्मति: ॥नालरन्ध्राप्तरसभुङ्नार्तोsपि म्रियते विधे: ॥५४॥स्तौत्यथेश भवाभीतो मोचयार्य सुदुर्गते: ॥त्वां भजेsत: परं नेदृग्गतिर्येन भवेन्मम ॥५५॥स स्तुत्वैवं सूतिवायुत्यक्तो विस्मृतलब्धधी: ॥रोरूयति जनुर्लब्ध्वा मोहितो माययेशितु: ॥५६॥अनभिप्रेतमापन्न आसनोत्थानचेष्टने ॥पराधीनतया भुङ्क्ते स व्यथां वक्तुमक्षम: ॥५७॥क्रीडासंभोगचिन्ताक्तो बाल्ययौवनर्धके ॥पुनरावर्ततेsज्ञानी ज्ञानी चेन्मुच्यतेsचिरात् ॥५८॥इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां संहितायां वासुदेव्यां उपासनाकाण्डे तृतीयाष्टके सप्तमोsध्याय: ॥७॥॥ इति श्रीदत्तपुराणे रोग्युद्धारादिकथनं नाम तृतीयाष्टके सप्तमोsध्याय: ॥३।७॥ N/A References : N/A Last Updated : May 07, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP