षष्ठं ब्राम्हणम - भाष्यं

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


श्रुति :--- त्रयं वा इदं नाम रूपं कर्म तेषां नाम्नां वागित्येतदेशहमुक्थमतो हि सर्वाणि नामान्युत्तिष्ठन्ति । एतदेषा सामैतद्धि सर्वैर्नामभि: सममेतदेषां ब्रम्हौतद्धि सर्वाणि नामानि बिभर्ति ॥१॥

अर्थ :---  नाम, रूप व कर्म, असें हें त्रय आहे. त्या नांवाचें ‘ वाक’ हें उक्थ  - कारण आहे. कारण वाक - पासूनच सर्व नांवें उत्पन्न होतात. वाक हेंच यांचें साम आहे. कारण तेंच सर्व नामांशीं सम आहे. तें यांचें ब्रम्हा - आत्मा आहे. कारण तेंच सर्व नामें करितें. ॥१॥

भाष्यं :--- यदेतदविद्याविषयत्वेन प्रस्तुतं साध्यसाधनलक्षणं व्याकृतं जगत्प्राणात्मप्राप्त्यन्तोत्कर्षवदपि फलम् । या चैतस्य व्याकरणात्प्रागवस्थाऽव्याकृतशब्दवाच्या वृक्षबीजवत । सर्वमेतत्त्रयम् । किं तत्त्रमित्युच्यते । नाम रूपं कर्म चेति ॥

भाष्यं :--- अनात्मैव नाऽऽत्मा यत्साक्षादपरोक्षादब्रम्हा । तस्मादस्माद्विरज्येतेत्येवमर्थस्त्रयं वा इत्याद्यारम्भ: । न हयस्मादनात्मनोऽव्यावृत्तचित्तस्याऽऽत्मानमेव लोकमहं ब्रम्हास्मीत्युपासितुं बुद्धि: प्रवर्तते । बाहयप्रत्यगात्मप्रवृत्त्योर्विरोधात । तथा च काठके । “पराञ्चि खानि व्यतृणत्स्वयंभूस्तस्मात्पराङपश्यति नान्तरात्मन । कश्चिद्धीर : प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन” इत्यादि ॥

भाष्यं :--- कथं पुनरस्य व्याकृताव्याकृतस्य क्रियाकारकफलात्मन: संसारस्य नामरूपकर्मात्मकतैव न पुनरात्मत्वमित्येतत्संभावयितुं शक्यत इति । अत्रोच्यते । तेषां नाम्नां यथोपन्यस्तानां वागिति शब्दसामान्यमुच्यते ॥  

भाष्यं :--- य: कश्च शब्दो वागेव सेत्युक्तत्वाद्वागित्येतस्य शब्दस्य योऽर्थ: शब्दसामान्यमात्रमेतदेषां नामविसेषाणामुक्थं कारणमुपादानं सैन्धवलवणकणानामिव सैन्धवाचलस्तदाहातो हयस्मान्नामसामान्यात्सर्वांणि नामानि यज्ञदत्तो देवदत्त इत्येवमादिप्रविभागान्युत्तिष्ठन्त्युत्पद्यन्ते प्रविभज्यन्ते लवणाचलादिव लवणकणा: । कार्यं च कारणेनाव्यतिरिक्तम । तथा विशेषाणां च सामान्येऽन्तर्भावात ॥

भष्यं :--- कथं सामान्यविशेषभाव इति । एतच्छ्ब्दसामान्यमेषां नामविशेषाणां साम समत्वात्साम सामान्यमित्यर्थ: ।  एतद्धि यस्मात्सर्वैर्नामभिरात्म विशेषै: समम । किंचाऽऽत्मलाभाविशेषाच्च नामविशेषाणाम । यस्य च यस्मादात्मलाभो भवति स तेनाप्रविभक्तो द्दष्टो यथा घटादीनां मृदा ॥

भाष्यं :--- कथं नामविशेषाणामात्मलाभो वाच इत्युच्यते । यत एतदेषां वाक्शब्दवाच्यं वस्तु ब्राम्हात्मा । ततो हयात्मलाभो नाम्नां शब्दव्यतिरिक्तस्वरू पानुपपत्ते: । तत्प्रतिपद्यतेतच्छब्दसामान्यं हि यस्माच्छब्दविशेषान्सर्वाणि नामानि बिभर्ति धारयति स्वरूपप्रदानेन । एवं कार्यकारणत्वोपपत्ते: सामान्यविशेषोपपत्तेरात्मप्रदानोपपत्तेश्च नामविशेषाणां शब्दमात्रता सिद्धा । एवमुत्तरयोरपि सर्वं जोज्यं यथोक्तम ॥

श्रुति :--- अथ रूपाणां चक्षुरित्येतदेषामुक्थमतो हि सर्वाणि रूपाण्युत्तिष्ठन्त्येतदेषा सामैतद्धि सर्वैं रूपै: सममेतदेषां ब्रम्हौतद्धि सर्वाणि रूपाणि बिभर्ति ॥२॥

अर्थ :--- आतां चक्षु हेंच रूपाचें सामान्य आहे. तेंच त्यांचें उक्थ आहे. कारण त्यापासून सर्व रूपें उत्पन्न होतात. चक्षु हेंच रूपांचें साम आहे. कारण तेंच सर्व रूपांशी सम आहे. हें रूपांचें ब्रम्हा - आत्मा आहे. कारण तेंच सर्व रूपांना धारण करितें.

भाष्यं :--- अथेदानीं रूपाणां सितासितप्रभृतीनां चक्षुरिति चक्षुर्विषयसामान्यं चक्षु:सब्दाभिधेयं रूपसामान्यं प्रकाश्यमात्रमभिधीयते । अतो हि सर्वाणि रूपाण्युत्तिष्ठन्त्येतदेशषां सामैतद्धि सर्वै रूपै: सममेतदेषां ब्रम्हौतद्धि सर्वाणि रूपाणि बिभर्ति ॥

श्रुति :--- अथ कर्मणामात्मेत्येतदेषामुक्थमतो हि सर्वाणि कर्माण्युत्तिष्ठन्त्येतदेषा सामैतद्धि सर्वैं: कर्मभि: सममेतदेषां ब्रम्हौतद्धि सर्वाणि कर्माणि बिभर्ति तदेतत्त्रय सदेकमयमात्माऽऽत्मो एक: सन्नैतत्त्रयं तदेतदमृत सत्येन च्छन्नं प्राणो वा अमृतं नामरूपे सत्यं ताभ्यामयं प्राणश्छान्न: ॥३॥


॥ इति प्रथमाध्याते षष्ठं ब्राम्हणम ॥६॥

इति बृहदारण्यकोपनिषदि प्रथमोऽध्याय: ॥१॥


N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP