विषमालंकाराः - लक्षण २

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


दिडभात्रं तूपदर्श्यते-उदाहरणम्‍-
‘ दूरीकर्तु प्रियं बाला पद्मेनाताडयद्रुषा । स बाणेन हतस्तेन तामाशु परिषस्वजे ॥ ’
अत्र प्रियदूरीकरणरूपेष्टार्थं प्रयुक्तेन पद्मताडनरूपेण कारणेन प्रिय-दूरीकरणं तु दूरापास्तम्‍, प्रत्युत तत्कर्तृकपरिष्वड्ररूपानिष्टस्योत्पत्ति: ।
यथा वा-
‘ खञ्जनदृशा निकुञ्जं गतवत्या गां गवेषयितुम्‍ । अपहारिता: समस्ता गावो हरिवदनपड्कजालोकात्‍ ॥ ’
पूर्वोदाहरणे वास्तवमेवानिष्टम्‍ , इह तु सकलेन्द्रियहरणं यद्यपि लोकेऽनिष्टप्रायमेव तथापि तत्पुरस्कारेणेह चमत्कृतिराहित्याद्नोहरणपुर-
स्कारेणैव चमत्कारात्‍ श्लेषमूलकाभेदाध्यवसाने सकलसुरभिहरणरूपानि-ष्टात्मना स्थितं तदिति विशेष: । गवेष्यमाणगवीरूपेष्टाप्राप्रेरनुक्तत्वात्‍-केवलनिष्टप्राप्तेरिदभुदाहरणम्‍, पूर्वं तूभयस्येति विशेषो न वाच्य: । समस्त-गवीहरणेन सामान्येन गवेष्यमाणाया अपि गोरपहारस्य प्रत्ययात्‍ । एवमिष्टाप्राप्त्यनिष्टप्राप्त्युभयकृता संसर्गस्याननुरूपता सामान्येनोक्ता । पूर्वोक्तचतुर्भेदाया इष्टाप्राप्ते: पूर्वोक्तत्रिभेदेनानिष्टेन संसृष्टावियमेव द्वादश-किधा । तत्र स्वस्य सुखसाधनवस्त्वप्राप्ति-दु:खसाधनवस्तुप्राप्तिरूप उभयभेदस्तावदुदाह्लत: । स्व स्यस्य दु:खसाधनवस्त्वनिवृत्ति-दु:खान्तर-साधानाप्तिरूपद्वयं यथा-
‘ रूपारुचिं निरसितुं रसयन्त्या हरिमुखेन्दुलावण्यम्‍  । सुद्दश: शिव शिव सकले जाता सकलेवरे जगत्यरुचि: ॥ ’
अत्र यद्यपि ब्रह्मदर्शनोत्तरं जातायामपि जगति वैराग्यलक्षणायामरुचौ भगवद्वदनलावण्यदर्शनाद्रूपारुचिर्विलक्षणा या काचित्सा निवृत्तैवेति वक्तुं शक्यते, तथापि जगद्रूरुचित्वेन सकलारुचीनामभेदाध्यवसायाद्रूपारुचिनिवृत्तेरप्रत्यय एव । अन्यथा सुखहेतोर्वैराग्यलक्षणाया अरुचेर्दु:खान्तर-साधनत्वं दुरुपपादं स्यादिति भवत्युभयोदाहरणम्‍ ।
परस्य दु:खसाधनानवाप्ति: स्वस्य दु:खान्तरसाधनप्राप्तिरित्युभयं
यथा-
‘ पुरो गीर्वाणानां पुलकितकपोलं प्रथयतो भुजप्रौढिं साक्षाद्भगवति शरं संमुखयितुम्‍ । स्मरस्य स्वर्वालानयनसुममालर्चितमहो वपु: सद्यो भालानलभसितजालास्पदमभूत्‍ ॥ ’
परस्य सुखसाधनाऽनिवृत्ति: स्वस्य दु:खसाधनप्राप्तिरित्युभयं यथा-
‘ न मिश्रयति लोचने सहसितं न संभाषते कथासु तव किं च सा विरचयत्यरालां भ्रुवम्‍ । विपक्षसुदृश: कथामिति निवेदयन्त्य पुर: प्रियस्य शिथिलीकृत: स्वविषयो‍ऽनुरागग्रह: ॥ ’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP