संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:| विरोधमूलालंकाराः| लक्षण २ विरोधमूलालंकाराः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ विरोधमूलालंकाराः - लक्षण २ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण २ Translation - भाषांतर उदाहरण-‘ कुसुमानि शरा मृणालजालान्यपि कालायसकर्कशान्यभूवन् । सुदृशो दहनायते स्म राका भवनाकाशमथाभवत्पयोधि: ॥ ’अत्र पुर: स्फुरन्नपि जात्यादीनां विरोधो विरहिणीदु:खजनकत्व-विमर्शनान्निवर्तते ।‘ त्वयि दृष्टे त्वया दृष्टे भवन्ति जगतीतले । महान्तोऽप्यणवो राजन्नणवश्च महत्तरा: ॥ ’खलानामुक्तयो हन्त कोमला: शीतला अपि । ह्लदयानीह साधूनां छिन्दन्त्यथ दहन्ति च ॥ ’‘ विचारिते महिमनि त्वदीये नित्यनिर्मले । परमात्मन्गगनमप्याधत्ते परमाणुताम् ॥ ’‘ हर्षयन्ति क्षणादेव क्षणादेव दहन्ति च । यून: स्मरपराधीनान्निर्दया हन्त योषित: ॥ ’‘ कान्तारे विलपन्तीनां त्वदरातिमृगीदृशाम् । देवनानि समाकर्ण्य हरिद्भिरपि चुक्षुभे ॥ ’इत्यादि स्वयमूह्यम् ।अत्र जात्यादिरिति धर्ममात्रं विवक्षितम्, उपलक्षणपरत्वात् । तेन ‘ य: किल बालकोऽपि पुराणपुरुष: ’ , विशुद्धमूर्तिरपि नीलाम्बुदनिभ: ’ , जगद्धित-कृदपि जगदहितकृत् ’ , ‘ अगोद्वारकोऽपि नागोद्धारक:’, इत्यादौ सखण्डो-पाधेरभावस्य च परिग्रह : । वस्तुतो जात्यादिभेदानामह्लद्यत्वाच्छुद्वत्वश्लेष-पूलत्वाभ्यां द्विविधो ज्ञेय: । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP