संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:| विरोधमूलालंकाराः| लक्षण १ विरोधमूलालंकाराः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ विरोधमूलालंकाराः - लक्षण १ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण १ Translation - भाषांतर अथ विरोधमूलालंकारा :--- एकाधिकरणसंबद्धत्वेन प्रतिपादितयोरर्थयोर्भासमानैकाधिकरणासंबद्धत्वम्, एकाधिकरणासंबद्धत्वभानं वा विरोध: ॥यद्व :---एकाधिकरणासंबद्धत्वेन प्रसिद्धयोरेकाधिकरणसंबद्धत्वेन प्रतिपादनं स: ॥स च प्ररूढोऽप्ररूढश्च । प्ररोहश्च बाधबुद्धयनभिभूतत्वम् । तद्वैपरीत्यप्ररोह: । तत्राद्यो दोषस्य विषय:, द्वितीयश्वालंकारस्य । अत एवेमं विरो-धाभासमाचक्षते । आ ईषद्भासत इत्याभास: । विरोधश्चासावाभास-श्चेति । आमुख एव प्रतीयमानो झगिति जाय्यमानाविरोधबुद्धितिरस्कृत इति यावत् । तत्रापि कार्यकारणादिबुद्धयनालीढो विरोधाभासो विरोधा-प्ररोह: । तत्राद्यो दोषस्य विषय:, द्वितीयश्चालंकारस्य । अत एवेमं विरो-धाभासमाचक्षते । आ ईषद्भासत इत्याभास: । विरोधश्चासावाभास-श्चेति । आमुख एव प्रतीयमानो झगिति जायमानाविरोधबुद्धितिरस्कृत इति यावत् । तत्रापि कार्यकारणादिबुद्धयनालीढो विरोधाभासो विरोधालंकार: । तदालीढस्तु विभावनादिर्वक्ष्यमाण: । अस्य च जातिगुणाक्रिया-द्रव्यानां पदार्थानां मध्ये जातेर्जातिगुणक्रियाद्रव्यै:, गुणस्य गुणक्तिया-द्रव्यै:, क्रियाया: क्रियाद्रव्याभ्याम्, द्रव्यस्य द्रव्येणेत्यपुनरुक्ता दश भेदा: । क्रिया चात्र न वैयाकरणानामिव शुद्धा भावना । नापि नैयायिकानामिव स्पन्दरूपा । किं तु तत्तद्धातुवाच्या विशिष्टव्यापाररूपा । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP