व्याजस्तुति अलंकारः - लक्षण ४

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अत्र पूर्वोत्तरार्धगताभ्यां ध्यातृस्तुतिनिन्दाभ्यां ध्येयस्तुतिनिन्दयोरव-गम: । एवं स्थिते कुवलयानन्दकर्त्रा स्तुतिनिन्दाभ्यां वैयधिकरण्येन निन्दा-स्तुत्यो: स्तुतिनिन्दयोर्वावगमे प्रकारचतुष्टयं व्याजस्तुतेर्यदधिकमुक्तं तदपा-स्तम्‍ । यदि तु प्राचीनसंकेतसेतुं निर्भिद्य स्वरुचिरमणीया सरणिराद्रियते तदा निवेश्यन्तां सर्वेऽपि व्यड्रयप्रकारा गुणीभूतव्यड्रप्रकारा वा अलंकारोदरेषु । निवेश्यतां वा व्याजस्तुतिरपि योगार्थालीढत्वादप्रस्तुत-प्रशंसायाम्‍ । निरस्यतां च कार्यकारणादिविषयकत्वदुराग्रहस्तस्या इति बहुव्याकुली स्यात्‍ । एवं तर्हि पूर्वोक्तं प्रकारचतुष्टयं कुत्रान्तर्भवतु ? इति
चेत्‍ , व्यड्रयभेदेष्विति गृहाण । नहि व्यड्रयभेदा: सर्वे‍ऽप्यपरिमिता अलंकारप्रकारगोष्पदे अन्तर्भावयितुं शक्यन्ते । यच्चापि कुवलयानन्दकृता निन्दाया गम्यत्वे उदाह्लतम्‍-
“-‘ अर्धं दानववैवरिणा गिरिजयाप्यर्धं शिवस्याह्लतं देवेत्थं जगतीतले स्मरहराभावे समुन्मीलति । गड्रा सागरमम्बरं शशिकला नागाधिप: क्ष्मातलं सर्वज्ञत्वमधीश्वरोऽसीति राज्ञ: स्तुत्या व्याजरूपया मदीयवैदुष्यादि
दारिद्य्रादि जानन्नदि बहुप्रदानेन रक्षितुं शक्तो मह्यं किमपि न ददासीति निन्दा व्यज्यते ” इत्युक्तं च । तन्न ।
‘ साधु दूति पुन: साधु कर्तव्यं किमत: परम्‍ । यन्मदर्थे विलूनासि दन्तैरपि नखैरपि ॥ ”
इत्यनुपदमेव त्वदुदाह्लतपद्येनास्यातितमां वैलक्षण्यात्‍ । तत्र हि साधु किमत: पर्म कर्तव्यमिति वर्णैरुदीरिता साधुकारिणीत्वरूपा स्तुति: श्रुत- मात्रैव बाधिता सती विपरीतेऽर्थे स्वात्मसमर्पणेन पर्यवस्यति । इह तु सर्व-ज्ञत्वमधीश्वरत्वं न तथा । राजवर्णनप्रस्तावे राजगताऽज्ञत्वपामरत्वयोर-
विवक्षितत्वात्‍ । अत एव सर्वज्ञो‍ऽपि मां न रक्षितवानसि इत्युपालम्भरूपापि निन्दा नात्र विवक्षिता । सर्वज्ञस्य समर्थस्य तव दरिद्रोऽहं रक्षितुं योग्य इति स्वविज्ञापनाया एव प्रत्युत विवक्षितत्वात्‍ । अस्तु वा त्वदुक्तोपालम्भ-रूपा निन्दात्र गम्या । तुष्यतु भवानेवमपि । ‘ साधु दूति पुन: साधु ’ इति पद्ये साधुकारिणीत्वमिव नास्मिन्पद्ये सर्वज्ञत्वमधीश्वरत्वं च विद्युद्‍-भडुरप्रतिभमिति शक्यं वक्तुम्‍ । उपालम्भरूपाया निन्दाया अनुत्थानापत्ते:प्रतीतिविरोधाच्चेति सह्लदयैराकलनीयं किमुक्तं द्रविडपुंगवेनेति ।

इति रसगंगाधरे व्याजस्तुतिप्रकरणम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP