व्याजस्तुति अलंकारः - लक्षण १

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अथ व्याजस्तुति:-
आमुखप्रतीताभ्यां निन्दास्तुतिभ्यां स्तुतिनिन्दयो: क्तमेण पर्यवसानं व्याजस्तुति: ।
तृतीयातत्पुरुष-कर्मधारयाभ्यां योगार्थद्वयेन द्वयोरपि शब्दार्थत्वम्‍ । आमुखेत्यादिविशेषणेन तयो: पर्यवसानाभावं वदन्बाधितत्वमभिप्रैति ।
अत एव नास्या ध्वनित्वम्‍ । ध्वनौ हि निर्बाधेन वाच्येनाऽऽगूरणमहिम्रा-र्थान्तरमवगभ्यते । न चैवं प्रकृते ।
आद्या यथा-
उर्वीं शासति मय्युपद्रवलव: कस्यापि न स्यादिति । प्रौढं व्याहरतो वचस्तव कथं देव प्रतीमो वयम्‍ । प्रत्यक्षं भवतो विपक्षनिवहैर्द्यामुत्पतद्भि: क्रुधा यद्युष्मत्कुलकोटिमूलपुरुषो निर्भिद्यते भास्कर: ॥ ’
अत्र राजवर्णनप्रस्तावे निन्दा बाधिता स्तुतौ पर्यवस्यति ।
द्वितीया यथा-
‘ किमहं वदामि खल दिव्यमते गुणपक्षपातमभितो भवत: । गुणशालिनो निखिलसाधुजनान्यदहर्निशं न खलु विस्मरसि ॥’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP