पर्यायोक्त अलंकारः - लक्षण ६

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


तदुभयोदासीनेन यथा-‘ सूर्याचन्द्रमसौ यस्य-’ इति पूर्वोदाह्लते पद्ये सूर्यचन्द्रकररज्यमानवस्त्रत्वेन न कार्येण, नापि कारणेन, केवलं सहचरितेन गगनाम्बरत्वं गम्यते । एवम्‍-
‘ यश्चरणत्राणीकृतकमलासनपन्नगेन्द्रलोकयुग: । सर्वाड्रावरणपटीकृतकनकाण्ड: स वामनो जयति ॥ ’
इत्यत्र च्विप्रत्ययेन तद्भेदावगमादूपकासंभवेन पर्यायोक्तं भवितुमहेति । गम्यं चान्तर्व्याप्तचरणकत्वमन्तर्व्याप्ताड्रकत्वं च ।
तदेवं संक्षेपतस्त्रिविध: । वाग्भड्रीनां तु पर्यालोचनो एकस्मिन्नेव विषयेऽनन्तप्रकार: संपद्यते, किभुत विषयभेदे । यथा-‘ इह भवद्भिराग-
न्तव्यम्‍ ’ इति विषये ‘ अयं देशोऽलंकर्तव्य: ’ इति, ‘ पवित्रीकर्तव्य: इति, ‘ सफलजन्मा कर्तव्य: ’ इति, ‘ प्रकाशनीय: ’ इति, ‘ देशस्यास्य भाग्यान्यु ज्जीवनीयानि ’ इति , ‘ तमांसि तिरस्करणीयानि ’ इति, ‘ अस्मन्नयनयो: संतापो हरणीय: ’ इति, ‘ मनोरथ: पूरणीय: ’ इत्यादि: । कार्यादीनां त्वारोपेण निष्पत्तिरन्वेष्टव्या ।
एवं च पर्यायोक्तस्य कार्यरूपाप्रस्तुतप्रशंसया विषयापहारमाशड्कय कार्यकारणयोरपि प्रस्तुतत्वे पर्यायोक्तम्‍, कार्यस्याप्रस्तुतत्वे कारणस्य च प्रस्तु-तत्वे कार्यरूपाप्रस्तुतप्रशंसेति विषयविवेक: सर्वस्वकृता कृत: । तत्र न्यून-
विषयया कार्यरूपाप्रस्तुतप्रशंसया बहुविषयस्यास्य विषयापहारो न सड्रच्छत एव । परं त्वनेन तस्या विषयापहारमाशड्कय विषयविभाग: कर्तुमुचित: ।

इति रसगंगाधरे पर्यायोक्तप्रकरणम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP