पर्यायोक्त अलंकारः - लक्षण २

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


तस्यायमाशय:-
‘ चक्ताभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य । आलिड्रनोद्दामविलासवन्ध्यं रतोत्सवं चुम्बनमात्रशेषम्‍ ॥ ’
इति प्राचीनपद्ये राहुशिरश्छेदकारीति व्यड्रयं राहुवधूजनसंबन्धिचुम्बन-मात्रावशिष्टरतोत्सवनिर्मातृत्वेन रूपेण प्रकारान्तरेणाभिधीयत इत्यस्यापि
विवेचने क्तियमाणे राहुशिरश्छेदकर्तृत्वरूपो धर्म: स्वसमानाधिकरणेन तादृशरूपान्तरेण साक्षादुपात्तेन गम्यत इत्येव पर्यवस्यति । भगवतस्तु पूर्वप्रकान्तत्वाद्यच्छब्देनाभिहितत्वाच्च न व्यड्रयत्वम्‍ ।
एवम्-
‘ यं प्रेक्ष्य चिररूढापि निवासप्रीतिरुज्झिता । मदेनैरावणभुखे मानेन ह्लदये हरे: ॥ ’
इति प्राचीनपद्ये‍ऽपि शक्रैरावणै मानमदमुक्तौ जाताविति व्यड्रयमपि मानमदमोकमात्रस्य व्यड्रयत्वे पर्यवस्यति, धर्म्यंशस्याभिधागोचरत्वात्‍ । एवं च यो व्यड्रयांश: स न कदापि रूपान्तरपुरस्कारेणाभिधीयते, यश्चा-भिधीयते धर्मी स तु तदानीमभिधाश्रयत्वाव्द्यञ्जनव्यापारानाश्रय एवेति व्यड्रयस्य प्रकारान्तरेणाभिधानमसंगतमेव । तस्मात्कार्यादिमुखेनोक्तमिव पर्यायोक्तम्‍ । तेनाक्षिप्तमित्येवार्थ: । प्राचीनैर्धर्मिणो‍ऽपि यव्द्यड्रयत्वमुक्तं
तद्वैयञ्जनिकबोधविषयस्य समस्तवाक्यार्थस्यैव व्यड्रयत्वमित्यभिप्रायेण । तत्र च विवेके क्तियमाणे केचिदभिधामात्रस्य गोचरा: पदार्था: , केचिच्च व्यक्तिमात्रगोचरा इति ।
अभिनवगुप्तपादाचार्यास्तु-‘ पर्यायेण वाच्यादतिरिक्तप्रकारेण व्यड्रये-नोपलक्षितमुक्तमभिहितं पर्यायोक्तम्‍ ’ इति योगार्थं लक्षणं चाहु: । तेषामयमाशय:- यदि पर्यायशब्देन प्रकारान्तरं धर्मान्तरमुच्यते तदा विवक्षितार्थतावच्छेदकातिरिक्तधर्मपुरस्कारेणाभिहितमिति योगार्थ:स्यात्‍ । तथा च ‘ दशवदननिधनकारी दादारथि: पुण्डरीकाक्ष: ’ इत्यादौ रामत्वातिरिक्तधर्मपुरस्कारेण रामस्यैवाभिधानात्पर्यायोक्तप्रसड्र: ।
न च व्यड्रयं तत्र तेन प्रकारेणोक्तं तप्तर्यायोक्तमिति वाच्यम्‍ । व्यड्रयस्य योगार्थानन्तर्गतत्वात्‍ । न च योगार्थान्तर्गतत्वेऽपि लक्षणान्तर्गतत्वं तस्येति वाच्यम्‍ । एवं तर्हि व्यड्रयस्य लक्षणप्रवेशावश्यकत्वे पर्यायशब्देन व्यड्रयस्यैव ग्रहीतुमुचितत्वात्‍ । व्यड्रयेन ह्युपलक्षित-मुक्तं प्रकारान्तरेणैव भवतीति प्रकारान्तरग्रहणं नात्यावश्यकमिति । अत एवास्माभिराक्षेपो वेति पक्षान्तरमप्युक्तम्‍ । इदं पुनरवशिष्यते-‘ वापीं स्नातुमितो गातासि न पुनस्तस्याधमस्यान्तिकम्‍ ’ इति सकलप्रसिद्धध्वन्यु-दाहरणेऽधमनिकटगमननिषेधरूपेण तन्निकटगमनविशिष्टाया:, अधम-
त्वेन रूपेण वा दूतीसंभोगकर्तुरभिधानात्पर्यायोक्तप्रसंग: प्राचीनपक्ष इवास्मिन्नपि पक्षे भवति । स च व्यड्रयविशेषग्रहणेन तैरिवैतैरपि निरसनीय: । मध्यस्थपक्षे तु नेदमपि दूषणम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP