संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|अप्रस्तुतप्रशंसालंकारः| लक्षण २ अप्रस्तुतप्रशंसालंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ अप्रस्तुतप्रशंसालंकारः - लक्षण २ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण २ Translation - भाषांतर यथा वा-‘ पुरा सरसि मानसे विकचसारसालिस्खल-त्परागसुरभीकृते पयसि यस्य यातं वय: ।स पल्वलजलेऽधुना मिलदनेकभेकाकुले मरालकुलनायक: कथय रे कथं वर्तताम् ॥ ’श्लिष्टविशेषणाप्येषा दृश्यते-नितरां नीचोऽस्मीति त्वं खेदं कूप मा कदापि कृथा: । अत्यन्तसरसह्लदयो यत: परेषां गुणग्रहीतासि ॥समासोक्तिरत्रानुग्राहिकेति तु न वक्तव्यम् । तस्या: प्रकृतालंकारवि-रुद्धात्मिकात्वेनानुग्राहिकात्वायोगात् । यत्तु “-‘ येनास्यभ्युदितेन चन्द्र गमित: क्लन्तिं रवौ तत्र ते युज्येत प्रतिकर्तृमेव न पुनस्तस्यैव पादग्रह; ’इत्यत्र समासोक्तेरनुग्राहिका ” इति मम्मटभट्टैरुक्तं तत्र विचार्यते-अत्र विशेषणसाम्यमहिम्ना प्रतीयमान: कापुरुषवृत्तान्त: किं प्रस्तुत आहोस्वि-दप्रस्तुत: ? । आद्ये समासोक्तेर्विषय एव नास्ति । ‘ परोक्तिर्भेदकै: श्लिष्टै: समासोक्ति: ’ इति समासोक्तेर्लक्षणस्य तैरेवाभिधानात् । परस्या-प्रकृतस्येति तदर्थात् । द्वितीयेऽप्रस्तुतप्रशंसाया नास्ति विषय:, ‘ अप्रस्तुत-प्रशंसा सा या सैव प्रस्तुताश्रया ’ इति तल्लक्षणात् । प्रस्तुत आश्रय:प्रधानं यस्या इति तदर्थात् । तस्माच्छ्ळिष्टविशेषणोपक्षिप्तद्वितीयार्थमात्रं समासोक्तिरित्यभिप्रायेण यथाकथंचित्संगमनीयम् ।इयं च सादृश्यमूलाप्रस्तुतप्रशंसोच्यते । अस्यां च वाक्यार्थ: क्कचित्प्त-तीयमानार्थताटस्थ्येनैवावतिष्ठते-यथोक्तोदाहरणेषु । क्कचिच्च स्वगतवि-शेषणान्वययोग्यतामासादयितं प्रतीयमानाभेदमपेक्षते । यथा-‘ सभुपागतवति दैवादवहेलां कुटज मधुकरे मा गा: । मकरन्दतुन्दिलानामरविन्दानामयं महामान्य: ॥ ’ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP