अप्रस्तुतप्रशंसालंकारः - लक्षण १

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अप्रस्तुतेन गम्येन वाच्यस्य प्रस्तुतस्योपस्करणे समासोक्तिरुक्ता । तद्वैपरीत्येनाप्रस्तुतप्रशंसोच्यते--
अप्रस्तुतेन व्यवहारेण सादृश्यादिवक्ष्यमाणप्रकारान्यतमप्रकारेणा-प्रस्तुतव्यवहारो यत्र प्रशस्यते साप्रस्तुतप्रशंसा ॥
प्रशंसनं च वर्णनमात्रम्‍ , न तु स्तुति: । ‘ धिक्तालस्योन्नततां यस्य च्छायापिनोपकाराय । ’ इत्यादावव्याप्त्यापत्ते: ।
इयं च पञ्चधा-अप्रस्तुतेन स्वसदृशं प्रस्तुतं गम्यते यस्यामित्येका । कार्येण कारणमित्यपरा । कारणेन कार्यमिति तृतीया । सामान्येन विशेष इति चतुर्थी । विशेषण सामान्यमिति पञ्चमी ।
आद्या यथा-
‘ दिगन्ते श्रूयन्ते मदमलिनगण्डा: करटिन: करिण्य: कारुण्यास्पदमसमशीला:खलु मृगा: ।
इदानीं लोकेऽस्मिन्ननुपमशिखानां पुनरयं नरवानां पाण्डित्यं प्रकटयतु कस्मिन्मृगपति: ॥ ’
यथा वा-
‘ यस्मिन्खेलति सर्वत: परिचलत्कल्लोलकोलाहलै-र्मन्थाद्रिभ्रमणभ्रमं ह्लदि हरिद्यूथाधिपा: पेदिरे । सोऽयं तुड्र तिमिड्रिलाड्रगिलनव्यापारकौतूहल: क्रोडे क्रीडतु कस्य केलिरभसत्यक्तार्णवो राघव: ॥ ’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP