संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:| निदर्शनालंकारः| लक्षण १ निदर्शनालंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ लक्षण ७ लक्षण ८ निदर्शनालंकारः - लक्षण १ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण १ Translation - भाषांतर अथ निदर्शना-उपात्तयोरर्थयोरार्थाभेद औपम्यपर्यवसायी निदर्शन ॥अतिशयोक्त्यादीनां ध्वन्यमानरूपकस्य च वारणाय उपात्तयोरिति । वाच्यरूपकवारणाय आर्थ इति । आर्थत्वं च प्राथमिकान्वयबोधा-विषयत्वम् । यदि च विशिष्टोपमायां विशेषणयोरभेद: प्रतीयते तदा बिम्बप्रतिबिम्बभावानापन्नत्वमपि प्रधानविशेषणम् । तद्विशेषणानां तुबिम्बप्रतिबिम्बभावो न निवार्यते । इदं च श्रौत्या निदर्शनाया लक्षणम् । आर्थीसाधारणं लक्षणं तु ललितालंकारप्रकरणे वक्ष्यते ।उदाहरणम्-‘ वामन्तरात्मनि लसन्तमनन्तमज्ञा-स्तीर्थेषु हन्त मदनान्तक शोधयन्त: । विस्मृत्य कण्ठतटमध्यपरिस्फुरन्तं चिन्तामणिं क्षितिरज:सु गवेषयन्ति ॥ ’अत्र तवान्यत्र परिशोधनं कण्ठस्थस्य चिन्तामणेर्भूपांसुषु गवेषणं चाभिन्नमिति तत्सादृश्यमूला धी: ।यथा वा-‘ अन्यै: समानममरैर्जगदन्तरात्म-न्ये चन्द्रशेखर वदन्ति भवन्तमज्ञा: । ते किं न हन्त तुलयन्ति नभो निरन्तं वातायनोदरगतैर्विवरान्तरालै: ॥ ’ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP