दीपक अलंकारः - लक्षण ३

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.

Tags :

अत्रालिड्रनाद्यनेकक्रियाकर्तृत्वेनैक एव जनो निर्दिष्ट इति । ” तदपि चिन्त्यम्‍ । आलिड्रनादीनां क्रियाणां मन्दादरत्वेनैकाश्रयकत्वस्यावश्यक-त्वेऽपि परस्परमेकाश्रयकत्वस्यानावश्यकत्वात्‍ । य: शशिमुखीमालिड्रितुं यश्च सुधां पातुं योऽपि कीर्तिं साधयितुं यश्च लक्ष्मीमर्जयितुं यश्चापि त्वद्‍-भक्तिं कर्तुं मन्दादरस्तं सर्वमपि जनं पशुं मन्ये इति तुमुन्नन्तानां भिन्नकर्तृ-
त्वे‍ऽप्युपपत्तेरेककारकान्वयकृतं क्रियाणामौपम्यं चमत्कारीति न शक्यते वक्तुम्‍ । किं तु शशिमुखीसुधाकीर्तिलक्ष्मीत्वद्भक्तीनां बिम्बप्रतिबिम्बभाव-कृतम्‍ । नापि चात्रैककर्तृत्वे काचिदर्थस्यास्ति परिपुष्टि: । प्रत्युत प्राति-कूल्यम्‍ । सर्वेषां पशुत्वोक्त्यपेक्षया सकलतादृशक्तियाकरणमन्दादरस्यैकस्य पशुत्वोक्तेररमणीयत्वात्‍ । यदि तु विमर्शिनीकारोक्तिरवश्यं समर्थनीयेत्या-ग्रहस्तदेत्थं समर्थ्यताम्‍-क्तियाणां कर्तुरेकत्वाभावेऽपि कर्तृतावच्छेदकस्य मन्दादरत्वस्यैक्यात्तस्यैव च परम्परासंबन्धेनानेकक्रियासाधारणधर्मस्य
सकृद्‍वृत्तिरस्तीति न दोष: । कारकस्येव कारकविभाजकोपाध्यवच्छेदकस्यापि सकृद्‍वृत्ते: कारकदीपकत्वेन परिभाषितुं शक्यत्वात्‍ । कारकसकृद्‍वृत्तेस्त्व-स्माभिरुक्तमेवोदाहरणमनुसर्तव्यम्‍ ।
अत्रेदं बोध्यम्‍-तुल्ययोगितातो दीपकं न पृथग्भावमर्हति, धर्मसकृद्‍-वृत्तिमूलाया विच्छित्तेरविशेषात्‍ । विच्छित्तिवैलक्षण्यस्यैवालंकारविभागहेतु-त्वात्‍ । न च धर्मस्य सकृद्‍वृत्तेरविशेषे‍ऽपि धर्मिणां प्रकृतत्वाप्रकृतत्वाभ्यां
ग्रकृताप्रकृतत्वेन च तुल्ययोगिताया दीपकस्य विशेष इति वाच्यम्‍ । तवापि तुल्ययोगितायां धर्मिणां केवलप्रकृत्वस्य केवलाप्रकृतत्वस्य च विशेषस्य सत्त्वादलंकारद्वैतापत्ते: । श्लेषे‍ऽपि द्वैतापत्तेश्च । सर्वेषामप्य-लंकाराणां प्रभेदवैलक्षण्याद्वैलक्षण्याद्वैलक्षण्यापत्तेश्च । न च दीपके वास्तवमौपम्यं गम्यम्‍, उपमानोपमेययो: प्रकृताप्रकृतरूपयोस्तत्र सत्त्वात्‍ । तुल्ययोगि-तायां च वैवक्षिकम्‍, उपमानोपमेयस्वरूपाभावात्‍ । अतो वैलक्षण्यमिति वाच्यम्‍ । उपमेयोपमानत्वयो: प्रकृताप्रकृतरूपत्वे मानाभावात्‍ । ‘ खमिव
जलं जलमिव खम्‍ ’ इत्याद्युपमेयोपमायां प्रतीपे चौपम्यानापत्तेश्च । तस्मा-त्तुल्ययोगिताया एव त्रैविष्यमुचितम्‍ । प्रकृतानामेव धर्मस्य सकृद्‍वृत्ति: , अप्रकृतानामेव, प्रकृताप्रकृतानां चेति । एवं च प्राचीनानां तुल्ययोगितातो दीपकस्य पृथगलंकारतामाचक्षाणानां दुराग्रहमात्रमिति नव्या: ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP