संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|दीपक अलंकारः| लक्षण १ दीपक अलंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ दीपक अलंकारः - लक्षण १ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammer लक्षण १ Translation - भाषांतर अथ दीपकम्-प्रकृतानामप्रकृतानां चैकसाधारणधर्मान्वयो दीपकम् ॥प्राग्वदेवात्राप्यौपम्यस्य गम्यत्वम् । प्रकृतार्थमुपात्तो धर्म: प्रसड्रादप्र-कृतमपि दीपयति प्रकाशयति सुन्दरीकरोतीति दीपकम् । यद्वा दीप इव दीपकम्, संज्ञायां कन् । दीपसादृश्यं च प्रकृताप्रकृतप्रकाशकत्वेन बोध्यम् ।उदाहरणम्-‘ अमृतस्य चन्द्रिकाया ललितायाश्चापि कविताया: । सुजनस्य च निर्माणं जनयति नहि कस्य संतोषम् ॥ ’यथा वा-‘ सुधायाश्चन्द्रिकायाश्च संजीविन्या महौषधे: । दयादृष्टेश्च ते राजन्विश्वसंजीवनं गुण: ॥ ’यथा वा-‘ मृतस्य लिप्सा कृपणस्य दित्सा विमार्गगायाश्च रुचि: स्वकान्ते । सर्पस्य शान्ति: कुटिलस्य मैत्री विधातृसृष्टौ नहि दृष्टपूर्वा ॥’अत्राभाव: साधारणो धर्म:कस्यचित्प्रकृतत्वे दीपकम्, अन्यथा तुल्ययोगितैव । यत्र क्रिया साधारणो धर्मस्तत्र यावतां कर्त्रादिकारकाणां संनिधानं तेषां स्वसजातीये-नान्येन सह तुल्ययोगिता, दीपकं वा पृथक्पृथग्भवति, औपम्यस्यापि पृथगेव भासमानत्वात् ।यथा-‘ सुजना: परोपकारं शूरा: शस्त्रं धनं कृपणा: । कुलवत्यो मन्दाक्षं प्राणात्यय एव मुञ्चन्ति ॥ ’ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP