अतिशयोक्ति अलंकारः - लक्षण ५

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.

Tags :

यदपि तैरेवोक्तम्‍-
‘ संबन्धातिशयोक्ति: स्यादयोगे योगकल्पनम्‍ । सौधाग्राणि पुरस्यास्य स्पृशन्ति विधुमण्डलम्‍ ॥ ’ इति । तदपि न । अत्रैव ‘ स्पृशन्तीवेन्दुमण्डलम्‍ ’ इति कृते कोऽलंकार: ? उत्-प्रेक्षेति चेत्‍, तर्हिवादेरभावाद्नम्योत्प्रेक्षेयमुचिता । इवादिसत्त्वे या वाच्यो-त्प्रेक्षा सैवेवाद्यभावे गम्योत्प्रेक्षेति नियमस्य सर्वसंमतत्वात्‍ । ‘ त्वक्ती-र्तिभ्रमणश्रान्ता विवेश स्वर्गनिम्नगाम्‍ ’ इति त्वदुक्तगम्योत्प्रेक्षाया: ‘ सौधाग्राणि ’ इत्यस्य चोत्प्रेक्षांशे विशेषानुपलम्भात्‍ । तथा हि ‘ त्वत्कीर्तिर् ०’ इत्यादौ बहुदूरगमने स्वर्गगमने वा स्वर्गड्राप्रवेशतादात्म्योत्प्रेक्षेति नये
स्वर्गसंबन्धित्वरूपानुपात्तधर्मनिमित्तेयम्‍ । कीर्तै स्वर्गड्राकर्मकप्रवेशकर्तृ-त्वोत्प्रेक्षेति नये तादृशगमनरूपानुपात्तधर्मनिमित्ता । विशेषणीभूतभ्रमण-श्रान्तत्वरूपहेतूत्प्रेक्षेति नये तु तादृग्गमनतादात्म्याध्यवसितस्वर्गड्रा-प्रवेशरूपोपात्तधर्मनिमित्तेति सर्वथा गम्यैव । ‘ सौधाग्राणि-’ इत्यत्र परमो-र्ध्वदेशसंयोगे चन्द्रमण्डलस्पर्शतादात्म्योत्प्रेक्षायां परमोर्ध्वदेशवृत्तित्व-रूपानुपात्तधर्मनिमित्ता । तादृशस्पर्शकर्तृत्वोत्प्रेक्षायां तु परमोर्ध्वदेशसंयोग-रूपानुपात्तधर्मनिमित्तेति इयमपि गम्योत्प्रेक्षैव । तस्मादुत्प्रेक्षासामग्री यत्र नास्ति तादृशभुदाहरणमुचितम्‍ । यथास्मदीयं ‘ धीरध्वनिभिर- ’ इत्यादि । सुन्दरत्वे सत्युपस्कारकत्वमलंकारसामान्यलक्षणमिहापि न विस्मरणीयम्‍ ।
इयं चातिशयोक्तिर्वेदेऽपि दृश्यते । यथा-
‘ द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्य: पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ॥’
स्मृतौ च--
‘ या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुने: ॥’
अथास्या ध्वनि:-
‘ देव त्वद्दर्शनादेव लीयन्ते पुण्यराशय: । किं चादर्शनत: पापमशेषमपि नश्यति ॥’
पुण्यपापयो: सुखदु:खभोगमात्रनाश्यतया दर्शनाऽदर्शनाभ्यां तज्जन्य-सुखदु:खयो राश्यशेषशब्दाभ्यां च जन्मशतोपभोग्ययोस्तयोरेवाक्षेपाद-ग्रिमाभ्यां पूर्वयोर्निगरणं व्य ज्यते । न च पूर्वाभ्यामग्रिमयोरेव निगरणं किं न स्यात् , इति वाच्यम्‍ । नाशोक्तिसामञ्जस्याय नाशकतावच्छेदकाव-
च्छिन्नत्वेन प्रत्ययस्यावश्यकतया तन्निगरणासंभवात्‍ । उपमानेन महता क्षुद्रस्योपमेयस्य महत्त्वाधानाय निगरणस्यौचित्याच्च । एतेन ‘ तदप्राप्ति-महादु:ख-’ इत्यादिकाव्यप्रकाशो व्याख्यात: ।

इति रसगंगाधरेऽतिशयोक्तिप्रकरणम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP