संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:| परिणामालंकारः| लक्षण ७ परिणामालंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ लक्षण ७ लक्षण ८ परिणामालंकारः - लक्षण ७ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण ७ Translation - भाषांतर तिलकिने-’ इति प्रागुक्ताप्पयदीक्षितदत्तोदाहरणे, ‘ वचोभिरुपायनं चकार-’ इत्यलंकारसर्वस्वोदाहरणे च बोध्या । यदि पुनरारोप्यमाणे यथा-कथंचिद्विषयाभेदप्रत्ययमात्रात्परिणामतोच्यते, नाद्रियते च प्रकृतोपयोग-स्तदा ‘ प्रवृत्तोऽस्या: सेक्तुं ह्लदि मनसिज: प्रेमलतिकाम् ’ इति तदुदाह्लत-रूपकस्य परिणामतापत्ति:, प्रेमलतिकामिति समासे प्रेम्णो विषयस्य लतिकायामारोप्यमाणायामभेदेन विशेषणत्वादिति दिक् । अथ परिणामध्वनिर्विचार्यते-तत्र यत्तावदप्पयदीक्षितैर्विद्याधरोक्तं ध्वन्युदाहरणमनूद्य दूषितम्-“ तथाहि-‘ नरसिंह धरानाथ के वयं तव वर्णने । अपि राजानमाक्तम्य यशोयस्य विजृम्भते ॥’==अत्र राजपदेन चन्द्रे विषये निर्दिष्टे तत्रारोप्यमाणस्य नृपस्याक्तमणरूप-कार्योपयोगिन: प्रतीते: परिणामो व्यज्यते इति, तदयुक्तम् । तत्र ह्यारोप्य-माणस्य नृपस्य नृपात्मनैवाक्तमणोपयोग: , न चन्द्रात्मना ” इति ॥ तदसत् । अत्र विजृम्भणं नाम न केवलं प्रागल्भ्यमात्रं कवेरभिप्रेतम्, येन यश: कर्तृकाक्रमणे नृपस्य नृपात्मनैव कर्मतारूप उपयोग: स्यात् । अपि तु निर-तिशयनैर्मल्यगुणवत्तायां स्वसमानजातीयद्वितीयराहित्यप्रयुक्त: प्रौढिवि-शेष: । आक्रमणं तु न्यग्भाव एव । एवं चैवंविधविजृम्भणे चन्द्रकर्मकमे-वाक्तमणमुपयुज्यते, न तु नृपकर्मकमिति विषयितया व्यज्यमानस्यापि नृपस्य चन्द्रात्मनैवाक्रमणोपयोग इति रमणीयमेव विद्याधरेणोक्तं परिणामव्यड्रयतायामुदाहरणम् । यदपि तैरेव परोक्तिं दूषयित्वा स्वयं परिणामस्य व्यड्रयतायामुक्तम्-“-‘ चिराद्विषहसे तापं चित्त चिन्तां परित्यज । नन्वस्ति शीतल: शौरे: पादाब्जनखचन्द्रमा: ॥’ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP