संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:| परिणामालंकारः| लक्षण ४ परिणामालंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ लक्षण ७ लक्षण ८ परिणामालंकारः - लक्षण ४ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण ४ Translation - भाषांतर ‘ दासे कृतागसि भवत्युचित: प्रभूणां पादप्रहार इति सुन्दरि नास्मि दूये । उद्यत्कठोरपुलकाड्कुरकण्टकाग्रै-र्यत्खिद्यते तव पदं ननु सा व्यथा मे ॥’इति तदुदाह्लतरूपकोदाहरणे आरोप्यमाणानां कण्टकानां प्रकृतखेदव्यथा-रूपकार्ये उपयोगेनातिप्रसड्रात् । न द्वितीय: ।‘ अथ पक्त्रिमतामुपेयिवद्भि: सरसैर्वक्त्रपथाश्रितैर्वचोभि: । क्षितिभर्तुरुपायनं चकार प्रथमं तत्परतस्तुरंगमाद्यै: ॥’इत्यत्र स्वोक्तव्यधिकरणपरिणामोदाहरणासंगत्यापत्ते: । यतो राजसंघटने ह्युपायनस्यारोप्यमाणस्य स्वात्मनैवोपयोग:, न तु विषयवचोरूपतया । वचसां तु विषयाणामारोप्यमाणोपायनरूपत्वेन परमुपयोग इति प्रत्युत विपरीतम् । तस्मादस्मदुक्तमेव व्यधिकरणपरिणमस्योदाहरणं साधु । इदं तु पुनर्व्यधिकरणरूपकं भवितुमर्हति । तृतीयार्थाभेदोऽपि मीनवती नयनाभ्यामित्यत्रेव प्रकृत्यर्थानुयोगिको बोध्य: । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP