उपमेयोपमा अलंकारः - लक्षण ३

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अत्रापारत्वादिर्व्यज्यमानो धर्म: । एषा सर्वापि स्फुटे वाक्यभेदे प्रपञ्चिता । आर्थे तु वाक्यभेदे-

‘ अभिरामतासदनमम्बुजानने नयनद्वयं जनमनोहरं तव । इयति प्रपञ्चविषयेऽपि वैधसे तुलनामुदञ्चति परस्परात्मना ॥’

अत्र परस्परात्मना तुलनामुदञ्चतीति संक्षिप्ताद्वाक्यादिदमेतेनैतच्चानेन तुलनामुदञ्चतीति वाक्यद्वयं विचारकमुल्लसति । एवं पूर्णालुप्तादयोऽप्यस्या उपमाया इव प्रायश: सर्वेऽपि भेदा: संभवन्ति । ते चामुयैव दिशा सुबु-द्धिभिरुन्नेतुं शक्या इति नेह निरूप्यन्ते ।

चित्रमीमांसाकृतस्तु प्राचीनं लक्षणमव्याप्त्यतिव्याप्त्यादिभिर्दूषयित्वा
 
‘ अन्योन्येनोपमा बोध्या व्यक्त्या वृत्त्यन्तरेण वा । एकधर्माश्रया या स्यात्सोपमेयोपमा मता ॥ ’

इति स्वयं लक्षणमाहु: । अस्यार्थ: संक्षेपेण सदकृत्यस्तदुक्तरीत्या सह्लदयानां सौकर्यायोच्यते-अन्योन्येनेति । अन्योन्यप्रतियोगिकत्वविशिष्टा व्यक्त्या व्यञ्जनाव्यापारेण वृत्त्यन्तरेण शक्त्या वा बोध्या वेद्या एकधर्मा-श्रया एकधर्मप्रजोज्या या उपमा सा उपमेयोपमा मतेत्यन्वय: । अन्योन्ये-नेति विशेषणादिदं तच्च सममित्युभयविश्रान्तोपमाया निरास: । अत्रान्यो-न्यप्रतियोगिकत्वस्य व्यञ्जनव्यापरमात्रगम्यत्वेनोपमायाश्च शक्तिवेद्यतया

परस्परनिरपेक्षेणैकेन व्यापारेणान्योन्यप्रति योगिकत्वविशिष्टायास्तस्या अबो-धनात, परस्परनैरपेक्ष्यस्यात्र वाकारेणाभिधानात्‍ । एकधर्माश्रयेति विशेषणात्‍ ‘ रजोभिर्भूरिव द्यौर्घनसंनिभैर्गजैश्च द्यौरिव भू: ’
इति कस्याचि-त्पद्यस्यार्थे परस्परोपमायां नातिव्याप्ति:, तत्रोपमाप्रयोजकधर्मैक्याभावात्‍ । भूतलोपमानिकायां प्रयोजकस्य रजसामनुगामिधर्मस्य, नभस्तलोपमानि-

कायां । प्रयोजकस्य घनसदृशगजानां बिम्बप्रतिबिम्बभावापन्नधर्मस्य च भेदात्‍ । व्यकत्येति च विशेषणं व्यड्रयोपमेयोपमासंग्रहार्थामितीदमुपमेयो-पमात्वप्रयोजकं लक्षणमिति, तन्न ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP