संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|उपमेयोपमा अलंकारः| लक्षण २ उपमेयोपमा अलंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ उपमेयोपमा अलंकारः - लक्षण २ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण २ Translation - भाषांतर अथेयमुदाह्लियते-‘ कौमुदीव भवती विभआति मे कातराक्षि भवतीव कौमुदी । अम्बुजेन तुलितं विलोचनं लोचनेन च तवाम्बुजं समम् ॥ ’इयं च तावहिऊविधा-उक्तधर्मा व्यक्तधर्मा च । उक्तधर्मा तावद-नुगाम्यादिभि: प्रागुक्तैर्धर्मैरनेकधा ।अनुगामी धर्मो यथा-‘ निखिले निगमकदम्बे लोकेष्वप्येष निर्विवादोऽर्थ: । शिव इव गुरुर्गरीयान्गुरुरिव सोऽयं सदाशिवोऽपि तथा ॥ ’बिम्बप्रतिबिम्बभावमापन्नो यथा-‘ रमणीयस्तबकयुता विलसितवक्षोजयुगलशालिन्य: । लतिका इव ता वनिता वनिता इव रेजिरे लतिका: ॥ ’अत्र रमणीयत्वविलसितत्वाभ्यां विशेषणाभ्यां युतत्वशालित्वाभ्यां च विशेष्याभ्यां परस्परं वस्तुप्रतिवस्तुभावमापन्नाभ्यां पुटित: स्तबकस्तनरूप: परस्परं बिम्बप्रतिबिम्बभावापन्नो धर्म: ।उपचरितो यथा-‘ कुलिशीमव कठिनमसतां ह्लदयं जानीहि ह्लदयमिव कुलिशम् । प्रकृति : सतां सुमधुरा सुधेव हि प्रकृतिरिव च सुधा ॥’केवलशब्दात्मको यथा-‘ अविरतचिन्तो लोके वृक इव पिशुनोऽत्र पिशुन इव च वृक: । भारतमिव सच्चितं सच्चितमिवाथ भारतं सकृपम् ॥’व्यक्तधर्मो यथा-‘ वारिधिराकाशसमो वारिधिसदृशस्तथाकाश: । सेतुरिव स्वर्गड्रा स्वर्गड्रेवान्तरा सेतु: ॥ ’ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP