नारायणीय - अध्यायः १

विष्णू हि सर्वोच्च शक्ती असून, त्रिमूर्ती ब्रह्मा, विष्णू आणि महेश यांपैकी, भगवान विष्णूचे कार्य विश्वाचा सांभाळ आणि प्रतिपाळ करणे आहे
Vishnu,also known as Narayana is the Supreme Being or Ultimate Reality
In the Trimurti, Vishnu is responsible for the maintenance or 'preservation' of the universe.


सान्द्रानन्दावबोधात्मकमनुपमितं कालदेशावधिभ्यां निर्मुक्तं नित्यमुक्तं निगमशतसहस्रेण निर्भास्यमानम् ।
अस्पष्टं दृष्टमात्रे पुनरुरुपुरुषार्थात्मकं ब्रह्म तत्त्वं तत्तावद्भाति साक्षाद्गुरुपवनपुरे हन्त भाग्यं जनानाम् ॥
एवं दुर्लभ्यवस्तुन्यपि सुलभतया हस्तलब्धे यदन्यत् तन्वा वाचा धिया वा भजति बत जनः क्षुद्रतैव स्फुटेयम् ।
एते तावद्वयं तु स्थिरतरमनसा विश्वपीडापहत्यै निश्शेषात्मानमेनं गुरुपवनपुराधीशमेवाश्रयामः ॥
सत्त्वं यत्तत्पुराभ्यामपरिकलनतो निर्मलं तेन तावद् भूतैर्भूतेनिद्रयैस्ते वपुरिति बहुशः श्रूयते व्यासवाक्यम् ।
तत्स्वच्छत्वाद्यदच्छादितपरसुखचिद्गर्भनिर्भासरूपं तस्मिन्धन्या रमन्ते श्रुतिमतिमधुरे सुग्रहे विग्रहे ते ॥
निष्कम्पे नित्यपूर्णे निरवधि परमानन्दपीयूषरूपे निर्लीनानेकमुक्तावलिसुभगतमे निर्मलब्रह्मसिन्धौ ।
कल्लोलोल्लासतुल्यं खलु विमलतरं सत्त्वमाहुस्तदात्मा कस्मान्नो निष्कलस्त्वं सकल इति वचस्त्वत्कलास्वेव भूमन्॥
निर्व्यापारोऽपि निष्कारणमज भजसे यत्क्रियामीक्षणाख्यां तेनैवोदेति लीना प्रकृतिरसतिकल्पापि कल्पादिकाले ।
तस्याः संशुद्धमंशं कमपि तमतिरोधायकं सत्त्वरूपं स त्वं धृत्वा दधासि स्वमहिमविभवाकुण्ठ वैकुण्टःअरूपम् ॥
तत्ते प्रत्यग्रधाराधरललितकलायावलीकेलिकारं लावण्यस्यैकसारं सुकृतिजनदृशां पूर्णपुण्यावतारम् ।
लक्ष्मीनिश्शङ्कलीलानिलयनममृतस्यन्दसन्दोहमन्तः सिञ्चत्सञ्चिन्तकानां वपुरनुकलये मारुतागारनाथ॥
कष्टा ते सृष्टिचेष्टा बहुतरभवखेदावहा जीवभाजामित्येवं  पूर्वमालोचितमजित मया नैवमद्याभिजाने ।
नो चेज्जीवाः कथं वा मधुरतरमिदं त्वद्वपुश्चिद्रसार्द्रं नेत्रैः श्रोत्रैश्च पीत्वा परमरससुधाम्भोधिपूरे रमेरन् ॥
नम्राणां सन्निधत्ते सततमपि पुरस्तैरनभ्यार्थितानप्यर्थान् अप्यर्थान् कामानजस्रं वितरति परमानन्दसान्द्रां गतिं च ।
इत्थं निश्शेषलभ्यो निरवधिकफलः पारिजातो हरे त्वं क्षुद्रं तं शक्रवाटीद्रुममभिलषति व्यर्थमर्थिव्रजोऽयम् ॥
कारुण्यात्काममन्यं ददति खलु परे स्वात्मदस्त्वं विशेषादैश्वर्यादीशतेऽन्ये जगति परजने स्वात्मनोऽपीश्वरस्त्वम् ।
त्वय्युच्चैरारमन्ति प्रतिपदमधुरे चेतनाः स्फीतभाग्यास्त्वं छाऽऽत्मारामेवेत्यतुलगुणगणाधार शौरे नमस्ते ॥
ऐश्वर्यं शङ्करादीश्वरविनियमनं विश्वतेजोहराणां तेजस्संहारि वीर्यं विमलमपि यशो निस्पृहैश्चोपगीतम् ।
अङ्गासङ्गा सदा श्रीरखिलविदसि न क्वापि ते सङ्गवार्ता तद्वातागारवासिन् मुरहर भगवच्छब्दमुख्याश्रयोऽसि ॥
सूर्यस्पर्धिकिरीटमूर्ध्वतिलकप्रोद्भासिफालान्तरं कारुण्याकुलनेत्रमार्द्रहसितोल्लासं सुनासापुटम् ।
गण्डोद्यन्मकराभकुण्डलयुगं कण्ठोज्ज्वलत्कौस्तुभं त्वद्रूपं वनमाल्यहीरपटलश्रीवत्सदीप्रं भजे ॥
केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयाङ्कित श्रीमद्बाहुचतुष्कसङ्गतगदाशङ्खारिपङ्केरुहाम् ।
काञ्चित्काञ्चिनकाञ्चिलाच्छितलसत्पीताम्बरालम्बिनीइम् आलम्बे विमलाम्बुजद्युतिपदां मूर्तिं तवार्तिच्छिदम् ॥
यत्त्रैलोक्यमहीयसोऽपि महितं सम्मोहनं मोहनात् कान्तं कान्तिनिधानतोऽपि मधुरं माधुर्यधुर्यादपि ।
सौन्दर्योत्तरतोऽपि सुन्दरतरं त्वद्रूपमाश्चर्यतोऽप्याश्चर्यं भुवने न कस्य कुतुकं पुष्णाति विष्णो विभो॥
तत्तादृङ्मधुरात्मकं तव वपुः सम्प्राप्य सम्पन्मयी सा देवी परमोत्सुका चिरतरं नास्ते स्वभक्तेष्वपि ।
तेनास्या बत कष्टमच्युत् विभो त्वद्रूपमानोज्ञकप्रेमस्थैर्यमयादचापलबलाच्चापल्यवार्तोदभूत् ॥
लक्ष्मीस्तावकरामणीयकहृतैवेयं परेष्वस्थिरेत् यस्मिन्नन्यदपि प्रमाणमधुना वक्ष्यामि लक्ष्मीपते।
ये त्वद्ध्य्नगुणानुकीर्तनरसासक्ता हि भक्ता जनास् तेष्वेषा वसति स्थिरैव दयितप्रस्तावदत्तादरा ॥
एवम्भूतमनोज्ञतानवसुधानिष्यन्दसन्दोहनं त्वद्रूपं परचिद्रसायनमयं चेतोहरं शृण्वताम् ।
सद्यः प्रेरयते मतिं मदयते रोमाञ्चयत्य्ङ्गकं व्यासिञ्चत्यपि शीतबाष्पविसरैरानन्दमूर्च्छोद्भवैः ॥
एवम्भूततया हि भक्त्यभिहितो योगः स योगद्वयत् कर्मज्ञानमयाद्भृशोत्तमतरो योगीश्वरैर्गीयते ।
सौन्दर्यैकरसात्मके त्वयि खलु प्रेमप्रकर्षात्मिका भक्तिर्निःश्रममेव विश्वपुरुषैर्लभ्या रमावल्लम्॥
निष्कामं नियतस्वधर्मचरणं यत्कर्मयोगाभिधं तद्दूरेत्यफलं यदौपनिषदज्ञानोपलभ्यं पुनः ।
तत्त्वव्यक्ततया सुदुर्गमतरं चित्तस्य तस्माद्विभो त्वत्प्रेमात्मकभक्तिरेव सततं स्वदीयसी श्रेयसी ॥
अत्यायासकराणि कर्मपटलान्याचर्य निर्यन्मला बोधे भक्तिपथेऽथवाप्युविततामायान्ति किं तावता ।
क्लिष्ट्वा तर्कपथे परं तव वपुर्ब्रह्माख्यमन्ये पुनश् चित्तार्द्रत्वमृते विचिन्त्य बहुभिः सिध्यन्ति जन्मान्तरैः ॥
त्वद्भक्तिस्तु कथारसामृतज्ञरीनिर्मज्जनेन स्वयं सिध्यन्ति विमलप्रषोधपदवीमक्लेशतस्तन्वती ।
सद्यः सिद्धिकरी जयत्ययि विभोसैवास्तु मे त्वत्पदप्रेमप्रौढिरसार्द्रता द्रुततरं वातालयाधीश्वर॥
पठन्तो नामानि प्रमदभरसिन्धौ निपतिताः स्मरन्तो रूपं ते वरद कठयन्तो गुणकठाः ।
चरन्तो ये भक्तास्त्वपि खलु रमन्ते परममुनहं धन्यान्मन्ये समधिगतसर्वाभिलषितान् ॥
गदक्लिष्टं कष्टं तव चरणसेवारसभरेअप्यनासक्तं चित्तं भवति बत विष्णोकुरु दयाम् ।
भवत्पादाम्भोजस्मरणरसिको नामनिवहानहं गायंगायं कुहचन विवत्स्यामि विजने ॥
कृपा ते जाता चेत्किमिव न हि लभ्यं तनुभृतां मदीयक्लेशौघप्रशमनदशा नाम कियती ।
न के के लोकेऽस्मिन्ननिशमयि शोकाभिरहिता भवद्भक्ता मुक्ताः सुखगतिमसक्ता विदधते ॥
मुनिप्रौढा रूढा जगति खलु गूढात्मगतयो भवत्पादाम्भोजस्मरणविरुजो नारद्मुखाः ।
चरन्तीश् स्वैरं सततपरिनिर्भातपरचित् सदानन्दाद्वैतप्रसरपरिमग्नाः किमपरम् ॥
भवद्भक्तिः स्फीता भवतु मम सैव प्रशमयेदशेषक्लेशौघं न खलु हृदि सन्देहकणिका ।
न चेद्व्यासस्योक्तिस्तव च वचनं नैगमवचो भवेन्मिथ्या रथ्यापुरुषवचनप्रायमखिलम् ॥
भवद्भक्तिस्तावत्प्रमुखमधुरा त्वाद्गुणरसात् मिमप्यारूढा चेदखिलपरितापप्रशमनी ।
पूनश्चान्ते स्वान्ते विमलपरि बोधोदयमिलन् महानन्दाद्वैतं दिशति किमतः प्रार्थ्यमपरम् ॥
विधूय क्लेशान्मे कुरु चरणयुग्मं धृतरसं भवत्क्षेत्रप्राप्तौ करमपि च ते पूजनविधौ ।
भवन्मूर्त्यालोके नयनमथ ते पादतुलसीपरिघ्राणे घ्राणं श्रवणमपि ते चारुचरिते ॥
प्रभूताधिव्याधिप्रसभवलिते मामकहृदि त्वदीयं तद्रूपं परमरसचिद्रूपमुदियात् ।
उदञ्चद्रोमाञ्चो गलितबहुहर्षाश्रूनिवहो यथा विस्मर्यासं दुरुपशमपीडापरिभवन् ॥
मरुद्गेहाधीश् त्वयि खलु पराञ्चोऽपि सुखिनो भवत्स्नेही सोऽहं सुबहु परितप्ये च किमिदम् ।
अकीर्तिस्ते मा भूद्वरदगदभारं प्रशमयन् भवत्भक्तोत्तंसं झटिति कुरु मां कंसदमन॥
किमुक्तैर्भूयोभिस्तव हि करुणा यावदुदियादहं तावद्देव प्रहितविविधार्तप्रलपितः ।
पुरः क्लृप्ते पादे वरदतव नेष्यामि दिवसान् यथाशक्ति व्यक्तं नतिनुतिनिषेवा विरचयन् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP