मराठी मुख्य सूची|स्तोत्रे|कृष्ण स्तोत्रे|श्रीकृष्णविलासकाव्यम्| तृतीयः सर्गः श्रीकृष्णविलासकाव्यम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थः सर्गः श्रीकृष्णविलासकाव्यम् - तृतीयः सर्गः भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu. Tags : godkrishnaprayerstotraकृष्णदेवतादेवीस्तोत्र तृतीयः सर्गः Translation - भाषांतर प्रातः प्रलम्बप्रमुखानमात्यान् सर्वान् समाहूय स भोजराजः ।सविभ्रमप्रेरितदृष्टिदत्ते स्थाने निषण्णानवदद्विनीतः ॥१॥सन्दिह्य मोहाद्वसुदेववाक्यं मया प्रमाणीकृतभूतवाचा ।हता नृशंसेन सुता भगिन्यास्तेनाविलं मे हृदयं यशोऽपि ॥२॥जातां पुनः काञ्चनकाञ्चनाभां सुतां गतायुर्न्निशि हन्तुमैच्छम् ।उत्प्लुत्य सा व्योम्नि जवादतिष्ठत् शस्त्रोत्कटा दर्शितदिव्यरूपा ॥३॥नियम्य सा मातुल इत्यमर्षं प्रसेदुषी मामवदच्च बाला ।अरिर्महीयानजनिष्ट भूमौ तवोचितं संप्रति चिन्तयेति ॥४॥व्याहृत्य मां द्यां प्रति देवनारीगणैर्गतायामिति सेवितायाम् ।देव्यामहं दुश्चरितं स्वमेव स्मरन् विनिद्रो रजनीमनैषम् ॥५॥युद्धेषु देवा पुरुहूतमुख्याः भग्ना मया स्थातुमशक्नुवन्तः ।अश्वान् परित्यज्य विमुच्य नागान् मुक्त्वा च शस्त्राणि दिशो द्रवन्ति ॥६॥तदेषु नैकोऽपि भुवं गतो मे शक्नोति कर्तुं प्रतिकूलभावम् ।महीयसः किं घटते परागः समीरणस्याभिमुखं प्रसक्तुम् ॥७॥किमन्यदार्ताभ्यवपत्तिकामः सुरेषु सन्दर्शितपक्षपातः ।अजायतोर्व्यामसुरान्निहन्तुं स एव मन्ये सरसीरुहाक्षः ॥८॥सर्वे वयं दैत्यकुलप्रसूताः केनापि जाता भुवि कारणेन ।स तेन सन्नह्यति जेतुमस्मानुक्तोऽयमर्थः किल नारदेन ॥९॥अतस्तदुच्छेदविधौ विनिद्राः यतध्वमद्यैव बलानुरूपम् ।नखाग्रलाव्यस्तरुरङ्कुरात्मा परश्वधस्यापि ततोऽतिभूमिः ॥१०॥यस्मिन् भवत्याश्रितवत्सलत्वं विप्रेषु यस्यास्ति विशेषसङ्गः ।मनोहरं यश्च बिभर्ति रूपं वधं स बालोऽर्हति मत्सकाशात् ॥११॥मखाश्च तत्प्रीतिकृतो निवार्याः निवारणीया श्रुतिरग्रिमाऽपि ।तृणीकृताशेषजनप्रभावा संस्थौति या तन्महिमानमेव ॥१२॥गते विरामं गरुडध्वजेऽस्मिन् मखेषु सर्वत्र निवारितेषु ।सुरेषु सर्वेष्वपि दुर्बलेषु हस्ते भविष्यत्यमरावती नः ॥१३॥इत्यूचुषस्तस्य पदोपकण्ठं नीराजयन्तो मकुटप्रभाभिः ।अवादिषुर्विक्रमदर्पितास्ते कृताट्टहासध्वनिकम्पिताशाः ॥१४॥किं चिन्तया पार्थिव भुङ्क्ष्व भोगानस्मासु जीवत्सु कुतो रिपुस्ते ।कथं मयूखेषु परिस्फुरत्सु सरोजबन्धोस्तमसाभिभूतिः ॥१५॥अमातरिश्वानमहव्यवाहं असूर्यशीतांशुमवज्रपाणिम् ।अनच्युतेशानपितामहं च द्रष्टासि राजन्नचिरेण लोकम् ॥१६॥इत्यूचुषस्तानुचितोपहारैः सम्भाव्य कृत्येषु समादिदेश ।स देवकीमानकदुन्दुभिं च विमोचयामास च बन्धनस्थौ ॥१७॥लब्ध्वा निधानं न तथा दरिद्रो गतिं समासाद्य तथा न पङ्गुः ।तथा न चान्धो दृशमाप्य हृष्येद्यथाप्तपुत्रः स जहर्ष नन्दः ॥१८॥तपने चरमाचलं प्रपन्ने तमसा च स्थगितेषु दिङ्मुखेषु ।यमुनातटवासिनं तमूचे वसुदेवः प्रतिपद्य नन्दगोपं ॥१९॥तपसा तव नन्दगोप मन्ये फलितं जन्मसहस्रसञ्चितेन ।ऋणमन्त्यमपोहितुं त्वदीयं यदयं पुत्रनिधिः समाविरासीत् ॥२०॥इह खेलति पूतनेति कृत्या शिशुहत्यानिरता पुरोपकण्ठे ।तदहर्न्निशमत्र रक्षणीयो नयनानन्दकरः सुतस्त्वयाऽयं ॥२१॥अथवा किमिवास्यते त्वयास्मिन्निजमुत्सृज्य पदं पुरोपकण्ठे ।सविधे न वसन्ति बुद्धिमन्तो फणिनो वायुसखस्य भूपतेश्च ॥२२॥प्रतिवेदि निविष्टपूर्णकुम्भं विलसत्तोरणमुज्ज्वलप्रदीपम् ।व्रज गोकुलमाकुलं प्रजाभीभवदीयागमनप्रहर्षिणीभिः ॥२३॥शिशुरस्ति ममापि रौहिणेयो भवदीये विषये विवर्धमानः ।स च साधु निरीक्ष्य रक्षितव्यो वपुषा केवलमावयोर्हि भेदः ॥२४॥इत्युक्त्वा गतवति देवकीसहाये संत्रस्तः कथमपि नीतरात्रिशेषः ।आरोहत्युदयमहीधरस्य शृङ्गं तिग्मांशौ निजवसतिं प्रति प्रतस्थे ॥२५॥सचकितमृगमण्डलानि कुर्वन् शकटशतध्वनिभिर्वनान्तराणि ।प्रमुदितमथ गोकुलं प्रपेदे दिशि दिशि मारुतधूतकेतुमालम् ॥२६॥निजवसतिमभिप्रपद्य तुष्टः किमपि न कर्म करोति नन्दगोपः ।नवनलिनपलाशचारुनेत्रं वदनमहर्न्निशमात्मजस्य पश्यन् ॥२७॥मुग्धभावमधुरेण रञ्जयन् शैशवेन हृदयं व्रजौकसाम् ।गोकुले स विजहार केशवः क्षीरवारिनिधिमप्यचिन्तयन् ॥२८॥वदनं मधुसूदनः कराभ्यां चरणाङ्गुष्ठमुपानयत् पिपासुः ।गलितेव ततस्सुरस्रवन्ती नखमुक्तामणिदीधितिच्छलेन ॥२९॥अमृतांशुरिवापरः प्रमोदं नयनानां जनयन् स पद्मनाभः ।भवनं भवनात् करौ कराभ्यां व्रजयोषिद्भिरनीयताङ्कमङ्कात् ॥३०॥अधः कदाचिच्छकटस्य शायितः स्वकार्यपर्याकुलया यशोदया ।स लीलया पादसरोरुहं शनैरुदञ्चयामास सरोजलोचनः ॥३१॥मधुभिदश्चरणाम्बुजताडितं शकटमाशु समुत्थितमम्बरे ।विपरिवृत्य पपात महीतले पटुतरध्वनिपूरितदिङ्मुखम् ॥३२॥शकटपतनजन्म नन्दमुख्याः स्तनितमिव ध्वनितं निशम्य गोपाः ।किमिदमिति भयेन तत्र जग्मुस्त्वरितगतिच्यवमानकेशबन्धाः ॥३३॥कुचकलशविलग्नपाणिपद्मा विगलितबन्धमनोज्ञकेशपाशा ।सपदि सह सखीभिरन्वधावत् कलमणिनूपुरशिञ्जिता यशोदा ॥३४॥कृतस्मितं क्वचिदपरिक्षतं सुतं विलोक्य तं प्रमुदितमानसा परम् ।व्रजौकसां सविधनिवासिनां मुखाद्विसिस्मिये विदिततदीयविक्रमा ॥३५॥स्रुतशोणितमेव मन्यमाना चरणं तस्य निसर्गपाटलं तत् ।उदमार्जयदंशुकाञ्चलेन द्रुतमागत्य पुनः पुनर्यशोदा ॥३६॥तिलकं मधुविद्विषो ललाटे रजसा गोमयजन्मना विधाय ।उरसा परिरभ्य नन्दगोपः सुचिरं तस्य सुमङ्गलानि दध्यौ ॥३७॥शकटं मधुसूदनस्य दृष्ट्वा चरणोदञ्चनविभ्रमेण भग्नम् ।अथ वारिनिधेर्विवेश गर्भं स्वरथस्यापि विशङ्क्य भङ्गमर्कः ॥३८॥परितःस्फुरता नवेन सन्ध्यामहसा पल्लवपाटलेन लिप्ताः ।पतिता इव पावके विरेजुः ककुभो दुस्सहभानुविप्रयोगात् ॥३९॥क्षुभितश्चिरमम्बराम्बुराशिः तपनस्यन्दनवाहनावगाहात् ।स्फुरदुद्भटतारकापदेशात् सहसाऽऽकीर्यत फेनमण्डलेन ॥४०॥अहिमरुचि रसातलं प्रविष्टे भयचकितः स्वविनाशमाकलय्य ।तत इव तरसोत्पतन्नसीमा तिमिरभरः पृथिवीतलं प्रपेदे ॥४१॥भूरन्तरिक्षं भवनानि रथ्याः वनानि शैलास्सरितस्समुद्राः ।ध्वान्ते दिशां रुन्धति चक्रवालं व्यक्तं न केनापि किमप्यवेदि ॥४२॥अथ प्रयाति प्रहरे यशोदा जने च किञ्चिन्निभृते सनिद्रे ।पुत्रं पयःपानगुरुप्रमोदं प्रस्वापयन्ती कलमित्यगायत् ॥४३॥कुन्दत्विषस्तालफलप्रकाशाः तापिञ्छवर्णास्तरुणार्कभासाः ।प्रभूतदुग्धा नवनीतवत्यो गावस्सहस्रं तनय त्वदीयाः ॥४४॥प्रियालखर्जूरसमग्रसानुः फलाढ्यरम्भावनशोभनीयः ।ननूपभोगाय सुतायमास्ते गोवर्धनो नाम महीधरस्ते ॥४५॥सरसिरुहवने गतेऽपि निद्रां कथमिव ते नयनाम्बुजे विनिद्रे ।श्रुतिपरिचयशालिनो हि कर्म स्वजननिषेवितमेव संश्रयन्ते ॥४६॥तद्ध्वनिश्रवणजातकौतुका बालजीवितविलोपविश्रुता ।आजगाम गगनेन पूतना यातना तनुमतीव देहिनां ॥४७॥साऽवतीर्य नभसो निशाचरी गूढमेव निषसाद कुत्रचित् ।सा च सुप्त इव वीक्षिते सुते स्वापमाप सरसीरुहेक्षणा ॥४८॥कृष्णमङ्कमधिरोप्य निर्दया दातुमारभत पूतना स्तनम् ।यत्पयोधरमुखे मुखार्पणादायुषा शिशुजनो वियुज्यते ॥४९॥पाञ्चजन्यमिव पूतनास्तनं पाणिपल्लवयुगेन पीडयन् ।आननेन मधुशत्रुरान्तरानाददे स तु ततस्समीरणान् ॥५०॥विप्रकीर्णकचबालपल्लवा भग्नबाहुविटपा निशाचरी ।सा पपात भुवि घोरनिःस्वना मारुताहतमहीरुहोपमा ॥५१॥झटिति व्यपनीतगाढनिद्रो महता तेन रवेण पूतनायाः ।प्रतिपत्तुमियाय तां प्रवृत्तिं सह गोपालगणेन नन्दगोपः ॥५२॥तस्याश्शरीरमधिरुह्य विचेतनायाःक्रीडन्तमम्बुरुहलोचनमीक्षमाणाः ।तस्थुस्समुन्मिषितविस्मयनिर्विकाराःनासाधिरोपितकराङ्गुलयो मुहूर्तम् ॥५३॥नन्दः प्रमृज्य नयने मुहुरश्रुपूर्णेपुत्रं कृतान्तमुखनिर्गलितं निदध्यौ ।दध्यौ च तस्य नितरामभिवृद्धिकामःतत्त्वं परं स हृदयेन समाहितेन ॥५४॥श्यामलः कमलपत्रलोचनो नीलकुन्तलभरः शुचिस्मितः ।ध्यायतो मनसि तस्य सन्निधिं पुत्र एव विदधे पुनः पुनः ॥५५॥न क्षमं भवति पुत्रवासनानिस्तरं हृदयमच्युतस्मृतौ ।इत्यशेषदुरितापहारिणीरग्रजन्मभिरकारयत् क्रियाः ॥५६॥पूतनाचरितभावनाभवं दारुणं हृदयदारणं पितुः ।श्रीपतिः शमयति स्म वैशसं क्रीडितैरखिललोकमोहनैः ॥५७॥स लोचने किञ्चिदुपान्तघूर्णिते निधाय मातुर्वदने शुचिस्मितः ।पयोधरं पाणियुगावलम्बितं मनश्च तस्या मधुसूदनः पपौ ॥५८॥पाणिजानुपरिचङ्क्रमश्रमस्वेदबिन्दुमधुरं मुखं वहन् ।धूसरेण वपुषा जनार्दनो गोकुलं निखिलमन्वरञ्जयत् ॥५९॥परिभ्रमन्तं भुवि पाणिजानुना गवामधस्तात्प्रविशन्तमेकदा ।सुतं यशोदा गृहकृत्यतत्परा बबन्ध पाशेन बलादुलूखले ॥६०॥जनो हि यः कर्म करोति यादृशं स सर्वथा तादृशमश्नुते फलम् ।बलिः पुराऽबध्यत येन दानवः स लोकनाथोऽपि तदाप बन्धनम् ॥६१॥निखिलभुवनमुक्तिदे मुरारौ भगवति गाढमुलूखले निबद्धे ।परिशिथिलसमाधिराविरासीन्मनसि महामुनिमण्डलस्य हासः ॥६२॥निषीद लोलेति निबध्य सस्मितं चकार कार्याणि चकोरलोचना ।अनादरेण भ्रमयन्नुलूखलं विनिर्ययौ विश्वपतिः स्वमन्दिरात् ॥६३॥उपेयिवांसौ ककुभद्रुमात्मतां महीयसा नारदशापतेजसा ।अतिष्ठतामध्वनि कैटभद्विषः कुबेरपुत्रौ तरसैव रिङ्खतः ॥६४॥स सन्निकृष्य स्थितयोः परस्परं महीरुहोर्मध्यपथेन निस्सरन् ।गतेन तिर्यक्त्वमुलूखलेन तौ बभञ्ज दामोदरगन्धवारणः ॥६५॥प्रपद्य दिव्यं वपुरम्बरस्थितौ विमुक्तशापौ धनदात्मजावुभौ ।प्रणम्य भक्त्या पुरुषं पुरातनं मुदान्वितौ जग्मतुरन्तिकं पितुः ॥६६॥नन्दादयः सपदि गोकुलवासिनस्तेतद्भङ्गजन्म सुमहद्ध्वनितं निशम्य ।अभ्येत्य भग्नपतितौ ककुभद्रुमौ तौतत्राक्षतं च ददृशुस्सरसीरुहाक्षं ॥६७॥नन्दः समीक्ष्य दुरितानि बहूनि सद्भ्यःदत्वा गवामयुतमात्मसुताभिवृद्ध्यै ।सम्मन्त्र्य बन्धुभिरपास्य पदं तदाशुवृन्दावनं प्रति ययौ शकटैरसङ्ख्यैः ॥६८॥गत्वा स गोकुलपतिर्मनसोऽनुकूलेकूले कलिन्ददुहितुर्निदधे पदानि ।रेमे च तत्र पुरुहूतपदाभिरामेलीलायितानि तनयस्य निरीक्ष्यमाणः ॥६९॥दधिनिर्मथने निरुद्यमा सा नवनीतश्रपणे गवां च दोहे ।सुतकेलिहृतेक्षणा यशोदा क्षणकल्पानि निनाय वासराणि ॥७०॥अनुयाति जिघृक्षयेव नन्दे तरसा रिङ्खणतत्परस्य विष्णोः ।ललितालकवेल्लितानि रेजुर्मुखमात्रेण मुहुर्निवर्तितानि ॥७१॥अन्तरा विहतिमद्भिरुत्थितैरस्फुटाक्षरपदाभिरुक्तिभिः ।भङ्गुरैश्च परिरम्भणोद्यमैर्गोकुलं निखिलमन्वरञ्जयत् ॥७२॥पश्य मातुलमिति प्रदर्शितं यामिनीषु गगने यशोदया ।आजुहाव ललितेन पाणिना शीतभानुमरविन्दलोचनः ॥७३॥आत्मनः प्रतिकृतिं विलोकयन् मातृहस्तमणिदर्पणोदरे ।एहि मित्र किमिहेति कौतुकाद्व्याजहार शतपत्रलोचनः ॥७४॥गौरवं कथमियं सहेत मे मेदिनीति कृपयेव चिन्तयन् ।माधवः पतनभीतिमुद्वहन् मन्दमेव निदधे पदावलिं ॥७५॥देवो निशासु हरिरङ्कगतो जनन्याःशृण्वन् कथा मधुमुचो महताऽऽदरेण ।मन्दं तदीयकरपल्लवताडितोरुःसुष्वाप कुड्मलितलोचनपुण्डरीकः ॥७६॥कौतुकेन पितुरग्रतो हरेर्धावतस्खलनमीक्षमाणया ।मोदनिघ्नमनसा सलज्जया न स्थितं न चलितं यशोदया ॥७७॥मुखडिण्डिमवादिना परीतो मधुजित् कौतुकिना सुहृद्गणेन ।अधिरोपितवारणेन्द्रभावो ललिताभिर्गतिभिर्गृहेषु रेमे ॥७८॥अथाभिवृद्धिं प्रतिपद्यमानो दध्यादिषु प्रीतिमुवाह शौरिः ।तत्तत् प्रदानेन वशे विधातुमारेभिरे गोकुलयोषितस्तम् ॥७९॥कुरुष्व नृत्तं नवनीतमूल्यं कृष्णेति साभ्यर्थनमूचिषीणाम् ।व्रजाङ्गनानां स पुरस्सलीलमुदञ्चयामास पदारविन्दम् ॥८०॥तासां मनःप्रीतिविधानदक्षे तथा क्षणं तस्थुषि शार्ङ्गपाणौ ।एकाङ्घ्रिसंस्पर्शवियोगमात्रादधन्यमात्मानममन्यतोर्वी ॥८१॥उदञ्चितं तस्य विलोक्य पादं वेधा पुनर्विक्रमशङ्किचेताः ।कमण्डलुं पाणितलेन गृह्णन्नभ्युद्यतोऽभूदवनेजनाय ॥८२॥नृत्तामृतं गोकुलयोषितस्तत् कृष्णस्य नेत्राञ्जलिभिः पिबन्त्यः ।प्रीतिप्रकर्षस्तिमितैर्मनोभिरालेख्ययोषित्प्रतिमा बभूवुः ॥८३॥विदुर्न तद्दर्शनपारवश्याद्दातुं करस्थं नवनीतमेकाः ।विस्रस्य भूमौ पतितं तदन्याः न मेनिरे पाणिसरोरुहेभ्यः ॥८४॥अजस्रमेवं भवनेषु तासां बभ्राम कृष्णो नवनीतभिक्षाम् ।पुरा किलान्यैरनिवर्तनीया निवर्तिता येन हरस्य भिक्षा ॥८५॥धिग्याचनां चौर्यभवस्य भूयानस्त्यंहसो निर्हरणाभ्युपायः ।मत्वेति नूनं नवनीतचौर्ये मधोर्निहन्ता मतिमाबबन्ध ॥८६॥निर्वाप्य दीपं मुखमारुतेन हैयङ्गवीनं निशि हर्तुमिच्छन् ।कृष्णः कटीभूषणरत्नभासा विहन्यमानो विषसाद भूयः ॥८७॥निपीडयन्नग्रपदेन पृथ्वीमुन्नम्य देहं भृशमूर्ध्वबाहुः ।पयोघटस्पर्शनमश्नुवानस्त्रिविक्रमोऽभूत् परिहासपात्रम् ॥८८॥नियमितश्वसितो निभृतैः पदैर्निशि कथञ्चन गर्भगृहं गतः ।स तु भयादसमाप्तमनोरथो निववृते नवनीतहरो हरिः ॥८९॥हर्तुं हरेर्व्यवसितस्य घने निशीथेभूषारवश्रुतिभयाद्व्रजतोऽतिमन्दम् ।अन्तर्गृहस्य नवनीतवतः प्रवेशात्प्रागेव हन्त पथि सा रजनी विभाता ॥९०॥गोपीसमागमभिया च तृषा च गुर्व्यापातुं विहातुमपि गोपगृहेष्वजानन् ।आद्वारमादधिघटं च गतागतानिकुर्वन् सरोजनयनः श्रममेव लेभे ॥९१॥भित्तिषु प्रतिशरीरदर्शनात् शङ्कितः स नवनीतनिःस्पृहः ।किञ्चिदन्यदिव तत्र मार्गयन्निर्जगाम मणिमन्दिरोदरात् ॥९२॥जिहीर्षुरन्तर्भवनेषु गोरसं दिनान्यनैषीत्तदुपायचिन्तया ।स जागरूकश्च निनाय यामिनीं मनोहराभिर्हरणप्रवृत्तिभिः ॥९३॥दृष्टेऽपि तत्सविधसञ्चरणे स तत्रवक्तुं निमित्तमुचितं कृतनिश्चयस्सन् ।अभ्यर्ण एव निदधे दधिभाजनस्यलीलायितोपकरणानि निजानि शौरिः ॥९४॥वहन् गृहीतो नवनीतमच्युतो भयेन पारिप्लवनेत्रपङ्कजः ।पदा लिखन् भूमिमवाङ्मुखस्थितो जहार चेतोऽपि च गोपयोषिताम् ॥९५॥शपे पितृभ्यामित ऊर्ध्वमेवं नाहं विधास्ये नवनीतचौर्यम् ।विनिःश्वसन्नित्यभिधाय कृष्णो जहार मातुश्च पितुश्च चेतः ॥९६॥एहि सद्म तनयेति सादरं याचितोऽपि स मुहुर्यशोदया ।आननेन नवनीतगन्घिना नाजगाम विहरन्निवाच्युतः ॥९७॥हृतं नवं मे नवनीतमालयात् हृतं घृतं मे दधि मे हृतं निशि ।इति प्रभाते वचनानि योषितामुवाह श्रृण्वन् न मुखे स विक्रियाम् ॥९८॥पुत्रं कुलस्य भुवनस्य च रक्षितार- मभ्यर्थितोऽपि भगवानरविन्दनाभः ।त्वां मे ददौ विधिवशाद्भुवनैकचोर- मित्याह कोपमभिनीय सुतं यशोदा ॥९९॥स सान्त्वनेन प्रतिपादनेन भेदेन तीव्रेण च तर्जनेननिबद्ध्य पृष्टोऽपि मुहुर्जनन्या नाङ्गीकरोति स्म हरिः स्वचौर्यम् ॥१००॥संरक्षणाय जगतामवतीर्य पृथ्व्यांगोपालसद्मसु हरत्यखिलं मुकुन्दः ।इत्थं निशम्य परिहासवचस्सुराणाम्- अन्तर्जहास भगवानरविन्दनाभः ॥१०१॥कृष्णस्य केलिसमरेक्षणकौतुकेनगोपीषु मुक्तभवनासु बहिः स्थितासु ।मित्रैः पराजित इव द्रुतमेत्य गेहंबद्ध्वा कवाटमहरन्नवनीतमन्तः ॥१०२॥त्रिभुवनमहनीयैरभ्युपायैरसङ्ख्यैःनिखिलमिति स मुष्णन् गोकुलं नन्दसूनुः ।अरमत सवयोभिस्तत्र गोपालपुत्रै- रपर इव शशाङ्कः प्राणिनां प्रीतिहेतुः ॥१०३॥इति सुकुमारकृतौ कृष्णविलासकाव्ये तृतीयः सर्गः ॥३॥ N/A References : N/A Last Updated : January 23, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP