TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

श्रीकृष्णविलासकाव्यम् - द्वितीयः सर्गः

भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.


द्वितीयः सर्गः
अथैकदा पुत्रफलानि सम्यग्व्रतानि बाह्योपवने चरन्तीम् ।
रथेन कंसो वसुदेवयुक्तः स्वसारमालोकयितुं जगाम ॥१॥

स्फुरत्प्रभापल्लविताङ्गयष्टीं कथञ्चिदूढस्तनमञ्जरीकाम् ।
तत्रालकैः षट्/पदिनीमजानात् स तां लतामध्यगतां चिरेण ॥२॥

सा सन्नताङ्गी नियमावसाने ज्येष्ठाय तस्मै विदधे नमस्याम् ।
स चाशिषा तामनुगृह्य साध्वीं भोजेश्वरो वाक्यमिदं बभाषे ॥३॥

अद्यापि बालासि सुताननेकान् प्रसोष्यसे किं व्रतयातनाभिः ।
पश्याधुना पल्लवसूतिकाले किं कल्पते चूतलता फलाय ॥४॥

कृशासि कामं विरम प्रयासान्मनोभिरामानुपभुङ्क्ष्व भोगान् ।
अङ्गानि ते सन्नतगात्रि दुःखं मृणालकल्पानि कथं सहेरन् ॥५॥

तामेवमुक्त्वा स तु साभ्यनुज्ञां रथं समारोप्य सहैव पत्या ।
प्रयातुकामः पुरमन्तरिक्षे शुश्राव वाचं शतधारकल्पाम् ॥६॥

त्वदन्तिकस्था सहजाशमीयं प्रसोष्यते पुत्रमयं कृशानुम् ।
मरुत्समिद्धस्स तु दुर्निवारस्त्वां भस्मसात् कंस करिष्यतीति ॥७॥

निशम्य तद्भूतवचो निकामं कंसस्स रोषागमदुर्निरीक्ष्यः ।
कृपां परित्यज्य कृपाणपाणिः स्वसुर्वधाय स्वयमुद्यतोऽभूत् ॥८॥

नृशंसकृत्ये नितरां प्रवृत्तमुदग्रकोपस्फुरिताधरोष्ठम् ।
प्रसादयन्नानकदुन्दुभिस्तमुवाच धीमानुपपत्तियुक्तम् ॥९॥

अलं तवानेन वधोद्यमेन त्वया विधेयो नृपते विमर्शः ।
किमेष नाश्रावि विचारशून्यं व्रजन्त्यनर्था इति साधुवादः ॥१०॥

भयेन युद्धेषु पुरन्दरादीन् सुरान् पराचस्त्रपया विमुञ्चन् ।
महीश्वर स्त्रीवधपातकेऽस्मिन् कथं तवोपक्रमते कृपाणः ॥११॥

अनेन किं वा तव जीवितेन यद्रक्षणं स्यात् सहजावधेन ।
गुणेन केनापि हि लब्धनाम्नामपि स्वनाशादयशो गरीयः ॥१२॥

प्रपद्यमानस्य सदाभिवृद्धिं दिवानिशं प्रीणयतश्च लोकान् ।
भवद्यशश्चन्द्रमसोऽस्य माभून्नवः कलङ्को भगिनीवधेन ॥१३॥

स्वसुर्वधेनास्य भवेदकीर्तिस्तेन त्यजेयुस्सुहृदोऽपि भीताः ।
इत्येव नूनं भुजनिर्जितैस्तैस्सुरैः प्रयुक्तस्सुमहानुपायः ॥१४॥

कालेन तद्द्रक्ष्यसि यन्मदुक्तं मा भूत्तवास्मिन् विषयेऽपि शङ्का ।
तथापि चेतस्तव शङ्कते चेदाकर्ण्यतां तर्ह्यपरः प्रकारः ॥१५॥

सर्वाण्यपत्यानि वशे तवाहं जातानि जातानि समर्पयिष्ये ।
तन्निग्रहं वा तदनुग्रहं वा विचिन्त्य कर्तासि दशानुरूपम् ॥१६॥

किं बुद्धिमान्द्येन निजेन तस्य किं भागधेयेन वराङ्गनायाः ।
बलेन किं वा भवितव्यतायास्तथेति जग्राह वचस्तदीयम् ॥१७॥

वधप्रवृत्तो वसुदेवमन्त्रप्रभावसंस्तम्भितघोरकर्मा ।
निवृत्य निस्त्रिंशमहाभुजङ्गो महीभृतः कोशबिलं विवेश ॥१८॥

सत्या नु सा स्यादशरीरिणी वाक् सत्यं किमेतद्वसुदेववाक्यम् ।
वितर्कयन्नेवमुदस्तकेतुं पुरीं प्रपेदे मणितोरणाढ्याम् ॥१९॥

आलोकनैर्मौलिषु भूपतीनामासज्जयन्नञ्जलिबन्धनानि ।
स वैमनस्येन मुखस्थितेन भयावहः स्वं भवनं जगाम ॥२०॥

विशङ्कमानः स गृहोपकण्ठे तौ सद्मनि क्वापि विधाय गुप्तौ ।
पराक्रमाक्रान्तसमस्तलोकः पुरेव भोगानयमन्वभुङ्क्त ॥२१॥

माया हरेस्साऽथ हिरण्यपुत्रान् यान् देवकीगर्भगतानकार्षीत् ।
भोजेश्वरस्सत्वरमेत्य भीत्या तान् जातमात्रानवधीत् क्रमेण ॥२२॥

जगद्विभूत्यै परमस्य पुंसः यो देवकीगर्भमविक्षदंशः ।
आकृष्य तस्मान्मुरवैरिमाया तं रोहिणीगर्भगतं चकार ॥२३॥

चकास सप्तच्छदपाण्डुरेण सुतेन सा गर्भतिरोहितेन ।
वलाहकान्तर्हितशीतभानोर्दिशो दशां वृत्रजितः प्रपन्ना ॥२४॥

ततस्समाह्लादनमीक्षणानामसूत पुत्रं शरदिन्दुकल्पम् ।
प्रकर्षमापन्नुदयेन यस्य सद्यः समुद्रा इव सत्ववन्तः ॥२५॥

पत्युस्समादिष्टमिदं विधाय शेषं चिकीर्षुस्सुरकार्यमार्या ।
चराचराणां जगतां सवित्री सा श्रद्दधे जन्मभुवं यशोदाम् ॥२६॥

अथ प्रजानामभिवृद्धिकामो देवो दयायाः किल जन्मभूमिः ।
स्वजन्मने जन्मविनाशहेतुः प्राप्यस्सतां प्राप स देवकीं ताम् ॥२७॥

कृशावलग्ना कुचयोर्गरिम्णा सा देवकी सन्नतगात्रयष्टिः ।
जगत्त्रयीपुण्यकृतावलम्बा बभार गर्भेण जगन्निवासम् ॥२८॥

अन्तर्दधाना सरसीरुहाक्षं स्वेनावतारेण भुवं पुनाना ।
सा देवकी सा च कवेरकन्या मिथोऽदधातामुपमानभावम् ॥२९॥

अलं निवासाय न यस्य विश्वं वसन् स गर्भे मुमुदे मुकुन्दः ।
परोपकारप्रभवं हि दुःखं पुंसस्सुखायैव महत्तरस्य ॥३०॥

बहिःस्फुरन्त्या करपाञ्चजन्यत्विषेव विष्णोरुदरस्थितस्य ।
अधत्त तस्यास्तपनीयवर्णा मधूकपुष्पच्छविमङ्गयष्टिः ॥३१॥

बभार हारं कुचयोर्न तन्वी न पादयोर्नूपुरमामुमोच ।
दधौ मणिं भारभिया न मौलौ तदेव कैवल्यमभूषयत्ताम् ॥३२॥

दृशः प्रयत्नेन दधौ तिरश्चीरुवाच मन्दं निभृतं जहास ।
शनैर्ययौ दत्तकरा सखीभिर्भृशं निशश्वास च तावदेव ॥३३॥

सहैव हर्षेण सुधाशनानां सहैव पुण्येन वसुन्धरायाः ।
भयेन भोजाधिपतेश्च देवो सहैव गर्भे ववृधे मुकुन्दः ॥३४॥

शिरोभिरूढेन वनस्पतीनां फलोपहारेण निवेदितर्द्धिः ।
प्रावृट् समासादितसूतिकालां तां देवकीं द्रष्टुमिवाजगाम ॥३५॥

अथैकदेशा इव वारिराशेरुच्चैः पुरोमारुतविप्रकीर्णाः ।
वृतास्तडिद्विद्रुमवल्लरीभिर्विरेजिरे व्योमनि वारिवाहाः ॥३६॥

बलाहकव्रातभवैस्तमोभिर्दिनेषु दुर्बोधपुरःस्थितेषु ।
न कश्चिदासीदभिसारिकाणां विद्युत्प्रकाशेन विनाऽन्तरायः ॥३७॥

पयोदभस्त्रान्तरनिर्गतेन झात्कारिणा चण्डसमीरणेन ।
वियोगिनां चेतसि मेघकालः सन्धुक्षयामास मनोभवाग्निम् ॥३८॥

स्मरेण लोकत्रितयेश्वरेण सम्भाविताज्जीवितनिर्विशेषम् ।
ऋतोर्वसन्ताज्ज्वलदागमस्य जहार जातिर्निखिलं निकर्षम् ॥३९॥

बलाद्गृहीता इव वैतसीभिः शाखाभिरारूढमदा इवोच्चैः ।
परिस्खलन्त्यो निखिलास्तटिन्यः जग्मुर्जवादुद्भटफेनहासाः ॥४०॥

उदारसौरभ्यवशीकृतानामन्वीयमानः पटलैरलीनाम् ।
अकल्पयत् केतकमातरिश्वा मनोभवस्यापि मनोविकारम् ॥४१॥

अत्यम्बुपानप्रभवस्य कर्तुमन्तर्जडिम्नः प्रतिसंविधानम् ।
पपुस्तिरस्कारपदेन मेघाः मयूखमालामरविन्दबन्धोः ॥४२॥

रराज खर्जूरफलप्रकाशं नवं पयः काननपल्वलेषु ।
पयोदवृन्दैः परिपीय मुक्तं प्रभाकरस्येव मरीचिजालम् ॥४३॥

महीभृतां मूर्द्धसु दत्तपादं विलोक्य मित्रं विहतप्रतापम् ।
मग्ने जले मर्तुमिवारविन्दे मधुव्रताश्चुक्रुशुरन्तरिक्षे ॥४४॥

निषेव्य हंसा मधुरैर्वचोभिः पद्माकरं लब्धसमीहितार्थाः ।
सद्यो ययुस्तस्य विपत्तिकाले जलाशयानां प्रकृतिः किलैषा ॥४५॥

प्ररूढसस्याः फलमूलशाकैर्निरन्तराः स्वादुनवोदकाढ्याः ।
पल्लीजुषां चेतसि पामराणां धृतिं परामादधिरे वनान्ताः ॥४६॥

समुन्मिषन्ती गिरिमल्लिकानां प्रसूनराजिस्सुतरां विरेजे ।
मुक्त्वा नभो मेघविमर्दभीत्या नक्षत्रमालेव गता धरित्रीम् ॥४७॥

धारालजीमूतकृतान्धकारे तस्मिन्नपर्यन्तजडिम्नि काले ।
अलक्ष्यमाणः क्वचिदंशुमाली दिवाऽप्युवासेव तनूनपाति ॥४८॥

इति प्रवृत्ते समये घनानां मासे नभस्ये निशि मध्यमायाम् ।
गणे शुभाख्यायिनि च ग्रहाणां देवक्युवाह प्रसवाभिमुख्यम् ॥४९॥

हरत्सु बाह्यं भुवनस्य तापं प्रावृट् प्रसूतेषु वलाहकेषु ।
असूत तस्यान्तरतापशान्त्यै कृष्णाम्बुवाहं कृपयेव देवी ॥५०॥

दिशः प्रसेदुः सह निम्नगाभिर्जहर्ष लोकेन सहाम्बुराशिः ।
जाते मुकुन्दे मुमुचुश्च सद्यः भयेन देवाः सह पुष्पवृष्टिम् ॥५१॥

मनोभिरामेण मधुव्रतानां नादेन शंसन्निव दिष्टवृद्धिम् ।
चचार वायुः सुमनोंऽशुकानि संप्राप्य संप्राप्य महीरुहेभ्यः ॥५२॥

व्यजृम्भत प्रस्फुटशङ्खनादः तारेण गीतध्वनिना विमिश्रः ।
समश्नुवानः ककुभां मुखानि दिवौकसां मङ्गलतूर्यघोषः ॥५३॥

त्रपामपास्यन् विनयं विलुम्पन् नीतिं निगृह्णन् भयमाशु भञ्जन् ।
शरीरिणामच्युतजन्मजन्मा मोदो जजृम्भे मदनिर्विशेषः ॥५४॥

आषाढिनं पाणिमुदस्य दूरं ब्रह्मर्षिलोकः पतदुत्तरीयः ।
ननर्त पर्याकुलपादचारः प्रहस्यमानः सुरसुन्दरीभिः ॥५५॥

शृङ्गोज्झितैः कुङ्कुमवारिपूरैरन्योन्यमभ्युक्षणतत्पराणाम् ।
प्रमोदजन्मा दिवि सम्बभूव कोलाहलः कोऽपि सुधाशनानाम् ॥५६॥

पितॄंश्च पुत्रा पितरश्च पुत्रान् गुरूंश्च शिष्या गुरवश्च शिष्यान् ।
पतींश्च दाराः पतयश्च दारान् प्रमोदमत्तास्सिषिचुः पयोभिः ॥५७॥

असिञ्चदम्भोरुहयोनिरिन्द्रं तं पङ्कजावासमसिञ्चदिन्द्रः ।
असिञ्चतां द्वौ विबुधानशेषान् सर्वे सुरास्तौ च बलादसिञ्चन् ॥५८॥

मिथः पयोभिः सिषिचुर्विनेदुः ववल्गुरुच्चिक्षिपुरम्बराणि ।
अन्योन्यमंसेन सुदूरमूहुर्मत्ता इव स्वर्गसदो बभूवुः ॥५९॥

त्रिलोकनाथोदयसम्भवेन मोदेन पर्याकुलमानसानाम् ।
गीते च नृत्ते च सुराङ्गनानां बभूव तालस्खलितं न दोषः ॥६०॥

शृङ्गोदकास्फालनरक्तनेत्राः विच्छिन्नहाराश्च्युतकर्णभूषाः ।
प्रहाससीदध्वनिभिर्वचोभिः समालपन्तो विबुधा विजह्रुः ॥६१॥

जाते हरौ दैत्यविमर्दनेन विश्वम्भराभारमपाचिकीर्षौ ।
मुनेः प्रहर्षः कलहप्रियस्य जगत्प्रहर्षश्च समावभूताम् ॥६२॥

इति प्रहर्षाकुलितैर्मनोभिः विशृङ्खलं क्रीडति देहिवर्गे ।
कंसस्सभृत्यः प्रतिपद्य मूर्छां निद्राभिधानां न किमप्यबोधि ॥६३॥

श्यामं चतुर्बाहुमुदारहारं किरीटिनं कुण्डलदीप्तगण्डम् ।
पिताऽपि माता च विलोक्य पुत्रमानन्दमग्नौ विवशावभूताम् ॥६४॥

नियम्य हर्षोदयपारवश्यं तं देवकीजानिरुवाच वाचम् ।
प्रसीद भीतोऽहमतीव कंसादिदं तु रूपं प्रतिसंहरेति ॥६५॥

तत्प्रेरितस्तल्पगतं कराभ्यां तमाददे कल्पितबालभावम् ।
तयोश्शयानः करयोस्स तस्य प्रकाममप्रीयत पद्मनाभः ॥६६॥

अशेत यः प्राग्वटपत्रमध्ये लोकानशेषानुदरे दधानः ।
विना तपोभिः किमु तस्य सिध्येत्तत्पाणियुग्मे शयनं मुरारेः ॥६७॥

तमालनिलेन तमोभरेण निपीडिताशावलये निशीथे ।
आदाय पङ्केरुहलोचनं तं सद्यः स निर्गत्य गृहात् प्रतस्थे ॥६८॥

निवार्य वर्षोदकमात्मनैव प्रकाश्य मार्गं फणरत्नभासा ।
उपायमुक्त्वा वसुदेवकर्णे शेषस्सिषेवे बहुधैव विष्णुम् ॥६९॥

पुरात् स निर्गत्य पुमांसमाद्यं वहन् वहन्तीं यमुनामपश्यत् ।
कूलङ्कषौघाऽपि कलिन्दकन्या तदीयगुल्फद्वयसोदकाऽभूत् ॥७०॥

उत्तीर्य तां तत्तटसंश्रितानां दातुं करं वार्षिकमागतानाम् ।
व्रजौकसां नन्दपुरोगमानां प्रीतो निवेशं सहसा विवेश ॥७१॥

प्रविश्य जानन्निव नन्दगोपनिवेशनं सुप्तशरीरिवर्गम् ।
सुतां प्रसूय प्रतिपन्ननिद्रां ददर्श तद्धर्मवधूं यशोदाम् ॥७२॥

तं शाययित्वा शयने तदीये कन्यां समादाय निपत्य गच्छन् ।
शुश्राव पुत्रोदयहर्षमूलं कोलाहलं गोपवधूजनानाम् ॥७३॥

करेण कन्यां मनसा च पुत्रं वहन् मुहूर्तेन विलङ्घ्य मार्गम् ।
विशङ्कमाविश्य गृहं गृहिण्याः निधाय बालां शयने स तस्थौ ॥७४॥

सा चञ्चरीकस्वनसन्निभेन नादेन लोकस्य मनो हरन्ती ।
रुरोद किञ्चिद्विवृतेन बाला स्फुटत्पयोजाकृतिना मुखेन ॥७५॥

आकर्ण्य बालध्वनिमस्तनिद्राः प्रधाव्य रक्षापुरुषा जवेन ।
प्रबोध्य यत्नेन पतिं पृथिव्याः शशंसुरस्मै भगिनीं प्रसूताम् ॥७६॥

सद्यः समागत्य स तत्र दृष्ट्वा बालाममर्षेण विमर्शशून्यः ।
स्वस्रा निषिद्धोऽपि वधाभिलाषी जग्राह तस्याश्चरणौ कराभ्याम् ॥७७॥

उदस्य दूरं तरसा करेण चिक्षेप तां दुर्मतिरश्मपृष्ठे ।
महीमयातैव दिवि स्थिता सा जज्वाल धाम्ना जगतां सवित्री ॥७८॥

ततः करैस्तामरसप्रकाशैः सा मन्दमान्दोलितशस्त्रजाला ।
विलोक्य तं विह्वलचित्तवृत्तिं जगाद वाचं जगदेकमाता ॥७९॥

त्वमग्रहीर्मच्चरणौ रुषाऽपि प्रायः फलं तस्य न हन्मि यत्त्वाम् ।
जातः पृथिव्यां तव जाल्म हन्ता सद्यो हितं चिन्तय साधयामि ॥८०॥

इति नृपमभिधाय ज्योतिषा कुर्वती सा तडिदिव नयनानि प्राणिनामाकुलानि ।
सुरयुवतिभिरुच्चैर्गीयमानापदाना सुरपदमभिपेदे पाटिताभ्रा जवेन ॥८१॥

श्रुत्वा तस्या श्रवणपरुषां वाचमन्तर्विषण्णः
पुत्रापायव्यथितमनसं सान्त्वयित्वा स्वसारम् ।
पद्भ्यामेव स्वभवनमथ प्राप्य कृच्छ्रादनैषीत्
कंसश्चिन्ताकुलितहृदयो जाग्रदेव त्रियामाम् ॥८२॥

इति सुकुमारकृतौ कृष्णविलासकाव्ये द्वितीयास्सर्गः ॥२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2014-01-23T23:06:48.2400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

wettability

  • स्त्री. भिजवणक्षमता 
  • स्त्री. आर्द्रणीयता 
RANDOM WORD

Did you know?

नाग आणि नागपंचमी यांचा परस्परसंबंध काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site