त्रिपाद्विभूतिमहानारायणोपनिषत् - चतुर्थोऽध्यायः

आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.
Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic


ॐ ततस्तस्मान्निर्विशेषमतिनिर्मलं भवति । अविद्यापादमतिशुद्धं भवति । शुद्धबोधानन्द- लक्षणकैवल्यं भवति । ब्रह्मणः पादचतुष्टयं निर्विशेषं भवति । अखण्डलक्षणाखण्डपरिपूर्ण- सच्चिदानन्दस्वप्रकाशं भवति । अद्वितीयमनीश्वरं भवति । अखिलकार्यकारणस्वरूपमखण्डचिद्घनानन्द- स्वरूपमतिदिव्यमङ्गलाकारं निरतिशयानन्दतेजोराशि- विशेषं सर्वपरिपूर्णानन्तचिन्मयस्तग्भाकारं शुद्धबोधानन्दविशेषाकारमनन्तचिद्विलासविभूति- समष्ट्याकारमद्भुतानन्दाश्चर्यविभूतिविशेषाकारमनन्त- परिपूर्णानन्ददिव्यसौदामिनीनिचयाकारम् । एवमाकारमद्वितीयाखण्डानन्दब्रह्मस्वरूपं निरूपितम् । अथ छात्रो वदति । भगवन्पादभेदादिकं कथं कथमद्वैतस्वरूपमिति निरूपितम् । देशिकः परिहरति । विरोधो न विद्यते ब्रह्माद्वितीयमेव सत्यम् । तथैवोक्तं च । ब्रह्मभेदो न कथितो ब्रह्मव्यतिरिक्तं न किंचिदस्ति । पादभेदादिकथनं तु ब्रह्मस्वरूपकथनमेव । तदेवोच्यते । पादचतुष्टयात्मकं ब्रह्म तत्रैकमविद्यापादम् । पादत्रयममृतं भवति । शाखान्तरोपनिषत्स्वरूपमेव निरूपितम् । तमसस्तु परं ज्योतिः परमानन्दलक्षणम् । पादत्रयात्मकं ब्रह्म कैवल्यं शाश्वतं परमिति । वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् । तमेवंविद्वानमृतैह भवति । नान्यः पन्था विद्यतेऽयनाय । सर्वेषां ज्योतिषां ज्योतिस्तमसः परमुच्यते । सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं परंज्योतिस्तमस उपरि विभाति । यदेकमव्यक्तमनन्तरूपं विश्वं पुराणं तमसः परस्तात् । तदेवर्तं तदु सत्यमाहुस्तदेव सत्यं तदेव ब्रह्म परमं विशुद्धं कथ्यते । तमश्शब्देनाविद्या । पादोऽस्य विश्वा भूतानि । त्रिपादस्यामृतं दिवि । त्रिपादूर्ध्व उदैत्पुरुषः । पादोऽस्येहाभवत्पुनः । ततो विश्वङ् व्यक्रामत् । साशनाऽनशने अभि । विद्यानन्दतुरीयाख्यपादत्रयममृतं भवति । अवशिष्टमविद्याश्रयमिति । आत्मारामस्यानादिनारायणस्य कीदृशावुन्मेषनिमेषौ तयोः स्वरूपं कथमिति । गुरुर्वदति । पराग्दृष्टिरुन्मेषः । प्रत्यग्दृष्टिर्निमेषः । प्रत्यग्दृष्ट्या स्वस्वरूपचिन्तनमेव निमेषः । पराग्दृष्ट्या स्वस्वरूपचिन्तनमेवोन्मेषः । यावदुन्मेषकालस्तावन्निमेषकालो भवति । अविद्यायाः स्थितिरुन्मेषकाले निमेषकाले तस्याः प्रलयो भवति । यथा उन्मेषो जायते तथा चिरन्तनातिसूक्ष्मवासनाबलात्पुनरविद्याया उदयो भवति । यथापूर्वमविद्याकार्याणि जायन्ते । कार्यकारणोपाधिभेदाज्जीवेश्वरभेदोऽपि दृश्यते । कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः । ईश्वरस्य महामाया तदाज्ञावशवर्तिनी । तत्संकल्पानुसारिणी विविधानन्तमहामाया- शक्तिसंसवेतिनानन्तमहामाया जालजननमन्दिरा महाविष्णोः क्रीडाशरीररूपिणी ब्रह्मादीनामगोचरा । एतां महामायां तरन्त्येव ये विष्णुमेव भजन्ति नान्ये तरन्ति कदाचन । विविधोपयैरपि अविद्याकार्याण्यन्तःकरणान्यतीत्य कालाननु तानि जायन्ते । ब्रह्मचैतन्यं तेषु प्रतिबिम्बितं भवति । प्रतिबिम्बा एव जीवा इति कथ्यन्ते । अन्तःकरणोपाधिकाः सर्वे जीवा इत्येवं वदन्ति । महाभूतोत्थसूक्ष्माङ्गोपाधिकाः सर्वे जीवा इत्येके वदन्ति । बुद्धिप्रतिबिम्बितचैतन्यं जीवा इत्यपरे मन्यन्ते । एतेषामुपाधीनामत्यन्तभेदो न विद्यते । सर्वपरिपूर्णो नारायणस्त्वनया निजया क्रीडति स्वेच्छया सदा । तद्वदविद्यमानफल्गुविषयसुखाशयाः सर्वे जीवाः प्रभावन्त्यसारसंसारचक्रे । एवमनादिपरम्परा वर्ततेऽनादिसंसारविपरीतभ्रमादित्युपनिषत् ॥ इत्यथर्वणशाखायां त्रिपाद्विभूतिमहानारायणोपनिषदि महामायातीताखण्डाद्वैतपरमानन्दलक्षणपरब्रह्मणः परमतत्त्वस्वरूपनिरूपणं
नाम चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP