जाबालदर्शनोपनिषत् - पञ्चमः खण्डः

आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.
Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic


सम्यक्कथय मे ब्रह्मनाडीशुद्धिं समासतः । यथा शुद्ध्या सदा ध्यायञ्जीवन्मुक्तो भवाम्यहम् ॥१॥ सांकृते श्रुणु वक्ष्यामि नाडीशुद्धिं समासतः । विध्युक्तकर्मसंयुक्तः कामसंकल्पवर्जितः ॥२॥ यमाद्यष्टाङ्गसंयुक्तः शान्तः सत्यपरायणः । स्वात्मन्यवस्थितः सम्यग्ज्ञानिभिश्च सुशिक्षितः ॥३॥ पर्वताग्रे नदीतीरे बिल्वमूले वनेऽथवा । मनोरमे शुचौ देशे मठं कृत्वा समाहितः ॥४॥ आरभ्य चासनं पश्चात्प्राङ्मुखोदङ्मुखोऽपि वा । समग्रीवशिरःकायः संवृतास्यः सुनिश्चलः ॥५॥ नासाग्रे शशभृद्बिम्बे बिन्दुमध्ये तुरीयकम् । स्रवन्तममृतं पश्येन्नेत्राभ्यां सुसमाहितः ॥६॥ इडया प्राणमाकृष्य पूरयित्वोदरे स्थितम् । ततोऽग्निं देहमध्यस्थं ध्यायञ्ज्वालावलीयुतम् ॥७॥ बिन्दुनादसमायुक्तमग्निबीजं विचिन्तयेत् । पश्चाद्विरेचयेत्सम्यक्प्राणं पिङ्गलया बुधः ॥८॥ पुनः पिङ्गलयापूर्य वह्निबीजमनुस्मरेत् । पुनर्विरचयेद्धीमानिडयैव शनैः शनैः ॥९॥ त्रिचतुर्वासरं वाथ त्रिचतुर्वारमेव च । षट्कृत्वा विचरेन्नित्यं रहस्येवं त्रिसन्धिषु ॥१०॥ नाडीशुद्धिमवाप्नोति पृथक् चिह्नोपलक्षितः । शरीरलघुता दीप्तिर्वह्नेर्जाठरवर्तिनः ॥११॥ नादाभिव्यक्तिरित्येतच्चिह्नं तत्सिद्धिसूचकम् । यावदेतानि संपश्येत्तावदेवं समाचरेत् ॥१२॥ अथवैतत्परित्यज्य स्वात्मशुद्धिं समाचरेत् । आत्मा शुद्धः सदा नित्यः सुखरूपः स्वयंप्रभः ॥१३॥ अज्ञानान्मलिनो भाति ज्ञानच्छुद्धो भवत्ययम् । अज्ञानमलपङ्कं यः क्षालयेज्ज्ञानतो यतः । स एव सर्वदा शुद्धो नान्यः कर्मरतो हि सः ॥१४॥ इति॥
इति पञ्चमः खण्डः ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP