फाल्गुनमास: - शीतलाष्टमीपूजाविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ अष्टम्यां शीतलाष्टमीपूजाविधि: ॥

फाल्गुनकृष्णाष्टमीमारभ्य ज्येष्ठकृष्णाष्टमीपर्यन्तं प्रतिकृष्णाष्टमीषु शीतलापूजनम् । आचारात् सर्वत्र कुर्वन्ति । अष्टमी च उदयव्यापिनी ग्राह्या, शिष्टाचारात् । अष्टम्यां प्रात: आचम्य देशकालौ सङ्कीर्त्य, मम सर्वापच्छान्तिपूर्वकश्रीशीतलादेवताप्रीत्यर्थं यथामिलितषोडशोपचारद्रव्यै: श्रीशीतलापूजनं करिष्ये । अथ ध्यायेत् । वन्देऽहं शीतलां देवीं रासभस्थां दिगम्बराम् । मार्जनीं कलशोपेतां शूर्पालङ्कृतमस्तकाम् ॥ श्रीशीतलादेव्यै नम इति नाममन्त्रेण षोडशोपचारै: पर्युषितान्नमहानैवेद्येन च सम्पूज्य प्रार्थयेत्-शीतले त्वं जगन्माता शीतले त्वं जगत्पिता । शीतले त्वं जगद्धात्री शीतलायै नमो नम: ॥ पूजासाङ्गतासिद्धयर्थं यथाशक्ति सुवासिनी: पर्युषितान्नेन भोजयिष्ये । यस्य स्मृत्या० । अनेन मया कृतेन श्रीशीतलादेवता प्रीयताम् । स्वयमपि पर्युषितमन्नं भुञ्जीत । पर्युषितान्ननैवेद्यभोजनादि न सर्वत्र, कुलाचारात् कुत्रचिदस्ति ॥

॥ वारुणीपर्वयोग: ॥

फाल्गुमकृष्णत्रयोदश्यां शततारकानक्षत्रयोगे वारुणीसंज्ञा त्रयोदशी । शतताराका शनिवासरयुता महावारुणी । शततारकाशनिवासरशुभयोगसहिता महामहावारुणी । अत्र स्नानदानादि ग्रहणवत् कुर्यात् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP