पौषमास: - मकरसङ्क्रान्ति

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


तत्रादौ माधस्नानारम्भ: । शुक्लैकादशीद्वादशीपौर्णमासीमकरसङ्क्र मणदिनान्यतमदिने कार्य: ॥ अथ प्रयोग: ॥ उक्तकाले देशकालौ सङ्कीर्त्य, मम समस्तपापक्षयद्वारा श्रीमकरमाधवप्रीत्यर्थं माधस्नानं करिष्ये । इति सङ्कल्प्य, मन्त्रं पठेत् । दुःखदारिद्यनाशाय श्रीविष्णोस्तोषणाय च । प्रात:स्नानंकरोम्यद्य माधे पापविनाशनम् । मकरस्थे रवौ माधे गोविन्दाच्युत माधव । स्नानेनानेन मे देव यथोक्तफलदो भव ॥ इति पठन् प्रयागादितीर्थानि च स्मरन् मौनेन स्नायात् । तत: सूर्यायार्ध्यमन्त्र:-सवित्रे प्रसवित्रे च परंधाम जले मम । त्वत्तेजसा परिभ्रष्टं पापंयातु सहस्रधा ॥ श्रीसूर्याय इदमर्ध्यं स० । अयं विधि: प्रतिदिनं समान: । समाप्तिस्तु माधपूर्णिमायामेब ॥

॥ अर्धोदयपर्वयोग: ॥

पौषकृष्णचतुर्दश्यां यमतर्पणं नरकचतुर्दशीवत्कार्यम् । पौषकृष्णामायां व्यतीपातश्रवणरविवासरयोगेऽर्धोदपसंज्ञको योगविशेष: । तदुक्तम्-अमार्कपातश्रवणैर्युक्ता चेत्पौषमाधयो: । अर्धोंदय: स विज्ञेय: कोटिसूर्यग्रहै: सम: ॥ सोमवारयोगे महोदयो योग: । अत्र स्नानदानादिकरणान्महाफलप्राप्ति: ॥

॥ मकरसङ्क्रान्तिनिमित्तस्नानदानादिविधि: ॥

तत्र सङ्क्रमणदुत्तरत्र विंशतिघटिका: पुण्यकाल:, चत्वारिंशदिति केचित् । रात्रौ सङ्क्रमश्चेदुत्तरदिने पुण्यकाल: । आचम्य देशकालौ स्मृता, मम कायिकादिसमस्तपाणक्षयार्थं श्रीमकरमाधवप्रीत्यर्थं मकररसङ्क्रमणनिमित्तं अमुकतीर्थे तिलमिश्रितजलेन तिलोद्वर्तनपूर्वकं स्नानमहं करिष्ये । इति सङ्कल्प्य, विधिवत् स्नायात् ।

अथ तिलपात्रदानविधि: । मकरमासे प्रत्यहं तिलपात्रदाने महाफलम् । षोडशपलप्रमाणं यथाशक्ति वा ताम्रमयपात्रं तिलै: पूरयित्वा, शक्तौ सत्यां सुवर्णयुक्तं कृत्वा, दक्षिणासहितं ब्राह्मणाय दद्यात् । आचम्य देशकालौ स्मृत्वा, मम अशेषत्रिविधपापपरिहारद्वारा श्रीमकरमाधवप्रीत्यर्थं ब्राह्मणाय तिलपात्रदानं करिष्ये । तदङ्गत्वेन ब्राह्मणपूजनं करिष्ये । सूर्यनारायणस्वरूपिणे ब्राह्मणाय इदमासनमित्यादिना ब्राह्मणं सम्पूज्य, स्वस्त्यस्तु । दीर्घमा० । दानमन्त्र:- देवदेव जगन्नाथ वाञ्छितार्थफलप्रद । तिलपात्रं प्रदास्यामि तवाङ्गे संस्थितो ह्यहम् ॥ इदं तिलपात्रदानं सहिरण्यं सदक्षिणाकं अमुकश० । प्रति०, प्रति० । अनेन तिलपात्रदानेन श्रीमकरमाधव: प्रीयताम् ॥

हिरण्यरहिततत्पात्रदाने तु, तिला: पुण्या; पवित्राश्च सर्वपापहरा: स्मृता: । शुक्लाश्चैव तथा कृष्णा विष्णुगोत्रसमुद्भवा: ॥ यानि कानि च पापानि ब्रह्महत्यासमानि च । तिलपात्रप्रदानेन तानि नश्यन्तु मे सदा ॥ इति दानमन्त्र: ॥

पात्ररहिततिलदाने तु, महर्षे गोत्रसम्भूता: काश्यपस्य तिला: स्मृता: । तस्मादेषां प्रदानेन मम पापं व्यपोहतु ॥ शर्करायुक्ततिलदानेऽप्ययमेव दानमन्त्र: ॥

दधिमन्थदानम् । आचम्य देशका० मम इह जन्मनि जन्मान्तरे च गोमहिष्यादिजन्यसुखादिभवपूर्वकअविच्छिन्नशुभसन्ततिप्राप्तिद्वारा श्रीमकरमाधवप्रीत्यर्थं ब्राह्मणाय दधिमन्थदानमहं करिष्ये । तदङ्गं दधिमन्थपूजनं ब्राह्मणपूजनं च करिष्ये । दधिमन्थदेवतायै नम इति पञ्चोपचारपूजां कृत्वा, आसनादिना विप्रं पूजयेत् । स्वस्त्यस्तु । दीर्घ० । इक्षुशलाकया दधि निर्मन्थ्य, दान मन्त्र:-इक्षुस्थितं तु म/ऋद्भाण्डं दध्ना चेक्षुसमन्वितम् । दधिनिर्मन्यसंज्ञं हि ब्राह्मणाय ददाम्यहम् ॥ सवस्त्रफलताम्बूलं दक्षिणाभिश्च संयुतम् । गवादिशुभसन्तानलब्धिर्भूयात्सदा मम ॥ इदं दधिमन्थदानं दक्षिणाताम्बूलवस्त्रसहितं असुकश० । तेन श्रीमकरमाधव: प्रीयताम् ।

हीरदीपदानविधि: । अद्य० मकरमाधवप्रीत्यर्थं हीरदीपसंज्ञकआधारपात्रसहितदीपद्वयदानं करिष्ये । तदङ्गं ब्राह्मणपूजनं दीपपूजनं करिष्ये । ब्राह्मणं दीपं च सम्पूज्य, दानमन्त्र:-स्वच्छगोधूमराशीनां दीपयुग्मं घृतान्वितम् । हीरदीपकसंज्ञं तद दानं सोपस्करं परम् ॥ हीरदीपकवद्वंशप्रकाशस्तु सुखप्रद: । हीरदीपकदानेन प्रीणाति दिनकृत्स्वयम् ॥ इदं दीपयुग्मदानं आधारपात्रसहितं सदक्षि० । अनेन० ।

घासग्रासदानम् । अद्य० घासग्रासदानं क० । दानमन्त्र:-मकरेऽर्के च सम्प्राप्ते उत्तरायणमुच्यते । ग्रासं दद्यातु या नारी पुत्रपौत्रप्रवर्द्धनम् ॥ तिलगुडसमायुक्तं घासग्रासं च संज्ञकम् । वर्षे वर्षे व्रतं कुर्यात्सौभाग्यश्रीकरं परम् । इदं घासग्रासदानं सद० । अनेन० ।

सुघटदानम् । अद्य० र्थं मकरमा० सुघटदानं क० । दानमन्त्र: - सङ्क्रान्ति सुमहाभागे सुघटं रसपूरितम् । हरिद्रापूगसंयुक्तमत: शान्तिं प्रयच्छ मे ॥ इदं सुघटदानं अमुकश० । अने० ।

सिद्धस्थालीदानम् । अद्य० मम इ० नन्धुवर्गसुहृज्जनब्राह्मणेषु भन्नविवरणपूर्वकभोज्यसिद्धिद्वारा श्रीमकरमाधवप्रीत्यर्थं ब्राह्मणाय पव्कव्यञ्जनसूपादिपूरितभाण्डसहितं सिद्धस्थालीदानं क० । दानमन्त्र - अन्नमेव परं लक्ष्मीरन्नमेव जनार्दन: । अन्नमेवाखिल: प्राणो मम जन्मनि जन्मनि ॥ इदं सिद्धस्थालीदानं व्यज्जनसूपादिपात्रसहितं सदक्षिणाकं० अमुकश० । अनेन० ।
अत्रटितवल्लीदानम् । अद्य० अत्रुटितवल्लीदानं क० । अत्रटवल्लिमन्मे स्यात् सन्ततिर्वल्लिका बहु: । तिलपिष्टकृतं मुष्टिपञ्चकं गुडमिश्रितम् । ददामि च परं भक्तया तेन तुष्यतु मे रवि: ॥ इदं अत्रटितवल्लीदानं० । अनेन० ।

वहज्फरीदानम् । अद्य० वहज्फरीदानं क० । प्रवहन्निर्फरीक्लिन्नं तण्डुलैर्द्रोणसंयुतै: । पूरितं वैणवं पात्रं वस्त्रताम्बूलदक्षिणम् ॥ सम्पूजितं द्विजश्रेष्ठ ददामीदं गृहाण भो: । तेन मे सविता देवो वंशवृद्धिं च वाञ्छितम् ॥ इदं वजज्फरीदानं सद० अमुकश० । अनेन० ।

ताम्बूलदानम् । अद्य० ताम्बूलदानं क० । ताम्बूलं सुखदं लोके मुखशोभाकरं हि तत् । अरुचिघ्नं सदा मिष्टं ताम्बूलं श्रीकरं ददे ॥ इदं ताम्बूलदानं स० अमुकश० । अनेन० ।

शिवगौरीदानम् । अद्य० शिवगौरीदानं क० । गुडगौरीसमाश्लिष्टं नवनीतकृतं शिवम् । पूजितं तत्प्रयच्छामि दम्पत्यो: प्रीतिसिद्धये ॥ इदं शिवगौरीदानं स० अमुक० । अनेन० ।

वरहस्तदानम् । अद्य० वरहस्तदानं क० । सर्वेष्टदायकं श्रेष्ठं तिलपिष्टगुडान्वितम् । वरहस्तप्रदानेन वरदोऽस्तु रविर्मम ॥ इदं वरहस्तदानं स० ददे । अनेन० ।

कण्डणदानम् । अद्य पू० सधान्यउलूखलमुसलदानं क० । उलूखलस्थितं धान्यं मुसलैर्घातनिस्तुषम् । सोपस्करं प्रदास्यामि ह्यत: शान्तिं० ॥ इदं सधान्यउलूखलमुसलदानं स० अमुक० । अनेन० ।

घरट्टदानम् । अद्य० धान्यसहितघरट्टदानं क० । गोधूमसम्भवं पिष्टं घरट्टेन समन्वितम् । सोपस्करं च मे देव: प्रीणातु कमलापति: ॥ इदं धान्यसहितघरट्टदानं स० । अने० ।

चुल्लिदानम् । अद्य० धान्यसहितचुल्लिदानं क० । महानसमयं दानं इक्षुदण्डकृतेन्धनम् । सर्वकामोपसहितं क्षुत्तुट्‌शान्तिकरं परम् ॥ अदित्या तु कृतं पूर्वं सोपचारं सदक्षिणम् । द्रौपदीप्रत्ययकरं महानसमयं ददे ॥ इदं धान्यसहितचुल्लिदानं स० । अनेन० ।

सौभाग्यवायनदानम् । अद्य० सौभाग्यवायनदानं क० । वंशपात्रद्वययुतं वायनं वस्त्रसंयुतम् । मण्डनाद्युपभोगादि दन्तपत्रीकया युतम् ॥ आदर्शादियुतं सम्यक् हरिद्राकुङकुमाञ्जनम् । सौभाग्यभूषणैर्युक्तं दास्यामि रवितुष्टये ॥ इदं सौभाग्यदानं स० । अनेन० ॥

रसरङ्गदानम् । अद्य० रसरङ्गदानं क० । रसरङ्गसमायुक्तं कांस्यपात्रद्वयं तथा । रसरङ्गप्रदानेन तेन तुष्यतु मे रवि: ॥ इदं रसरङ्गदानं स० । अनेन० ।

अपाक दानम् । ममेह जन्मनि० च, सर्वगुणोपेतभृत्यमित्रजनयुतगृहप्राप्तिपुत्रपौत्रादिसन्ततिभर्तृवियोगाभावसदाऽनुत्तमसुखरूपादिकामनया श्रीमकरमाधवप्रीत्यर्थं अपाकदानं करिष्ये । गणपतिपूजां विधाय, कुलालं वस्त्राद्यै: सम्पूज्य, प्रार्थयेत्-त्वं मे भाण्डानि चित्राणि गुरुणि च लघनि च । मणिकादीनि शुभ्राणि स्थालीश्च सुमनोहरा: ॥ घटकान् करकांश्चैव प्रणीता: कुठकानि च । शरावादीनि पात्राणि भाण्डान्युच्चावचानि च ॥ अलिञ्जरा  तु प्रचयं मन्थनीकटहानि च । एवमन्यच्च यत्किञ्चिच्छुभयोग्यं भवेद् गृहे । सम्पादय महाभाग विश्वकर्मा त्वमेव हि ॥ तत: रक्तवस्त्रैरपाकं संछाद्य ब्रह्मणे नम इति नाममन्त्रेण सम्पूज्य, प्रार्थयेत्-अपाक ब्रह्मरूपोऽसि भाण्डानीमानि जन्तव: । प्रदानात्ते प्रजापुष्टि: स्वर्गश्चास्तु ममाक्षय: ॥ भाण्डरूपाणि यान्यत्र कल्पितानि मया किल । भूत्वा सत्वानि रूपाणि ह्युपतिष्ठन्तु तानि वै ॥ इदं अपाकं नानाभाण्डरचितं विष्णुदैवतं नानानामगोत्रेभ्यो ब्राह्मणेभ्य: सुवासिनीभ्यश्च उत्सृजामि । तेन श्रीमहाविष्णु: प्रीयताम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP