ज्येष्ठमास: - दशहरा

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


ज्येष्ठशुक्लदशमी दशहरा । तत्र दशयोगा उक्ता:ज्येष्ठे मासि सिते पक्षे दशम्यां बुधहस्तयो: । गरानन्दे व्यतीपाते कन्याचन्द्रे वृषे रवौ । दशयोगे नर: स्नात्वा सर्वपापै: प्रमुच्यते ॥ ज्येष्ठे मलमासे सति तत्रैव दशहराकार्या, नतु शुद्धे ति सकलसिद्धान्त: । शुद्धेऽपि कर्तव्यगिति केचित्‌ । अत्र गङ्गास्नानपूजनादि अवश्यं कार्यम् । गङ्गाया अलाभे नद्यन्तरेऽपि गङ्गां ध्यात्वा स्नानपूजादि कार्यम्‌ । देश० ममानेकजन्मार्जितदशविधपापक्षयपूर्वकविष्णु० प्राप्त्यर्थं अमु० नद्यां स्नानं पूजनं च करिष्ये । ओंनम: शिवायै नारायण्यै दशहरायै गङ्गायै नमो नम इति मन्त्रेण पूजनं कार्यम्‌ । दशपापान्युक्तानि अदत्तानामुपादानं हिंसा चैवाविधानत: । परदारोपसेवा च  कायिकं त्रिविधं स्मृतम्‌ ॥ पारुष्यमनृतं चैव पैशून्यं चापि सर्वश: । असम्बद्धप्रलाचश्च वाङमयं स्याच्चतुर्विधम्‌ । परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम्‌ । वितथाभिनिवेशश्च मानसं त्रिविधं स्मृतम् । एतानि दशपापानि हर त्वं मम सर्वदा ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP