संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|नारद स्मृतिः|मातृकः| भाषाः मातृकः व्यवहारः भाषाः सभाः मातृकः - भाषाः स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmanaradasmritiधर्मनारदनारद स्मृतिःसंस्कृतस्मृतिः भाषाः Translation - भाषांतर सुनिश्चितबलाधानस्त्वर्थी स्वार्थप्रचोदितः ।लेखयेत्पूर्वपक्षं तु कृतकार्यविनिश्चयः ॥१॥पूर्वपक्षश्रुतार्थस्तु प्रत्यर्थी तदनन्तरम् ।पूर्वपक्षार्थसंबन्धं प्रतिपक्षं निवेशयेत् ॥२॥श्वो लेखनं वा स लभेत्त्र्यहं सप्ताहं एव वा ।अर्थी तृतीयपादे तु युक्तं सद्यो ध्रुवं जयी ॥३॥मिथ्या संप्रतिपत्तिर्वा प्रत्यवस्कन्दं एव वा ।प्राङ्न्यायविधिसाध्यं वा उत्तरं स्याच्चतुर्विधम् ॥४॥मिथ्यैतन्नाभिजानामि तदा तत्र न संनिधिः ।अजातश्चास्मि तत्काल एवं मिथ्या चतुर्विधा ॥५॥मिथ्या च विपरीतं च पुनः शब्दसमागमम् ।पूर्वपक्षार्थसंबन्धं उत्तरं स्याच्चतुर्विधम् ॥६॥भाषाया उत्तरं यावत्प्रत्यर्थी न निवेशयेत् ।अर्थी तु लेखयेत्तावद्यावद्वस्तु विवक्षितम् ॥७॥अन्यार्थं अर्थहीनं च प्रमाणागमवर्जितम् ।लेख्यं हीनाधिकं भ्रष्टं भाषादोषास्तूदाहृताः ॥८॥लब्धव्यं येन यद्यस्मात्स तत्तस्मादवाप्नुयात् ।न त्वन्योऽन्यदथान्यस्मादित्यन्यार्थं इदं त्रिधा ॥९॥मनसाहं अपि ध्यातस्त्वन्मित्रेणेह शत्रुवत् ।अतोऽन्यथा महाक्षान्त्या त्वं इहावेदितो मया ॥१०॥द्रव्यप्रमाणहीनं यत्फलोपाश्रयवर्जितम् ।प्रमाणवर्जितं नाम लेख्यदोषं तदुत्सृजेत् ॥११॥आगमवर्जितं दोषं पूर्वपादे विवर्जयेत् ।एकस्य बहुभिः सार्धं पुरराष्ट्रविरोधकम् ॥१२॥बिन्दुमात्रापदवर्णेष्वेकाविधिष्टया (?) ।हीनाधिका भवेद्व्यर्था तां यत्नेन विवर्जयेत् ॥१३॥भ्रष्टं तु दुःस्थितं यत्स्याज्जलतैलादिभिर्हतम् ।भाषायां तदपि स्पष्टं विस्पष्टार्थं विवर्जयेत् ॥१४॥सत्या भाषा न भवति यद्यपि स्यात्प्रतिष्ठिता ।बहिश्चेद्भ्रश्यते धर्मान्नियताद्व्यवहारिकात् ॥१५॥गन्धमादनसंस्थस्य मयास्यासीत्तदर्पितम् ।व्यवहारिकधर्मस्य बाह्यं एतन्न सिध्यति ॥१६॥अन्याक्षरनिवेशेन अन्यार्थगमनेन च ।आकुलं च क्रियादानं क्रिया चैवाकुला भवेत् ॥१७॥रागादीनां यदेकेन कोपितः करणे वदेत् ।तदादौ तु लिखेत्सर्वं वादिनः फलकादिषु ॥१८॥निराकुलावबोधाय धर्मस्थैः सुविचारितम् ।तस्मादन्यद्व्यपोह्यं स्याद्वादिनः फलकादिषु ॥१९॥वादिभ्यां अभ्यनुज्ञातं शेषं च फलके स्थितम् ।ससाक्षिकं लिखेयुस्ते प्रतिपत्तिं च वादिनोः ॥२०॥वादिभ्यां लिखिताच्छेषं यत्पुनर्वादिना स्मृतम् ।तत्प्रत्याकलितं नाम स्वपादे तस्य लिख्यते ॥२१॥अर्थिना संनियुक्तो वा प्रत्यर्थिप्रहितोऽपि वा ।यो यस्यार्थे विवदते तयोर्जयपराजयौ ॥२२॥यो न भ्राता न च पिता न पुत्रो न नियोगकृत् ।परार्थवादी दण्ड्यः स्याद्व्यवहारेऽपि विब्रुवन् ॥२३॥पूर्ववादं परित्यज्य योऽन्यं आलम्बते पुनः ।वादसंक्रमणाज्ज्ञेयो हीनवादी स वै नरः ॥२४॥सर्वेष्वपि विवादेषु वाक्छले नापहीयते ।पशुस्त्रीभूम्यृणादाने शास्योऽप्यर्थान्न हीयते ॥२५॥अभियुक्तोऽभियोगस्य यदि कुर्यादपह्नवम् ।अभियोक्ता दिशेद्देश्यं प्रत्यवस्कन्दितो न चेत् ॥२६॥पूर्वपादे हि लिखितं यथाक्षरं अशेषतः ।अर्थी तृतीयपादे तु क्रियया प्रतिपादयेत् ॥२७॥क्रियापि द्विविधा प्रोक्ता मानुषी दैविकी तथा ।मानुषी लेख्यसाक्षिभ्यां धटादिर्दैविकी स्मृता ॥२८॥दिवा कृते कार्यविधौ ग्रामेषु नगरेषु वा ।संभवे साक्षिणां चैव दिव्या न भवति क्रिया ॥२९॥अरण्ये निर्जने रात्रावन्तर्वेश्मनि साहसे ।न्यासस्यापह्नवे चैव दिव्या संभवति क्रिया ॥३०॥कारणप्रतिपत्त्या च पूर्वपक्षे विरोधिते ।अभियुक्तेन वै भाव्यं विज्ञेयं पूर्वपक्षवत् ॥३१॥पलायते य आहूतो मौनी साक्षिपराजितः ।स्वयं अभ्युपपन्नश्च अवसन्नश्चतुर्विधः ॥३२॥अन्यवादी क्रियाद्वेषी नोपस्थाता निरुत्तरः ।आहूतप्रपलायी च हीनः पञ्चविधः स्मृतः ॥३३॥मणयः पद्मरागाद्या दीनारादि हिरण्मयम् ।मुक्ताविद्रुमशङ्खाद्याः प्रदुष्टाः स्वामिगामिनः ॥३४॥गन्धमाल्यं अदत्तं तु भूषणं वास एव वा ।पादुकेति राजोक्तं तदाक्रामन्वधं अर्हति ॥३५॥पण्यमूल्यं भृतिर्न्यासो दण्डो यच्चावहारकम् ।वृथादानाक्षिकपणा वर्धन्ते नाविवक्षिताः ॥३६॥मिथ्याभियोगिनो ये स्युर्द्विजानां शूद्रयोनयः ।तेषां जिह्वां समुत्कृत्य राजा शूले विधापयेत् ॥३७॥आज्ञा लेखः पट्टकः शासनं वा आधिः पत्त्रं विक्रयो वा क्रयो वा ।राज्ञे कुर्यात्पूर्वं आवेदनं यस्तस्य ज्ञेयः पूर्वपक्षः विधिज्ञैः ॥३८॥साक्षिकदूषणे कार्यं पूर्वसाक्षिविशोधनम् ।शुद्धेषु साक्षिषु ततः पश्चात्साक्ष्यं विशोधयेत् ॥३९॥साक्षिसभ्यावसन्नानां दूषणे दर्शनं पुनः ।स्वचर्यावसितानां तु नास्ति पौनर्भवो विधिः ॥४०॥स्वयं अभ्युपपन्नोऽपि स्वचर्यावसितोऽपि सन् ।क्रियावसन्नोऽप्यर्हेत परं सभ्यावधारणम् ॥४१॥पक्षानुत्सार्य कार्यस्तु सभ्यैः कार्यविनिश्चयः ।अनुत्सारितनिर्णिक्ते विरोधः प्रेत्य चेह च ॥४२॥सभैरेव जितः पश्चाद्राज्ञा शास्यः स्वशास्त्रतः ।जयिने चापि देयं स्याद्यथावज्जयपत्रकम् ॥४३॥व्यवहारमुखं चैतत्पूर्वं उक्तं स्वयंभुवा ।मुखशुद्धौ हि शुद्धिः स्याद्व्यवहारस्य नान्यथा ॥४४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP