संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|नारद स्मृतिः|मातृकः| व्यवहारः मातृकः व्यवहारः भाषाः सभाः मातृकः - व्यवहारः स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : dharmanaradasmritiधर्मनारदनारद स्मृतिःसंस्कृतस्मृतिः व्यवहारः Translation - भाषांतर धर्मैकतानाः पुरुषा यदासन्सत्यवादिनः ।तदा न व्यवहारोऽभून्न द्वेषो नापि मत्सरः ॥१॥नष्टे धर्मे मनुष्येषु व्यवहारः प्रवर्तते ।द्रष्टा च व्यवहाराणां राजा दण्डधरः कृतः ॥२॥लिखितं साक्षिणश्चात्र द्वौ विधी संप्रकीर्तितौ ।संदिग्धार्थविशुद्ध्यर्थं द्वयोर्विवदमानयोः ॥३॥सोत्तरोऽनुत्तरश्चैव स विज्ञेयो द्विलक्षणः ।सोत्तरोऽभ्यधिको यत्र विलेखापूर्वकः पणः ॥४॥विवादे सोत्तरपणे द्वयोर्यस्तत्र हीयते ।स पणं स्वकृतं दाप्यो विनयं च पराजये ॥५॥सारस्तु व्यवहाराणां प्रतिज्ञा समुदाहृता ।तद्धानौ हीयते वादी तरंस्तां उत्तरो भवेत् ॥६॥कुलानि श्रेणयश्चैव गणाश्चाधिकृतो नृपः ।प्रतिष्ठा व्यवहाराणां गुर्वेभ्यस्तूत्तरोत्तरम् ॥७॥स चतुष्पाच्चतुःस्थानश्चतुःसाधन एव च ।चतुर्हितश्चतुर्व्यापी चतुष्कारी च कीर्त्यते ॥८॥अष्टाङ्गोऽष्टादशपदः शतशाखस्तथैव च ।त्रियोनिर्द्व्यभियोगश्च द्विद्वारो द्विगतिस्तथा ॥९॥धर्मश्च व्यवहारश्च चरित्रं राजशासनम् ।चतुष्पाद्व्यवहारोऽयं उत्तरः पूर्वबाधकः ॥१०॥तत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिषु ।चरित्रं पुस्तकरणे राजाज्ञायां तु शासनम् ॥११॥सामाद्युपायसाध्यत्वाच्चतुःसाधन उच्यते ।चतुर्णां आश्रमाणां च रक्षणात्स चतुर्हितः ॥१२॥कर्तॄनथो साक्षिणश्च सभ्यान्राजानं एव च ।व्याप्नोति पादशो यस्माच्चतुर्व्यापी ततः स्मृतः ॥१३॥धर्मस्यार्थस्य यशसो लोकपक्तेस्तथैव च ।चतुर्णां करणादेषां चतुष्कारी प्रकीर्तितः ॥१४॥राजा सपुरुषः सभ्याः शास्त्रं गणकलेखकौ ।हिरण्यं अग्निरुदकं अष्टाङ्गः स उदाहृतः ॥१५॥ऋणादानं ह्युपनिधिः संभूयोत्थानं एव च ।दत्तस्य पुनरादानं अशुश्रूषाभ्युपेत्य च ॥१६॥वेतनस्यानपाकर्म तथैवास्वामिविक्रयः ।विक्रीयासंप्रदानं च क्रीत्वानुशय एव च ॥१७॥समयस्यानपाकर्म विवादः क्षेत्रजस्तथा ।स्त्रीपुंसयोश्च संबन्धो दायभागोऽथ साहसम् ॥१८॥वाक्पारुष्यं तथैवोक्तं दण्डपारुष्यं एव च ।द्यूतं प्रकीर्णकं चैवेत्यष्टादशपदः स्मृतः ॥१९॥एषां एव प्रभेदोऽन्यः शतं अष्टोत्तरं स्मृतम् ।क्रियाभेदान्मनुष्याणां शतशाखो निगद्यते ॥२०॥कामात्क्रोधाच्च लोभाच्च त्रिभ्यो यस्मात्प्रवर्तते ।त्रियोनिः कीर्त्यते तेन त्रयं एतद्विवादकृत् ॥२१॥द्व्यभियोगस्तु विज्ञेयः शङ्कातत्त्वाभियोगतः ।शङ्कासतां तु संसर्गात्तत्त्वं होढादिदर्शनात् ॥२२॥पक्षद्वयाभिसंबन्धाद्द्विद्वारः समुदाहृतः ।पूर्ववादस्तयोः पक्षः प्रतिपक्षस्तदुत्तरम् ॥२३॥भूतच्छलानुसारित्वाद्द्विगतिः स उदाहृतः ।भूतं तत्त्वार्थसंयुक्तं प्रमादाभिहितं छलम् ॥२४॥तत्र शिष्टं छलं राजा मर्षयेद्धर्मसाधनः ।भूतं एव प्रपद्येत धर्ममूला यतः श्रियः ॥२५॥धर्मेणोद्धरतो राज्ञो व्यवहारान्कृतात्मनः ।संभवन्ति गुणाः सप्त सप्त वह्नेरिवार्चिषः ॥२६॥धर्मश्चार्थश्च कीर्तिश्च लोकपक्तिरुपग्रहः ।प्रजाभ्यो बहुमानश्च स्वर्गे स्थानं च शाश्वतम् ॥२७॥तस्माद्धर्मासनं प्राप्य राजा विगतमत्सरः ।समः स्यात्सर्वभूतेषु बिभ्रद्वैवस्वतं व्रतम् ॥२८॥धर्मशास्त्रं पुरस्कृत्य प्राड्विवाकमते स्थितः ।समाहितमतिः पश्येद्व्यवहाराननुक्रमात् ॥२९॥आगमः प्रथमं कार्यो व्यवहारपदं ततः ।विवित्सा निर्णयश्चैव दर्शनं स्याच्चतुर्विधम् ॥३०॥धर्मशास्त्रार्थशास्त्राभ्यां अविरोधेन मार्गतः ।समीक्षमाणो निपुणं व्यवहारगतिं नयेत् ॥३१॥यथा मृगस्य विद्धस्य व्याधो मृगपदं नयेत् ।कक्षे शोणितलेशेन तथा धर्मपदं नयेत् ॥३२॥यत्र विप्रतिपत्तिः स्याद्धर्मशास्त्रार्थशास्त्रयोः ।अर्थशास्त्रोक्तं उत्सृज्य धर्मशास्त्रोक्तं आचारेत् ॥३३॥धर्मशास्त्रविरोधे तु युक्तियुक्तोऽपि धर्मतः ।व्यवहारो हि बलवान्धर्मस्तेनावहीयते ॥३४॥सूक्ष्मो हि भगवान्धर्मः परोक्षो दुर्विचारणः ।अतः प्रत्यक्षमार्गेण व्यवहारगतिं नयेत् ॥३५॥यात्यचौरोऽपि चौरत्वं चौरश्चायात्यचौरताम् ।अचौरश्चौरतां प्राप्तो माण्डव्यो व्यवहारतः ॥३६॥स्त्रीषु रात्रौ बहिर्ग्रामादन्तर्वेश्मन्यरातिषु ।व्यवहारः कृतोऽप्येषु पुनः कर्तव्यतां इयात् ॥३७॥गहनत्वाद्विवादानां असामर्थ्यात्स्मृतेरपि ।ऋणादिषु हरेत्कालं कामं तत्त्वबुभुत्सया ॥३८॥गोभूहिरण्यस्त्रीस्तेय पारुष्यात्ययिकेषु च ।साहसेष्वभिशापे च सद्य एव विवादयेत् ॥३९॥अनावेद्य तु यो राज्ञे संदिग्धेऽर्थे प्रवर्तते ।प्रसह्य स विनेयः स्यात्स चास्यार्थो न सिध्यति ॥४०॥वक्तव्येऽर्थे न तिष्ठन्तं उत्क्रामन्तं च तद्वचः ।आसेधयेद्विवादार्थी यावदाह्वानदर्शनम् ॥४१॥स्थानासेधः कालकृतः प्रवासात्कर्मणस्तथा ।चतुर्विधः स्यादासेधो नासिद्धस्तं विलङ्घयेत् ॥४२॥नदीसंतारकान्तार दुर्देशोपप्लवादिषु ।आसिद्धस्तं परासेधं उत्क्रामन्नापराध्नुयात् ॥४३॥आसेधकाल आसिद्ध आसेधं यो व्यतिक्रमेत् ।स विनेयोऽन्यथा कुर्वन्नासेद्धा दण्डभाग्भवेत् ॥४४॥निर्वेष्टुकामो रोगार्तो यियक्षुर्व्यसने स्थितः ।अभियुक्तस्तथान्येन राजकार्योद्यतस्तथा ॥४५॥गवां प्रचारे गोपालाः सस्यबन्धे कृषीवलाः ।शिल्पिनः चापि तत्कालं आयुधीयाश्च विग्रहे ॥४६॥अप्राप्तव्यवहारश्च दूतो दानोन्मुखो व्रती ।विषमस्थश्च नासेध्यो न चैनानाह्वयेन्नृपः ॥४७॥नाभियुक्तोऽभियुञ्जीत तं अतीर्त्वार्थं अन्यतः ।न चाभियुक्तं अन्येन न विद्धं वेद्धुं अर्हति ॥४८॥यं अर्थं अभियुञ्जीत न तं विप्रकृतिं नयेत् ।नान्यत्पक्षान्तरं गच्छेद्गच्छन्पूर्वात्स हीयते ॥४९॥न च मिथ्याभियुञ्जीत दोषो मिथ्याभियोगिनः ।यस्तत्र विनयः प्रोक्तः सोऽभियोक्तारं आव्रजेत् ॥५०॥सापदेशं हरन्कालं अब्रुवंश्चापि संसदि ।उक्त्वा वचो विब्रुवंश्च हीयमानस्य लक्षणम् ॥५१॥पलायते य आहूतः प्राप्तश्च विवदेन्न यः ।विनेयः स भवेद्राज्ञा हीन एव स वादतः ॥५२॥निर्णिक्तव्यवहारेषु प्रमाणं अफलं भवेत् ।लिखितं साक्षिणो वापि पूर्वं आवेदितं न चेत् ॥५३॥यथा पक्वेषु धान्येषु निष्फलाः प्रावृषो गुणाः ।निर्णिक्तव्यवहाराणां प्रमाणं अफलं तथा ॥५४॥अभूतं अप्यभिहितं प्राप्तकालं परीक्ष्यते ।यत्तु प्रमादान्नोच्येत तद्भूतं अपि हीयते ॥५५॥तीरितं चानुशिष्टं च यो मन्येत विधर्मतः ।द्विगुणं दण्डं आस्थाय तत्कार्यं पुनरुद्धरेत् ॥५६॥दुर्दृष्टे व्यवहारे तु सभ्यास्तं दण्डं आप्नुयुः ।न हि जातु विना दण्डं कश्चिन्मार्गेऽवतिष्ठते ॥५७॥रागादज्ञानतो वापि लोभाद्वा योऽन्यथा वदेत् ।सभ्योऽसभ्यः स विज्ञेयस्तं राजा विनयेद्भृशम् ॥५८॥किंतु राज्ञा विशेषेण स्वधर्मं अनुरक्षता ।मनुष्यचित्तवैचित्र्यात्परीक्ष्या साध्वसाधुता ॥५९॥पुरुषाः सन्ति ये लोभात्प्रब्रूयुः साक्ष्यं अन्यथा ।सन्ति चान्ये दुरात्मानः कूटलेख्यकृतो जनाः ॥६०॥अतः परीक्ष्यं उभयं एतद्राज्ञा विशेषतः ।लेख्याचारेण लिखितं साक्ष्याचारेण साक्षिणः ॥६१॥असत्याः सत्यसंकाशाः सत्याश्चासत्यदर्शनाः ।दृश्यन्ते विविधा भावास्तस्माद्युक्तं परीक्षणम् ॥६२॥तलवद्दृश्यते व्योम खद्योतो हव्यवाडिव ।न तलं विद्यते व्योम्नि न खद्योते हुताशनः ॥६३॥तस्मात्प्रत्यक्षदृष्टोऽपि युक्तं अर्थः परीक्षितुम् ।परीक्ष्य ज्ञापयनर्थान्न धर्मात्परिहीयते ॥६४॥एवं पश्यन्सदा राजा व्यवहारान्समाहितः ।वितत्येह यशो दीप्तं ब्रध्नस्याप्नोति विष्टपम् ॥६५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP