अधिकरणम् ७ - अध्यायः २

महर्षि वात्स्यायन यांच्या कामसूत्र ग्रंथात दाम्पत्य जीवनातील फक्त श्रृंगारच वर्णिलेला नसून कला, शिल्पकला आणि साहित्यपण संपादित केलेले आहे.


चण्डवेगां रञ्जयितुं अःशक्नुवन्योगानाचरेत् ॥१॥

रागस्योपक्रमे संबाधस्य करेणोपमर्दनं तस्या रसप्राप्तिकाले च रतयोजनं इति रागप्रत्यानयनम् ॥२॥

औपरिष्टकं मन्दवेगस्य गतवयसो व्यायतस्य रतश्रान्तस्य च रागप्रत्यानयनम् ॥३॥

अपद्रव्याणि वा योजयेत् ॥४॥

तानि सुवर्णरजतताम्रकालायसगजदन्तगवलद्रव्यमयाणि ॥५॥

त्रापुषाणि सैसकानि च मृदूनि शीतवीर्याणि कर्मणि च धृष्णूनि भवन्तीति बाभ्रवीया योगाः ॥६॥

दारुमयानि साम्यतश्चेति वात्स्यायनः ॥७॥

लिङ्गप्रमाणान्तरं बिन्दुभिः कर्कशपर्यन्तं बहुलं स्यात् ॥८॥

एते एव द्वे संघाटी ॥९॥

त्रिप्रभृति यावत्प्रमाणं वा चूडकः ॥१०॥

एकां एव लतिकां प्रमाणवशेन वेष्टयेदित्येकचूडकः ॥११॥

उभयतोःमुखच्छिद्रः स्थूलकर्कशवृषणगुटिकायुक्तः प्रमाणवशयोगी कट्यां बद्धः कञ्चुको जालकं वा ॥१२॥

तदःभावेऽलाबूनालकं वेणुश्च तैलकषायैः सुःभावितः सूत्रेण कट्यां बद्धः श्लक्ष्णा काष्ठमाला वा ग्रथिता बहुभिरामलकास्थिभिः संयुक्तेत्यपविद्धयोगाः ॥१३॥

न त्वःविद्धस्य कस्य चिद्व्यवहृतिरस्तीति ॥१४॥

दाक्षिणात्यानां लिङ्गस्य कर्णयोरिव व्यधनं बालस्य ॥१५॥

युवा तु शस्त्रेण छेदयित्वा यावद्रुधिरस्यागमनं तावदुदके तिष्ठेत् ॥१६॥

वैशद्यार्थं च तस्यां रात्रौ निर्बन्धाद्व्यवायः ॥१७॥

ततः कषायैरेकदिनान्तरितं शोधनम् ॥१८॥

वेतसकुटजशङ्कुभिः क्रमेण वर्धमानस्य वर्धनैर्बन्धनम् ॥१९॥

यष्टीमधुकेन मधुयुक्तेन शोधनम् ॥२०॥

ततः सीसकपत्त्रकर्णिकया वर्धयेत् ॥२१॥

म्रक्षयेद्भल्लातकतैलेनेति व्यधनयोगाः ॥२२॥

तस्मिन्ननःएकाकृतिविकल्पान्यपद्रव्याणि योजयेत् ॥२३॥

वृत्तं एकतो वृतां उदूखलकं कुसुमकं कण्टकितं कङ्कास्थि गजकरकं अष्टमण्डलकं भ्रमरकं शृङ्गाटकं अन्यानि वोपायतः कर्मतश्च बहुकर्मसहता चैषां मृदुकर्कशता यथासात्म्यं ॥२४॥

नष्टरागप्रत्यानयनं द्विषष्टितमं प्रकरणम्((१८९)) ।॥

(प्रकरण)६३॥

एवं वृक्षजानां जन्तूनां शूकैरुपहितं लिङ्गं दशरात्रं तैलेन मृदितं पुनरुपतृंहितं पुनः प्रमृदितं इति जातशोफं खट्वायां अधोमुखस्तदन्तरे लम्बयेत् ॥२५॥

तत्र शीतैः कषायैः कृतवेदनाःनिग्रहं सोपक्रमेण निष्पादयेत् ॥२६॥

स यावज्जीवं शूकजो नाम शोफो विटानाम् ॥२७॥

अश्वगन्धाशबरकन्दजलशूकबृहतीफलमहीषनवनीतहस्तिकर्णवज्रवल्लीरसैरेकैकेन परिमर्दनं मासिकं वर्धनम् ॥२८॥

एतैरेव कषायैः पक्वेन तैलेन परिमर्दनं षाण्मास्यम् ॥२९॥

दाडिमत्रापुषबीजानि बालुका बृहतीफलरसश्चेति मिद्वग्निना पक्वेन तैलेन परिमर्दनं परिषेको वा ॥३०॥

तांस्तांश्च योगानाप्तेभ्यो बुध्येत ॥३१॥

वर्धनयोगाः((१९०)) ।॥

(प्रकरण)६४॥

अथ((१९१)) स्नुहीकण्टकचूर्णैः पुनर्नवावानरपुरिषलाङ्गलिकामूलमिश्रैर्यां अवकिरेत्सा नान्यं कामयेत् ॥३२॥

तथा सोमलतावल्गुजाभृङ्गलोहोपजिह्विकाचूर्णैर्व्याधिघातकजम्बूफलरसनिर्यासेन घनीकृतेन च लिप्तसंबाधां गच्छतो रागो नश्यति ॥३३॥

गोपालिकाबहुपादिकाजिह्विकाचूर्णैर्माहिषतक्रयुक्तैः स्नातां गच्छतो रागो नश्यति ॥३४॥

नीपाम्रातकजम्बूकुसुमयुक्तं अनुलेपनं दौर्भाग्यकरं स्रजश्च ॥३५॥

कोकिलाक्षप्रलेपो हस्तिन्याः संहतं एकरात्रे करोति ॥३६॥

पद्मोत्पलकदम्बसर्जकसुगन्धचूर्णानि मधुना पिष्टानि लेपो मृग्या विशालीकरणम् ॥३७॥

स्नुहीसोमार्कक्षारैरवल्गुजाफलैर्भावितान्यामलकानि केशानां श्वेतीकरणम् ॥३८॥

मदयन्तिकाकुटजकाञ्जनिकागिरिकर्णिकाश्लक्ष्णपर्णीमूलैः स्नानं केषानां प्रत्यानयनम् ॥३९॥

एतैरेव सुःपक्वेन तैलेनाभ्यङ्गात्कृष्णीकरणात्क्रमेणास्य प्रत्यानयनम् ॥४०॥

श्वेताश्वस्य मुष्कस्वेदैः सप्तकृत्वो भावितेनालक्तकेन रक्तोऽधरः श्वेतो भवति ॥४१॥

मदयन्तिकादीन्येव प्रत्यानयनम् ॥४२॥

बहुपादिकाकुष्ठतगरतालीसदेवदारुवज्रकन्दकैरुपलिप्तं वंशं वादयतो या शब्दं शृणोति सा वश्या भवति ॥४३॥

धत्तूरफलयुक्तोऽभ्यवहार उन्मादकः ॥४४॥

गुडो जीर्णितश्च प्रत्यानयनम् ॥४५॥

हरितालमनःशिलाभक्षिणो मयूरस्य पुरीषेण लिप्तहस्तो यद्द्रव्यं स्पृशति तन्न दृश्यते ॥४६॥

अङ्गारतृणभस्मना तैलेन विमिश्रं उदकं क्षीरवर्णं भवति ॥४७॥

हरीतकाम्रातकयोः श्रवणप्रियङ्गुकाभिश्च पिष्टाभिर्लिप्तानि लोहभाण्डानि ताम्रीःभवन्ति ॥४८॥

श्रवणप्रियङ्गुकातैलेन दुकूलसर्पनिर्मोकेण वर्त्त्या दीपं प्रज्वाल्य पार्श्वे दीर्घीकृतानि काष्ठानि सर्पवद्दृश्यन्ते ॥४९॥

श्वेतायाः श्वेतवत्साया गोः क्षीरस्य पानं यशस्यं आयुष्यम् ॥५०॥

ब्राह्मणानां प्रशास्तानां आशिषः((१९२)) ॥५१॥

व्पूर्वशास्त्राणि संदृश्य प्रयोगाननुसृत्य च । कामसूत्रं इदं यत्नात्संक्षेपेण निवेदितम् ॥५२॥

व्धर्मं अर्थं च कामं च प्रत्ययं लोकं एव च । पश्यत्येतस्य तत्त्वज्ञो न च रागात्प्रवर्तते ॥५३॥

वधिकारवशादुक्ता ये चित्रा रागवर्धनाः । तदनःअन्तरं अत्रैव ते यत्नाद्विनिवारिताः ॥५४॥

व्न शास्त्रं अस्तीत्येतेन प्रयोगो हि समीक्ष्यते । शास्त्रार्थान्व्यापिनो विद्यात्प्रयोगांस्त्वेकदेशिकान् ॥५५॥

व्बाभ्रवीयांश्च सूत्रार्थानागमय्य विमृश्य च । वात्स्यायनश्चकारेदं कामसूत्रं यथाविधि ॥५६॥

व्तदेतद्ब्रह्मचर्येण परेण च समाधिना । विहितं लोकयात्रार्थं न रागार्थोऽस्य संविधिः ॥५७॥

व्रक्षन्धर्मार्थकामानां स्थितिं स्वां लोकवर्तिनीम् । अस्य शास्त्रस्य तत्त्वज्ञो भवत्येव जितेन्द्रियः ॥५८॥

व्तदेतत्कुशलो विद्वान्धर्मार्थाववलोकयन् । नातिःरागात्मकः कामी प्रयुञ्जानः प्रसिध्यति((१९३)) ॥५९॥
इति श्रीवात्स्यायनीये कामसूत्रे औपनिषदिके सप्तमेऽधिकरणे सुभगंकरणं वशीकरणं वृष्ययोगाः द्वितियोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : June 27, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP