संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसेन्द्रचिन्तामणि| अध्यायः ५ रसेन्द्रचिन्तामणि अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ रसेन्द्रचिन्तामणि - अध्यायः ५ रसेन्द्रचिन्तामणि चौदाव्या शतकांतील गद्यपद्य मिश्रित ग्रंथ आहे. Tags : rasendrachintamaniVedआयुर्वेदरसेन्द्रचिन्तामणि अध्यायः ५ Translation - भाषांतर (गन्धकः शोधन)आदौ गन्धकटङ्कादि क्षालयेज्जम्भकरिणा ।दृढसंलग्नधूल्यादि मलं तेन विशीर्यते ॥१॥गन्धः सक्षीरभाण्डस्थो वस्त्रे कूर्मपुटाच्छुचिः ।अथवा काञ्जिके तद्वत्सघृते शुद्धिमाप्नुयात् ॥२॥गन्धकमत्र नवनीताख्यमुपादेयम् ॥३॥लौहपात्रे विनिक्षिप्य घृतं अग्नौ प्रतापयेत् ।तप्ते घृते तत्समानं क्षिपेद्गन्धकजं रजः ॥४॥विद्रुतं गन्धकं ज्ञात्वा दुग्धमध्ये विनिक्षिपेत् ।एवं गन्धकशुद्धिः स्यात्सर्वकार्येषु योजयेत् ॥५॥गन्धकस्य च पादांशं दत्त्वा च टङ्कणं पुनः ।मर्दयेन्मातुलुङ्गाम्लै रुवुतैलेन भावयेत् ।चूर्णं पाषाणगं कृत्वा शनैर्गन्धं खरातपे ॥६॥विचूर्ण्य गन्धकं क्षीरे घनीभावावधिं पचेत् ।ततः सूर्यावर्त्तरसं पुनर्दत्त्वा पचेच्छनैः ॥७॥पश्चाच्च पातयेत्प्राज्ञो जले त्रैफलसम्भवे ।जहाति गन्धको गन्धं निजं नास्तीह संशयः ॥८॥देवदाल्यम्लपर्णी वा नागरं वाथ दाडिमम् ।मातुलुङ्गं यथालाभं द्रवमेकस्य वा हरेत् ॥९॥गन्धकस्य तु पादांशं टङ्कणं द्रवसंयुतम् ।अनयोर्गन्धकं भाव्यं त्रिभिर्वारैस्ततः पुनः ॥१०॥धूस्तूरस्तुलसीकृष्णा लशुनं देवदालिका ।शिग्रुमूलं काकमाची कर्पूरः शङ्खिनीद्वयी ॥११॥कृष्णागुरुश्च कस्तूरी वन्ध्याकर्कोटकीद्वयी ।मातुलुङ्गरसैः पिष्ट्वा क्षिपेदेरण्डतैलके ॥१२॥अनेन लौहपात्रस्थं भावयेत्पूर्वगन्धकम् ।त्रिवारं क्षौद्रतुल्यं तु जायते गन्धकवर्जितम् ॥१३॥(गन्धतैल)अर्कक्षीरैः स्नुहीक्षीरैर्वस्त्रं लेप्यं तु सप्तधा ।गन्धकं नवनीतेन पिष्ट्वा वस्त्रं विलेपयेत् ॥१४॥तद्वर्तिर्ज्वलिता दण्डे धृता धार्या त्वधोमुखी ।तैलं पतत्यधोभाण्डे ग्राह्यं योगेषु योजयेत् ॥१५॥(गन्धतैल)आवर्त्यमाने पयसि दध्याद्गन्धकजं रजः ।तज्जातदधिजं सर्पिर्गन्धतैलं नियच्छति ॥१६॥(गन्धतैलःः मेदिच्. प्रोपेर्तिएस्)गन्धतैलं गलत्कुष्ठं हन्ति लेपाच्च भक्षणात् ।अनेन पिण्डिका कार्या रसेन्द्रस्योक्तकर्मसु ॥१७॥शुद्धसूतपलैकं तु कर्षैकं गन्धकस्य च ।स्विन्नखल्वे विनिक्षिप्य देवदालीरसप्लुतम् ।मर्दयेच्च कराङ्गुल्या गन्धबन्धः प्रजायते ॥१८॥भागा द्वादश सूतस्य द्वौ भागौ गन्धकस्य च ।मर्दयेद्घृतयोगेन जायते गन्धपिष्टिका ॥१९॥अष्टौ भागा रसेन्द्रस्य भाग एकस्तु गान्धिकः ।विषतैलादिना मर्द्यो गन्धबन्धः प्रजायते ॥२०॥दशनिष्कं शुद्धसूतं निष्कैकं शुद्धगन्धकम् ।स्तोकं स्तोकं क्षिपेत्खल्वे मर्दयेच्च शनैः शनैः ।कुट्टनाज्जायते पिष्टिः सेयं गन्धकपिष्टिका ॥२१॥फलं चास्य गन्धकजारणनागमारणादि ॥२२॥शुद्धगन्धो हरेद्रोगान्कुष्ठमृत्युज्वरादिकान् ।अग्निकारी महानुष्णो वीर्यवृद्धिं करोति च ॥२३॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP