संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसेन्द्रचिन्तामणि| अध्यायः १ रसेन्द्रचिन्तामणि अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ रसेन्द्रचिन्तामणि - अध्यायः १ रसेन्द्रचिन्तामणि चौदाव्या शतकांतील गद्यपद्य मिश्रित ग्रंथ आहे. Tags : rasendrachintamaniVedआयुर्वेदरसेन्द्रचिन्तामणि अध्यायः १ Translation - भाषांतर हे भस्माङ्गविरक्तिरूपगुणदं तं प्रेरणादं शिवं गङ्गाभूषितशेखरं स्मरहरं शक्तिस्वरूपं प्रभो ।त्वामीशं करुणार्णवं शरणदं विद्यानिधिं निर्गुणं भूतेशं गिरिजापतिं शशिधरं माङ्गल्यदेवं नमः ।नमामि देवं सुरवृन्दपूजितं गणाधिपं विघ्नविनाशकारकम् ।स्मरन्ति ये नित्यं उदारचेतसः कष्टानि ते नानुभवन्ति सत्यम् ।सिद्धिनन्दनमिश्रेण शुद्धां च सारगर्भिताम् ।रसेन्द्रचिन्तामणेश्च टीकां कुर्वे शिवाज्ञया ।इदानीं कालनाथशिष्यः श्रीढुण्ढुकनाथाह्वयो रसेन्द्रचिन्तामणिग्रन्थं आरभमाणस्तन्मूलदेवते श्रीमदम्बिकामहेश्वरौ सकलजगदुत्पत्तिस्थितिप्रलयनिदानं विशेषसिद्धान्तगर्भवाचा वरीवस्यति ॥१॥अर्थप्रकाशकासारविमर्शाम्बुजिनीमयम् ।सच्चिदानन्दविभवं शिवयोर्वपुराश्रये ॥२॥लघीयः परिमाणतया निखिलरसज्ञानदायित्वाच्चिन्तामणिरिव चिन्तामणिः ॥३॥अश्रौषं बहुविदुषां मुखादपश्यं शास्त्रेषु स्थितं अकृतं न तल्लिखामि ।यत्कर्म व्यरचयमग्रतो गुरूणां प्रौढानां तदिह वदामि वीतशङ्कः ॥४॥अध्यापयन्ति यद्दर्शयितुं क्षमन्ते सूतेन्द्रकर्म गुरवो गुरवस्त एव ।शिष्यास्त एव रचयन्ति गुरोःपुरो ये शेषाः पुनस्तदुभयाभिनयं भजन्ते ॥५॥संस्काराः परतन्त्रेषु ये गूढाः सिद्धिसूचिताः ।तानेव प्रकटीकर्तुं उद्यमं किल कुर्महे ॥६॥ग्रन्थादस्मादाहरन्ति प्रयोगान्स्वीयं वास्मिन्नाम ये निक्षिपन्ति ।गोत्राण्येषां अस्मदीयश्रमोष्मा भस्मीकुर्वन्नायुगं बोभवीतु ॥७॥संस्काराः शिवजनुषो बहुप्रकारास्तुल्या ये लघुबहुलप्रयासंसाध्याः ।यद्येकं सुकरं उदाहरामि तेषां व्याहारैः किमिहफलं ततः परेषाम् ॥८॥इह खलु पुरुषेण दुःखस्य निरुपाधिद्वेषविषयत्वात्तदभावश्चिकीर्षितव्यो भवति सुखमपि निरुपाधिप्रेमास्पदतया गवेषणीयं तदेतत्पुरुषार्थद्वयम् ।अभावस्यान्यत्वात् ॥९॥किंच स्रक्चन्दनवनितादिविषयाणां सत्यपि तत्कारणत्वे नान्तरीयकदुःखसम्भेदादनर्थपरम्परापरिचितत्वान्मूर्खाणां कोशाण्डकवदाभासमानत्वादनैकान्तिकत्वाद्विरोधिनां युगपददृश्यमानत्वादत्यन्तताविरहितत्वाच्च परिहरणीयत्वम् ॥१०॥एकान्तात्यन्ततश्च पुनस्ते ह्युपायाः खलु हरिहरब्रह्माण इव तुल्या एव सम्भवन्ति ।ज्ञानयोगः पवनयोगो रसयोगश्चेति ॥११॥ननु कथमेषां तुल्यतेत्यपेक्षायां ब्रूमः मोक्षोपाये बृहद्वासिष्ठादौ भुशुण्डोपाख्याने वसिष्ठवाक्यम् ।असाध्यः कस्यचिद्योगः कस्यचिज्ज्ञाननिश्चयः ।द्वौ प्रकारौ ततो देवो जगाद परमः शिवः ।प्राणानां वा निरोधेन वासनानोदनेन वा ।नो चेत्संविदं उच्छाणां करोषि तदयोगवान् ।द्वावेव हि समौ राम ज्ञानयोगाविमौ स्मृतौ ॥१२॥तत्राद्ययोः केवलं पक्वकषायाणामपि कथञ्चन साध्यत्वाच्चरमे तु पुनर्भोगलोलुपानां अप्यधिकारित्वात्ताभ्यां समीचीनोऽयमिति कस्य न प्रतिभाति ॥१३॥किंच अस्य भगवन्निर्यासतया सेवकानां स्वसम्भूतसकलधातुत्वापादकस्य भगवतो रसराजस्य गुणसिन्धोः कियन्तः पृषताः प्रसङ्गाल्लिख्यन्ते ॥१४॥अचिराज्जायते देवि शरीरमजरामरम् ।मनसश्च समाधानं रसयोगादवाप्यते ॥१५॥सत्त्वं च लभते देवि विज्ञानं ज्ञानपूर्वकम् ।सत्यं मन्त्राश्च सिध्यन्ति योऽश्नाति मृतसूतकम् ॥१६॥यावन्न शक्तिपातस्तु न यावत्पाशकृन्तनम् ।तावत्तस्य कुतः शुद्धिर्जायते मृतसूतके ॥१७॥यावन्न हरबीजं तु भक्षयेत्पारदं रसम् ।तावत्तस्य कुतो मुक्तिः कुतः पिण्डस्य धारणम् ॥१८॥स्वदेहे खेचरत्वं वै शिवत्वं येन लभ्यते ।तादृशे तु रसज्ञाने नित्याभ्यासं कुरु प्रिये ॥१९॥त्वं माता सर्वभूतानां पिता चाहं सनातनः ।द्वयोश्च यो रसो देवि महामैथुनसम्भवः ॥२०॥दर्शनात्स्पर्शनात्तस्य भक्षणात्मरणात्प्रिये ।पूजनाद्रसदानाच्च दृश्यते षड्विधं फलम् ॥२१॥केदारादीनि लिङ्गानि पृथिव्यां यानि कानिचित् ।तानि दृष्ट्वा च यत्पुण्यं तत्पुण्यं रसदर्शनात् ॥२२॥चन्दनागुरुकर्पूरकुङ्कुमान्तर्गतो रसः ।मूर्छितः शिवपूजा सा शिवसांनिध्यसिद्धये ॥२३॥भक्षणात्परमेशानि हन्ति तापत्रयं रसः ।दुर्लभं ब्रह्मविष्ण्वाद्यैः प्राप्यते परमं पदम् ॥२४॥हृत्पद्मकर्णिकान्तःस्थं रसेन्द्रं परमेश्वरि ।स्मरन्विमुच्यते पापैः सद्यो जन्मान्तरार्जितैः ॥२५॥स्वयम्भूलिङ्गसाहस्रैर्यत्फलं सम्यगर्चनात् ।तत्फलं कोटिगुणितं रसलिङ्गार्चनाद्भवेत् ॥२६॥रोगिभ्यो यो रसं दत्ते शुद्धिपाकसमन्वितम् ।तुलादानाश्वमेधानां फलं प्राप्नोति शाश्वतम् ॥२७॥रसविद्या परा विद्या त्रैलोक्येऽपि च दुर्लभा ।भुक्तिमुक्तिकरी यस्मात्तस्माज्ज्ञेया गुणान्विता ॥२८॥ब्रह्मज्ञानेन सोऽयुक्तो यः पापी रसनिन्दकः ।नाहं त्राता भवे तस्य जन्मकोटिशतैरपि ॥२९॥आलापं गात्रसंस्पर्शं यः कुर्याद्रसनिन्दकैः ।यावज्जन्मसहस्राणि स भवेत्पापपीडितः ॥३०॥हेमजीर्णो भस्मसूतो रुद्रत्वं भक्षितो दिशेत् ।विष्णुत्वं तारजीर्णस्तु ब्रह्मत्वं भास्करेण तु ॥३१॥तीक्ष्णजीर्णो धनेशत्वं सूर्यत्वं चापि तालके ।राजरे तु शशाङ्कत्वममरत्वं च रोहणे ॥३२॥सामान्येन तु तीक्ष्णेन नरः शक्रत्वमाप्नुयात् ॥३३॥दोषहीनो रसो ब्रह्मा मूर्छितस्तु जनार्दनः ।मारितो रुद्ररूपी स्याद्बद्धः साक्षात्सदाशिवः ॥३४॥ईदृशस्य गुणानां पर्यवसानमम्बुजसम्भवोऽपि महाकल्पैरपि वचोभिर्नासादयितुमलमित्यलं बहुना ॥३५॥यद्यन्मयाक्रियत कारयितुं च शक्यं सूतेन्द्रकर्म तदिह प्रथयांबभूवे ।अध्यापयन्ति य इदं नतु कारयन्ति कुर्वन्ति नेदमधियन्त्युभये मृषार्थाः ॥३६॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP