संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्| मङ्गलम् सदुक्तिकर्णामृतम् देवप्रवाहः शृङ्गारप्रवाहः चाटुप्रवाहवीचयः अपदेशप्रवाहवीचयः उच्चावचप्रवाहवीचयः प्रस्तावना मङ्गलम् सदुक्तिकर्णामृतम् - मङ्गलम् सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : shridharadasश्रीधरदाससंस्कृतसुभाषित मङ्गलम् Translation - भाषांतर मङ्गलम्प्रज्ञां कामपि सम्पदं च कुरुते यत्पादसंवाहनंनित्यं शाम्यति विष्वगन्धतमसं यच्चक्षुरुन्मीलनात।यत्पादार्घ्यपयो विधूय दुरितं निःश्रेयसं यच्छतिस्वान्ते नः स वसत्वनारतमनाख्येयस्वरूपो हरिः ॥१॥प्रस्तावःशौर्याणीव तपांसि बिभ्रति भयं यस्मिन्न यस्यावधिर्ज्ञाने दान इव द्विषामिव जयो येनेन्द्रियाणां कृतः ।सम्राजामिव योगिनामपि गुरुर्यश्च क्षमामण्डलेस श्रीललक्ष्मणसेन एकनृपतिर्मुक्तश्च जीवन्नभूत॥१॥तस्यासीत्प्रतिराजतद्वृतमहासामन्तचूडामणिर्नाम्ना श्रीबटुदास इत्यनुपमप्रेमैकपात्रं सखा ।तापं सन्तमसं हरन्नहरहः कीर्तिं दधत्कौमुदींसाक्षादक्षयसूनृतामृतमयः पूर्णः कलानां निधिः ॥२॥श्रीमान्श्रीधरदास इत्यधिगुणाधारः स तस्मादभूद्आकौमारपारपौरुषपराधीनस्य यस्यानिशम् ।लक्ष्मीर्वेदविदां गृहेषु गुणिता गोष्ठीषु विद्यावतांभक्तिः श्रीपतिपादओपल्लवनखज्योत्स्नासु विश्राम्यति ॥३॥प्रत्येकं विषयेषु पञ्चकमितैः श्लोकैः कवीनामिदंतेनाकारणबान्धवेन विदधे श्रीसूक्तिकर्णामृतम् ।प्रीतिं पल्लवयन्तु कर्णकलसीमापूरयन्तश्चिरंमज्जन्तः परिशीलयन्तु रसिकाः पञ्च प्रवाहानिह ॥४॥अमराः शृङ्गारचटू अपदेशोच्चावचे क्रमशः ।इति पञ्चभिः प्रवाहैः सदुक्तिकर्णामृतं क्रियते ॥५॥अमरप्रवाहवीचयःअथ धाता रविरीशप्रणतिमहादेवशिवहरक्रीडाः ।प्रश्नोत्तराट्टहासावमुष्य मूर्धीत्तमाङ्गगङ्गा च ॥१॥मौलिशशी कोटीरो मुण्डावलिरक्षि पुरभिदारम्भः ।बाणानलोष्टमूर्तिर्भैरवहरताण्डवारम्भौ ॥२॥नृत्यं हरप्रसादनमथ गौरी परिणयस्थगौरी च ।शृङ्गारो गिरिदुहितुर्दुर्गा काली तथार्धनारीशः ॥३॥शृङ्गारी च गजाननशरसम्भवभृङ्गिणः प्रमथाः ।अथ हरिहरौ सकान्तौ सुरसिन्धुर्जह्न्कन्यकाशंसा ॥४॥मत्स्यकमठसूकरकेशरिनृसिंहपाणिजन्मानः ।शृङ्गारी च नृसिंहो वामनमूर्तिस्त्रिविक्रमो भृगुजः ॥५॥दाशरथिरेष विरही हलधरजिनकल्किनोऽथ कृष्णस्य ।शिशुताकुमारभावौ स्वप्नायितयौवनक्रीडाः ॥६॥प्रश्नोत्तरं च वेणुध्वननं गीतं भुजश्च गिरिधरणम् ।उत्कण्ठा गोपवधूसन्देशो हरिरमुष्य भक्तिश्च ॥७॥उदधिमथनहरिरम्बुधिमथनोत्थश्रीः स्वयंवरो लक्ष्म्याः ।श्री शृङ्गारः कमलाकमलोपालभवाक्प्रशस्तेन्दुः ॥८॥चन्द्रकला शशिबिम्बं प्रौढविधुः सरुचिचन्द्रमा रश्मिः ।ज्योत्स्ना कलङ्कतमौडुकैरवसहितेन्दुभावश्च ॥९॥मिश्रबहुरूपकास्तङ्गतबहुविषयेन्दवोऽथ गन्धवहः ।दक्षिणनदीसमुद्रप्रभातभिन्नश्च पुष्पधन्वा च ॥१०॥स्मरशौर्यमथोच्चावचमिति पञ्चोपेतनवतिवीचिभिः ।श्रीधरदासेन कृतः कृतिना देवप्रवाहोऽयम् ॥११॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP