संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|योगिनीहृदयम्| द्वितीयः पटलः योगिनीहृदयम् प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः योगिनीहृदयम् - द्वितीयः पटलः योगिनीहृदय हा एक सुप्रसिद्ध ग्रंथ आहे. योगिनीहृदय हे वामकेश्वर तंत्र असून ते नित्याहृदय ह्या नावाने प्रसिद्ध आहे. Tags : tantrayoginihridayतंत्रयोगिनीहृदयसंस्कृत द्वितीयः पटलः Translation - भाषांतर मन्त्रसङ्केतं दिव्यमधुना कथ्यामि ते ।यद्वेत्ता त्रिपुराकारो विरचक्रेश्वरो भवेत् ॥१॥करशुद्धिकरो त्वाद्या द्वितीया चात्मरक्षिका ।आत्मासनगता देवी तृतीया तदनन्तरम् ॥२॥चक्रासनगता पश्चात् सर्वमन्त्रासनस्थिता ।साध्यसिद्धासना ष्ष्टा मायालक्ष्मीमयी परा ॥३॥मूर्तिविद्या च सा देवी सप्तमो परिकीर्तिता ।अष्टम्यावाहिनी विद्या नवमा भैरवी परा ॥४॥मूलविद्या तथा ख्याता त्रैलोक्यवशकारिणी ।एवं नवप्रकारास्तु पूजाकाले प्रयत्नतः ॥५॥एताः क्रमेण न्यस्तव्याः साधकेन कुलेश्वरि ।पादाग्रजङ्घाजानूरुगुदलिङ्गाग्रकेषु च ॥६॥आधरे विन्यसन्मूर्ति तस्यामावाहिनीं न्यसेत् ।मूलेन व्यापकन्यासः कर्तव्यः परेम्श्वरि ॥७॥अकुलादिषु पूर्बोक्तस्थानेषु परिचिन्तयेत् ।चक्रेश्वरिसमायुक्तं नवचक्रं पुरोदितम् ॥८॥तासां नामानि वक्ष्यामि यथानुक्रमयोगतः ।तत्राद्या त्रिपुरा देवी द्वितीया त्रिपुरेश्वरी ॥९॥तृतीया च तथा प्रोक्ता देवी त्रिपुरसुन्दरी ।चतुर्थी च महादेवी देवी त्रिपुरवासिनी ॥१०॥पञ्चमी त्रिपुरा श्रीः स्यात् षष्टी त्रिपुरमालिनी ।सप्तमी त्रिपुरा सिद्धिरष्टमी त्रिपुराम्बिका ॥११॥नवमी तु माहदेवी महात्रिपुरसुन्दरी ।पूजयेच्च क्रमादेता नवचक्रे पुरोदिते ॥१२॥एवं नवप्रकाराद्या पुजाकले तु पार्वति ।एकाकारा ह्याद्यशक्तिरजरामरकारिणी ॥१३॥मन्त्रसङ्केतकस्तस्या नानाकारो व्यवस्थितः ।नानामन्त्रकर्मेणैव पारम्पर्येण लभ्यते ॥१४॥षडविधस्तं तु देवेशि कथयामि तवानधे ।भावार्थः सम्प्रदायार्थो निगमार्थश्च कौलिकः ॥१५॥तथा सर्वरहस्यार्थो महातत्त्वार्थ एव च ।अक्षरार्थो हि भावार्थः केवलः परमेश्वरि ॥१६॥योगिनीभिस्तथा विरैर्वीरेन्द्राइः सर्वदा प्रिये ।शिवशक्तिसमायोगा~ज्जनितो मन्त्रराजकः ॥१७॥तन्मयीं परमानन्दनन्दितां स्पन्दरूपिणीम् ।निसर्गसुन्दरीं देवीं ज्ञात्वा स्वैरमुपासते ॥१८॥शिवशक्त्यात्मसंघट्टरूपे ब्र्ह्माणि शाश्वते ।तत्प्रथाप्रसराश्लेषभुवि त्वैन्द्रोपलक्षिते ॥१९॥ज्ञातृज्ञानमयाकारसननान्मन्त्ररूपिणी ।तेषां समष्टिरूपेण पराशक्तिस्तु मातृका ॥२०॥मध्यबिन्दुविसर्गान्तः समास्थानमये परे ।कुटिलारूपके तस्याः प्रतिरूपे वियत्कले ॥२१॥मध्यप्राणप्रथारूपपस्पन्दव्योम्नि स्थित पुनः ।मध्यमे मन्त्रपिण्डे तु तृतीये पिण्डके पुनः ॥२२॥राहुकूटाद्वयस्फूर्जच्चलत्तासंस्थितस्य तु ।धर्माधर्मस्य वाच्यस्य विषामृतमयस्य च ॥२३॥वाचक्राक्षरसंयोगात् कथिता विश्वरूपिणी ।तेषां समष्टिरूपेण पराशक्तिं तु मातृकाम् ॥२४॥कूटत्रयात्मिकां देवीं समष्टिव्यष्टिरूपिणिम् ।आद्यां शक्तिं भावयन्तो भावार्थमिति मन्वते ॥२५॥सम्प्रदायो महाबोधरूपो गुरुमुखे स्थितः ।विश्वाकारप्रथायास्तु महत्त्वञ्च यदाश्रयम् ॥२६॥शिवशक्त्याद्यया मूलविद्यया परमेश्वरि ।जगत्कृत्स्नं तया व्याप्तं शृणुष्वावहिता प्रिये ॥२७॥पञ्चभूतमयं विश्वं तन्मयी सा सदानघे ।तन्मयी मूलविद्या च तदद्य कथयाम्मि ते ॥२८॥हकाराद् व्योम सम्भूतं ककारात्तु प्रभञ्जनह ।रेफादग्निः सकाराच्च जलतत्त्वस्य सम्भवः ॥२९॥लकारात, ह पृथिवी जाता तस्माद विश्वमयी च सा ।गुणाःपञ्चदश प्रोक्ता भूतानं तन्मयी शिवा ॥३०॥यस्य यस्य पदार्थस्य सा या शक्तिरुदीरिता ।सा सा सर्वेश्वरी देवी स स सर्वो महेश्वरः ॥३१॥व्याप्ता पञ्चदशार्णः सा विद्या भूतगुणात्मिकाः ।पञ्चभिश्च तथा षड भिश्चतुर्भिरपि चाक्षरः ॥३२॥स्वरव्यञ्जनभेदेन सप्तत्रिंशत्प्रभेदेनी ।सप्तत्रिंशत्प्रभेदेन षट त्रिंशतत्त्वरूपिणी ॥३३॥तत्त्वातीतस्वभावा च विद्यैषं भाव्यते सदा ।पृथिव्यादिषु भूतेषु व्यापकं चोत्तरोत्तरम् ॥३४॥भूतं त्वधस्तनं व्याप्यं तद गुणा व्यापकाश्रयाः ।व्याप्येष्ववस्थिता देवि स्थूलसूक्ष्मविभेदतः ॥३५॥तस्माद्व्योमगुणः शब्दो वाय्वादीन् व्याप्य संस्थितः ।व्योमबिहैस्तु विद्यास्थैर्लक्षयेच्छब्दपञ्चकम ॥३६॥तेषां कारुणरूपेण स्थित ध्वनिमयं परम् ।भवेद् गुणवतां बीजं गुणानामपि वाचकम् ॥३७॥कार्यकारणभावेन तयोरैक्य विवक्षया ।महामायात्रयेणापि कारणेन च बिन्दुना ॥३८॥वाय्वाग्निजलभूमीनां स्पर्शानां च चतुष्टयम् ।उत्पन्नं भावयेद् देवि स्थूलसूक्ष्मविभेदतः ॥३९॥रूपाणां त्रितयं तद्वत् त्रिभी रेफैर्विभावितम् ।प्रधानं तेजसो रूपं तद बीजेन हि जन्यते ॥४०॥विद्यास्थैश्चन्द्रबीजैस्तु स्थूलसूक्ष्मो रसः स्मृतः ।सम्बन्धो विदितो लोके रसस्याप्यमृतस्य च ॥४१॥वसु धाया गुणो गन्धस्तल्लिपिर्गन्धवाचिका ।भुवनत्रयसम्भन्धात् त्रिधात्वं तु महेश्वरि ॥४२॥अशुद्धशुद्धमिश्राणां प्रमातॄणां परं वपुः ।क्रोधीशत्रितये नाथ विद्यास्थेन प्रकाश्यते ॥४३॥श्रीकण्ठदशकं तद्वद व्यक्तस्यापि वाचकः ।प्राणरूपस्थितो देवि तद्वदेकादशः परः ॥४४॥एकः सन्नेव पुरुषो बहुधा कायते हि सः ।रुद्रेश्वरसदेशाख्या देवता मितविग्रहाः ॥४५॥बिन्दुत्रयेण कथिता अमितामितविग्रहाः ।शान्तिः शक्तिश्च शम्भुश्च नादत्रितयबोधनाः ॥४६॥वागुरामूलवलये सूत्राद्याः कवलीकृताः ।तथा मन्त्राः समस्ताश्च विद्यायामत्र संस्थिताः ॥४७॥गुरुक्रमेण संप्राप्तः संप्रदायार्थ ईरितः ।निगर्भार्थो महदेवि शिवगुर्वात्मगोचरः ॥४८॥शिवगुर्वात्मनामैक्यानुसंधानात्तदात्मकम् ॥४९॥निष्कलत्वं शिवे बुध्वा तद्रूपत्वं गुरोरपि ।तन्निरीक्षणसामर्थ्यादात्मनश्च शिवात्मताम् ॥५०॥भावयेदभक्तिनम्रः सङ्कोचोन्मेषाकलङ्कितः ।कौलिकं कथयिष्यामि चक्रदेवतयोरपि ॥५१॥विद्यागुर्वात्मनामैक्यं तत्प्रकारः प्रदर्श्यते ।लकारैश्चतुरस्राणि वृत्तत्रितयसंयुतम् ॥५२॥सरोरुहद्वयं शक्तैरग्नीषोमात्मकं प्रिये ।हृल्लेखात्रयसंभूतैरक्षरैर्नवसङ्ख्यकैः ॥५३॥बिन्दुत्रययुतैर्जातं नवयोन्यात्मकं प्रिये ।मण्डलत्रययुक्तं तु चक्रं शक्त्यनलात्मकम् ॥५४॥व्योमबीजत्रयेणैव प्रमातृत्रित्यान्वितम् ।इच्छाज्ञानक्रियारूपमादनत्रयसंयुतम् ॥५५॥सदाशिवासनं देवि महाबिन्दुमयं परम् ।इत्थं मन्त्रात्मकं चक्रं देवतायाः परं वपुः ॥५६॥एकादशाधिकशतदेवतात्मतया पुनः ।गणेशत्वं महादेव्याः ससोमरविपावकैः ॥५७॥इच्छाज्ञानक्रियाभिश्च गुणत्रययुतैह पुनः ।ग्रहरूपा च सा देवी ज्ञानकर्मेन्द्रियैरपि ॥५८॥तदर्थैरेव देवेशि करणैरान्तरैः पुनः ।प्रकृत्या च गुणेनापि पुंस्त्वबन्धेन चात्मना ॥५९॥नक्षत्रविग्रहा जाता योगिनीत्वमथोच्यते ।त्वगादिधातुनाथाभिर्डाकिन्यादिभिरप्यसौ ॥६०॥वर्गाष्टकनिविष्टाभिर्योगिनीभिश्च संयुता ।योगिनीरूपमास्थाय राजते विश्वविग्रा ॥६१॥प्राणापानौ समानश्चोदनव्यानौ तथा पुनः ।नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः ॥६२॥जीवात्मा पर्मात्मा चैत्येतै राशिस्वरूपिणी ।अकथादित्रिपङ्क्त्यात्मा तार्तियादिक्रमेण सा ॥६३॥गणेशोऽभून्महाविद्या परावागादिवाङ्मयी ।बीजबिन्दुध्वनीनां च त्रिकूटेषु ग्रहात्मिका ॥६४॥हृल्लेखात्रयसंभूतैस्तिथिसंख्यैस्तथाक्षरैः ।अन्यैर्द्वादशभिर्वर्णैरेषा नक्षत्ररूपिणी ॥६५॥विद्यानन्तर्भूतशक्त्याद्यैः शाक्तैः षड भिस्तथाक्षरैः ।योगिनीत्वं च विद्याय राशित्वं चान्त्यवर्जितैः ॥६६॥एवं विश्वप्रकारा च चक्र रूपा महेश्वरी ।देव्या देहे यथा प्रोक्तो गुरुदेहे तथैव हि ॥६७॥तत्प्रसादाच्च शिष्योऽपि तद्रूपः संप्रजायते ।इत्येवं कौलिकार्थस्तु कथितो विरवन्दिते ॥६८॥तथा सर्वरह्स्यार्थं कथयामि तवानघे ।मूलाधारे तडिद्रूपे वाग्भवाकारतां गते ॥६९॥अष्टात्रिंशत्कलायुक्तपञ्चाशद्वर्णविग्रहा ।विद्या कुण्डलिनीरूपा मण्दलत्रयभेदिनी ॥७०॥तडित्कोटिनिभप्रख्या बिसतन्तुनिभाकृतिः ।व्योमेन्दुमण्डलासक्ता सुधास्त्रोतःस्वरूपिणी ॥७१॥सदा व्याप्तजगत् कृत्स्ना सदानन्दस्वरूपिणी ।एषा स्वात्मेति बुद्धिस्तु रहस्यार्थो महेश्वरि ॥७२॥महातत्त्वार्थं इति यत्तच देवि वदामि ते ।निष्कले प्रमे सूक्ष्मे निर्लक्ष्ये भाववर्जिते ॥७३॥व्योमातीते परे तत्त्वे प्रकाशानन्दविग्रहे ।विश्वोत्तिर्णे विश्वमये तत्त्वे स्वात्मनियोजनम् ॥७४॥तदा प्रकाशमानत्वं तेजसां तमसामपि ।अविनाभावरूपत्वं तस्माद्विश्वस्य सर्वतः ॥७५॥प्रकाशते महातत्त्वं दिव्यक्रीडारसोज्ज्वले ।निरस्तसर्वसंकल्पविकल्पस्थितिपूर्वकः ॥७६॥रहस्यार्थो मया गुप्तः सद्यः प्रत्ययकारकः ।महाज्ञानार्णवे दृष्टः शङ्का तत्र न पार्वति ॥७७॥विद्यापीठनिबद्धेषु संस्थितो दिव्यसिद्धिदः ।कौलाचारपरैर्देवि पादुकाभावनापरैः ॥७८॥योगिनीमेलनोद्युक्तैः प्राप्तविद्याभिषेचनैः ।शङ्काकलङ्कविगतैः सदा मुदितमानसैः ॥७९॥पारम्पर्येण विज्ञातरहस्यार्थविशारदैः ।लभ्यते नान्यथ देवि त्वां शपेकुलसुन्दरि ॥८०॥पारम्पर्यविहीना ये ज्ञानमात्रेण गर्विताः ।तेषां समयलोपेन विकुर्वन्ति मरीचयः ॥८१॥यस्तु दिव्यरसास्वादमोदमानविमर्शनः ।देअतातिथिनक्षत्रे वारेऽपि च विवस्वतः ॥८२॥मरीचीन् प्रीणयत्येव मदिरानन्दघूर्णितः ।सर्वदा च विशेषण लभते पूर्णबोधताम् ॥८३॥एवंव्हावस्तु देवेशि देशिकेन्द्रप्रसादतः ।महाज्ञानमयो देवि सद्यः सम्प्राप्यते नरैः ॥८४॥एवमेतत्प्रदं ज्ञानं विद्यार्णागमगोचरम् ।देवि गुह्यप्रियेणैव व्याख्यातं दुर्गि षड विधम् ।सद्यो यस्य प्रबोधेन वीरचक्रेश्वरो भवेत् ॥८५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP