संस्कृत सूची|संस्कृत साहित्य|धर्मः|नारद भक्ति सूत्र| तृतियोऽध्यायः नारद भक्ति सूत्र प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतियोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः नारद भक्ति सूत्र - तृतियोऽध्यायः नारद भक्ति सूत्राचे रोज वाचन केल्याने सर्व कलह नष्ट होतात Tags : dharmaधर्मनारदसंस्कृत तृतियोऽध्यायः Translation - भाषांतर तस्याः साधनानि गायन्त्याचार्याः ।तत्तु विषयत्यागात् सङ्गत्यागात् च ।अव्यावृत्तभजनात् ।लोकेऽपि भगवद्गुणश्रवणकीर्तनात् ।मुख्यतस्तु महत्कृपयैव भगवत्कृपालेशाद वा ।महत्सङ्गस्तु दुर्लभोऽगम्योऽमोघश्च ।लभ्तेऽपि तत्कृपयैव ।तस्मिंस्तज्जने भेदाभावात् ।तदेव साध्यतां तदेव साध्यताम् । दुस्सङ्गः सर्वथैव त्याज्यः ।कामक्रोधमोहस्मृतिभ्रंशबुद्धिनाशकारणत्वात् ।तरङगायिता अपीमे सङ्गात् समुत्रायन्ते ।कस्तरति कस्तरति मायाम् यः सङ्गं त्यजति यो महानुभाव् सेवते निर्ममो भवति ।यो विविक्तस्थानं सेवते यो लोकबन्धमुनमूनयति निस्त्रैगुण्यो भवति योगक्षेमं त्यजति । यः कर्मफलं त्यजति कर्माणि सन्नयस्स्यति ततो निर्द्वन्द्वो भवति ।यो वेदानपि सन्नयस्यति केवलमविच्छिन्नानुरागं लभते ।स तरति स तरति स लोकांस्तारयति । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP